________________
॥चतुर्थः सर्गः॥
इतश्च मिथिलापुर्यां हरिवंशे महीपतिः । आसीद् वासवकेत्वाख्यो विपुला तस्य च प्रिया ॥१॥ तयोः सूनुरनूनश्रीर्बभूव भुवि विश्रुतः । प्रजानां जनक इव जनको नाम पार्थिवः ॥२॥
इतश्च पुर्ययोध्यायामृषभस्वामिराज्यत: । इक्ष्वाकुवंशान्तर्भूताऽऽदित्यवंशेषु राजसु॥३॥ यातेषु केषुचिन्मोक्षं स्वर्ग यातेषु केषुचित् । सङ्ख्यातीतेषु विंशस्याऽर्हतस्तीर्थे प्रसर्पति ॥४॥ बभूव विजयो राजा हिमचूला च तत्प्रिया। तयोरभूतां द्वौ पुत्रौ वज्रबाहु-पुरन्दरौ॥५॥त्रिभिर्विशेषकम्।। पाइतश्चाऽभूनागपुरे पुरे राजेभवाहन: । चूडामणिश्च तत्पत्नी तत्पुत्री च मनोरमा ॥६॥ गत्वोद्यद्यौवनां वज्रबाहुः परिणिनाय ताम् । महेन महता श्वेतमरीचिरिव रोहिणीम् ॥७॥ भक्त्या च श्यालेनोदयसुन्दरेणाऽनुगामिना । मनोरमामथाऽऽदाय प्रतस्थे स्वपुराय सः॥८॥ स गच्छन्नन्तराऽपश्यत् तपस्तेजोभिरीश्वरम् । वसन्ताद्रिस्थमुदयाचलस्थमिव भास्करम् ।।९।। मोक्षाध्ववीक्षकमिवोत्पश्यमातापनापरम् । गुणसागरनामानं तपस्यन्तं महामुनिम् ॥१०॥युग्मम्।। मयूर इव जीमूतं तं दृष्ट्वा जातसम्मदः । कुमार इदमाह स्म धृत्वा सपदि वाहनम् ॥११॥ अहो! महात्मा कोऽप्येष वन्द्य एव महामुनिः । चिन्तामणिरिव मया दृष्टः पुण्येन भूयसा ॥१२॥ उवाच चैवमुदयसुन्दरोऽथ कुमार! किम् । आदित्ससे परिव्रज्यां? सोऽवदच्चित्तमस्ति मे ॥१३॥ उदयो नर्मणा भूय: प्रोचे यद्यस्ति ते मनः । तदद्य मा विलम्बस्व सहायोऽहमपीह ते॥१४॥ कुमारो व्याजहारैवं मर्यादामिव वारिभिः । मा त्याक्षी: स्वामिमां सन्धां सोऽप्यामेत्यभ्यभाषत ॥१५॥ कुमारो वाहनान्मोहादिवोत्तीर्याऽऽरुरोह तम् । वसन्तशैलमुदयसुन्दरादिभिरावृतः ॥१६॥ वज्रबाहुमथाऽवादीदिभवाहननन्दनः । स्वामिन्! मा प्रव्राजीरद्य धिर्ग मां नर्माभिभाषिणम् ॥१७॥ नर्मोक्तिरावयोरासीत् को दोषस्तव्यतिक्रमे। नर्मोक्तिर्न हि सत्यैव प्रायो धवलगीतवत् ॥१८॥ भविष्यसि सहायस्त्वं व्यसनेष्वखिलेष्वपि । इत्यकाण्डेऽपि मा भाङ्क्षीरस्मत्कुलमनोरथान् ॥१९।। इदमद्याऽपि मङ्गल्यं तव हस्तेऽस्ति कङ्कणम् । तद् विवाहफलं भोगान् सहसा कथमुज्झसि ? ॥२०॥ सांसारिकसुखास्वादेवञ्चितेयं मनोरमा । जीविष्यति कथं नाथ! त्वया तृणवदुज्झिता ? ॥२१॥ वज्रबाहुकुमारोऽथ जगादोदयसुन्दरम् । सुन्दरं मर्त्यजन्मद्रो: फलं चारित्रलक्षणम् ॥२२॥ नर्मोक्तिरपि तेऽस्मासु बभूव परमार्थसात् । शुक्तिषु स्वातिजीमूतवारि मौक्तिकसादिव ॥२३॥ त्वत्स्वसा च कुलीना चेत् तत् प्रव्रज्यां ग्रहीष्यति । नो चेदस्या: शिव: पन्था भोगैः पुनरलं मम ।।२४।। तद् व्रतायाऽनुमन्यस्व मां त्वमप्यनुयाहि च । कुलधर्म: क्षत्रियाणां स्वसन्धापालनं खलु ॥२५।। उदयं प्रतिबोध्यैवं वज्रबाहुरुपाययौ । सागरं गुणरत्नानां महर्षि गुणसागरम् ।।२६।। तत्पादान्ते वज्रबाहुः परिव्रज्यामुपाददे । उदयो मनोरमाऽथ कुमारा: पञ्चविंशतिः ॥२७॥ वज्रबाहुं प्रव्रजितं श्रुत्वा विजयभूपतिः । वरं बालोऽप्यसौ नाऽहमिति वैराग्यमासदत् ॥२८॥ ततश्च विजय: पुत्र राज्ये न्यस्य पुरन्दरम् । निर्वाणमोहस्य मुने: पार्श्वे व्रतमुपाददे ॥२९॥ पुरन्दरोऽपि स्वे राज्ये पृथिवीकुक्षिजं सुतम् । न्यस्य कीर्तिधरं क्षेमकरर्ण्यन्तेऽभवद् यतिः ॥३०॥ १.महोत्सवेन ।।२. चन्द्रः ।। ३. मोक्षाध्वमीक्षक० मु.॥४. ऊर्ध्वं द्रष्टारम् ।। ५. जातहर्षः ॥ ६. ह्येष खंता. ला.॥७. आदातुमिच्छसि ।। ८. प्रतिज्ञाम् ।। ९. सोऽप्यामेत्यन्वभाषत ता.;सोऽप्यामेवेत्यभाषत ला. हे. कां. मो.प्रभृतिषु, मु.॥१०.धिग् मे नातिभाषणं ला.; धिग् मे नर्माभिकारणं खंता.१; धिग् मे नर्माभिभाषणं मु. ॥११. मागल्यं मु.॥१२. वन्धितेयं खंता.१॥१३. परमार्थरूपा ॥१४. न: मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org