________________
चतुर्थः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
अथ कीर्तिधरो 'राजाऽभुक्त वैषयिकं सुखम् । सहदेव्या समं पत्न्या पौलोम्येव पुरन्दरः ॥ ३१ ॥ प्रविव्रजिषुरन्येद्युः स मन्त्रिभिरभण्यत । तवाऽनुत्पन्नपुत्रस्य न व्रतादानंमर्हति ॥ ३२॥ त्वय्यपुत्रे व्रतभाजि निर्नैथेयं वसुन्धरा । तत् प्रतीक्षस्व यावत् ते स्वामिन्नुत्पद्यते सुतः ||३३|| तत: कीर्तिधरस्याऽपि तथैव गृहवासिनः । काले गच्छत्यभूत् पुत्रः सहदेव्यां सुकोशलः ॥ ३४ ॥ ज्ञात्वा जातमिमं बालं पतिर्मे प्रव्रजिष्यति । सहदेवीति बुद्ध्या तं जातमात्रमगोपयत् ॥ ३५॥ विवेद मेदिनीनाथस्तं गुप्तमपि बालकम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ? ||३६|| राजाऽथ स्वार्थकुशलो राज्ये न्यस्य सुकोशलम् । सूरेर्विजयसेनस्य पादान्ते व्रतमाददे ||३७|| तप्यमानस्तपस्तीव्रं सहमान: परीषहान् । स गुर्वनुज्ञयैकाकिविहारेणाऽन्यतो ययौ ॥ ३८॥
साकेतमन्यदा मासोपवासी पारणेच्छया । स आजगाम भिक्षार्थं मध्याह्ने तत्र चाऽभ्रमत् ॥ ३९ ॥ सौधाग्रस्थ सहदेवी तं च दृष्ट्वेत्यचिन्तयत् । पत्यौ प्रव्रजितेऽमुष्मिन् पतिहीना पुराऽभवम् ॥४०॥ वत्सः सुकोशलोऽ ऽप्यद्य दृष्ट्वैनं प्रव्रजेद्यदि । तदा पुत्रोऽपि मे न स्यान्निर्वीरौ स्यां ततः परम् ॥ ४१ ॥ तस्मान्निरपराधोऽपि भर्ताऽपि व्रतधार्यपि । निर्वास्यो नगरात् सूनो राज्यस्थेमचिकीर्षया ॥४२॥ इत्यन्यलिङ्गिभिः सार्धं तं राज्ञी निरवासयत् । लोभाभिभूतमनसां विवेकः स्यात् कियच्चिरम् ॥४३॥ 1 धात्री सुकोशलस्याऽथ स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं ज्ञात्वा रोदिति स्म निरर्गलम् ॥४४॥ किं रोदिषीति पप्रच्छ सुकोशैलनृपोऽपि ताम् । कथयामास साऽप्येवमक्षरैः शोकगद्गदैः ॥४५॥ राज्ये त्वां बालकं न्यस्य तव कीर्तिधरः पिता । प्राव्राजीत् सोऽद्य भिक्षार्थं प्राविक्षदिह पत्तने ॥४६॥ तद्दर्शनात् तवाऽप्यद्य व्रतग्रहणशङ्कया । निर्वासितः स ते मात्रा दुःखेनाऽनेन रोदिमि ॥४७॥ सुकोर्शेलोऽपि तच्छ्रुत्वा गत्वा च पितुरन्तिके । बद्धाञ्जलिर्विरक्तात्मा तस्माद् व्रतमयाचत ॥४८॥ चित्राल' च तत्पत्नी गुर्व्येत्य सह मन्त्रिभिः । उवाचाऽस्वामिकं स्वामिन्! न राज्यं त्यक्तुमर्हसि ॥४९॥ राजाऽप्यवोचद् गर्भस्थोऽपि हि सूनुर्मया तव । राज्येऽभिषिक्तो भाविन्यप्युपचारो हि भूतवत् ॥५०॥ इत्युक्त्वा सकलं लोकं सम्भाष्य पितुरन्तिके । सुकोशल: प्रवव्राज तपस्तेपे च दुस्तपम् ॥५१॥ निर्ममौ निः कषायौ तौ पिता-पुत्रौ महामुनी । विजहतुर्युतावेव पावयन्तौ महीतलम् ॥५२॥ तनयस्य वियोगेन खेदभाक् सहदेव्यपि । आर्तध्यानपरा मृत्वा व्याघ्यभूद् गिरिगह्वरे ॥ ५३|| इतश्च तौ कीर्तिधर-सुकोशैलमहामुनी । प्रावृट्कालचतुर्मासीमत्येतुं दान्तमानसौ ॥ ५४ ॥ निःस्पृहौ स्वशरीरेऽपि स्वाध्याय- ध्यानतत्परौ । गिरेर्गुहायामेकस्य तस्थतुः सुस्थिताकृती ॥५५॥ युग्मम्॥ प्राप्ते च कार्तिके मौसि प्रयान्तौ पारणाय तौ । दृष्टौ मार्गे तया व्याघ्या यमदूत्येव दुष्टया ॥५६॥ सा व्याघ्री शीघ्रर्मेंभि तौ दधावे स्फारितानना । दूरादभ्यागमस्तुल्यो दुर्हृदां सुहृदामपि ।।५७॥ आपतन्त्यामपि व्याघ्यां तौ क्षमाश्रमणोत्तमौ । धर्मध्यानं प्रपेदानौ कायोत्सर्गेण तस्थतुः ॥५८॥ सा तु व्याघ्री विद्युदिव पपाताऽऽदौ सुकोशले । दूरापातप्रहारेण पृथ्व्यां च तमपातयत् ॥५९॥ चटच्चटिति तच्चर्म दौरं दारं नखाङ्कुशैः । पापा साऽपौदतृप्ताऽश्रं वारीव मरुपान्थिका ॥६०॥ त्रोटयित्वा त्रोटयित्वा त्रटत्त्रटिति सारदैः । जग्रसे मांसमपि हि वालुङ्कमिव रङ्किका ॥६९॥ दन्तयन्त्रातिथीचक्रे ककर्शा कीकसान्यपि । कटत्कटिति कुर्वन्ती सेक्षूनिव मैंतजी ॥६२॥ कर्मक्षयसहायेयमिति मम्लौ मुनिर्न सः । विशेषतस्त्वभूदुच्चावचरोमाञ्चकञ्चुकः ॥ ६३॥
1
1
१. राजाऽभुङ्क्त मु. ॥ २. ० मर्हसि ला ॥ ३. अप्यपुत्रे ला. ॥ ४. निर्नाथा ते मो. ॥ ५. सुकोसलः खंता. २, पाता. ॥ ६. ० नाथः सुगुप्तमपि मो. ॥ ७. सुकोसलं खंता. २, पाता. ॥ ८. स्वगुर्व० मु. ॥ ९. सुकोसलो खंता. २, पाता. ॥ १०. ततः पाता. ॥। ११. अपुत्रा ।। १२-१३-१४. सुकोसल० खंता. २, पाता. ॥। १५. चित्रमालाऽपि ता ॥ १६-१७. सुकोसल० खंता. २, पाता. ॥ १८. सम्प्राप्ते मु. ॥। १९. मासे ता. ॥ २०. शीघ्रमभितो मु.; “तौ अभि तयोः सम्मुखं" इति ला. टि ॥ २१. आगमनम् ॥ २२. धर्म्यं ध्यानं ता ॥ २३. सुकोसले खंता. २, पाता ।। २४. दारयित्वा दारयित्वा ।। २५. अतृप्ता सा अर्थरुधिरं अपाद्-अपिबदित्यन्वयः ; ० दतृप्ताऽसृक् पाता ॥ २६. दन्तैः ॥ २७. कर्कटीम् ॥ २८. अस्थीनि ॥ २९. कुर्वाणा खंता. २, पाता. ता. छा. पा. ला. मो. ॥। ३०. हस्तिनी ॥ ३१. ० दुच्चैर्वर० ला ; बहुविध ॥
Jain Education International
For Private & Personal Use Only
१५९
www.jainelibrary.org