Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 233
________________ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं 'स्वेच्छादुर्ललितैर्मे चाऽऽर्यस्य वैराणि जज्ञिरे। सीतापहारो यन्मूलः किमन्यद् देवि! गद्यते ? ॥९५॥ परन्तु युष्मदाशीभिर्लङ्घित्वा वैरसागरम्। मातः! सपरिवारोऽपि क्षेमेणाऽऽर्य इहाऽऽययौ ॥९६॥ अथोत्सवमयोध्यायां भरतोऽकारयन्मुदा । पुरतो रामपादानां पत्तिमात्रत्वमाचरन् ॥९७॥ " अन्यदा रामभद्रं तु प्रणम्य भरतोऽभ्यधात् । आर्य! त्वदाज्ञया राज्यमियत्कालं मया धृतम् ॥९८॥ प्रावजिष्यं तदैवाऽहं तातपादैः सह प्रभो! । अर्गला नाऽभविष्यच्चेदार्याज्ञा राज्यपालने || ९९|| मां व्रतायाऽनुमन्यस्व स्वयं राज्यं प्रतीच्छ च । भवोद्विग्नस्त्वयि प्राप्ते न ह्यतः स्थातुमुत्सहे ॥१००॥ रामोऽप्युदश्रुस्तं स्माऽऽह किमेवं वत्स ! भाषसे ? । कुरु राज्यं त्वमेवेह त्वय्युत्का वयमागताः ॥ १०१ ॥ त्यजन्नः सह राज्येन भूयस्त्वद्विरहव्यथाम् । किं दत्से ? वत्स! तत् तिष्ठ कुर्वाज्ञां मम पूर्ववत् ॥ १०२ ॥ इत्याग्रहपरं रामं ज्ञात्वा नत्वा च सोऽचलत् । यावत् सौमित्रिणा तावदुत्थायाऽधारि पाणिना ।। १०३॥ भरतं च तथा यान्तं व्रताय कृतनिश्चयम् । ज्ञात्वा सीता - विशल्याद्यास्तत्राऽऽजग्मुः ससम्भ्रमाः ॥ १०४ ॥ विस्मारयितुकामास्ता भरतस्य व्रताग्रहम् । जलक्रीडाविनोदार्थमर्थनां चक्रिरेतराम् ॥ १०५ ॥ उपरोधेन तासां च ययौ सान्तः पुरोऽपि सः । क्रीडासरसि चिक्रीड विरक्तोऽपि मुहूर्तकम् ॥ १०६ ॥ " जलान्निर्गत्य भरतस्तीरेऽस्थाद् राजहंसवत् । स्तम्भमुन्मूल्य भुवनालङ्कारस्तत्र चाऽऽययौ ॥ १०७|| मदान्धोऽप्यमदः सोऽभूत् सद्यो भरतदर्शनात् । तद्दर्शनेन भरतोऽप्यवाप परमां मुदम् ||१०८|| सम्भ्रमाद् राम- सौमित्री तस्योपद्रवकारिणः । करिणो बन्धनायाऽऽशु ससामन्तावुपेयतुः ॥१०९॥ रामाज्ञया हस्तिपैकैः स स्तम्भे हस्त्यनीयत । आगतौ च मुनी देशभूषणः कुलभूषणः ॥ ११० ॥ उद्याने समवसृतौ वन्दितुं तौ महामुनी । प्रययुः राम - सौमित्रि - भरताः सपरिच्छदाः ॥ १११ ॥ वन्दित्वा तौ च पप्रच्छ राम्रो मत्तकरी कथम् । अमदोऽजनि भुवनालङ्कारो भरतेक्षणात् ? ॥ ११२ ॥ ||अथाऽऽख्यत् केवली देशभूषणो नाभिसूनुना । समं सहस्राश्चत्वारो राजानः प्राव्रजन् पुरा ।। ११३ || ते तु स्वामिन्यनाहारे कृतमौने विहारिणि । निर्विण्णा जज्ञिरे सर्वे तापसा वनवासिनः ॥११४॥ प्रह्लादन-सुप्रभराट्तनयौ तेषु तापसौ । चिरं चन्द्रोदय - सूरोदयाख्यौ भ्रमतुर्भवम् ॥ ११५ ॥ चन्द्रोदयो गजपुरे राज्ञो हरिमतेरभूत् । भार्यायां चन्द्रलेखायां सूनुर्नाम्ना कुलङ्करः ॥ ११६ ॥ सूरोदयोऽपि तत्रैव विश्वभूतेर्द्विजन्मनः । भार्यायामग्निकुण्डायां नाम्ना श्रुतिरतिः सुतः ||११७|| अभूत् कुलङ्करो राजा स गच्छंस्तापसाश्रमम् । अवधिज्ञानिनेत्यूचे चाऽभिनन्दनसाधुना ॥ ११८ ॥ तप्यमानेन पञ्चाग्नितपस्तत्र तपस्विना । दग्धुमानीतकाष्ठस्य मध्ये तिष्ठति पन्नगः ॥ ११९ ॥ सोऽहिः पुरा भवे क्षेमङ्कराख्यस्ते पितामहः । तद्दारु दारयित्वा तं यत्नादाकृष्य रक्ष भोः ! ॥ १२० ॥ आकुलस्तद्वचः श्रुत्वा गत्वा तद्दार्वदारयत् । ददर्शाऽन्तः स्थितं चाहिं राजा विस्मयते स्म च ॥१२१॥ आदित्सते स्म प्रव्रज्यां यावद् राजा कुलङ्करः । द्विजः श्रुतिरतिः सोऽथ तावदेवमवोचत ||१२२|| धर्मो नाऽऽम्नायिको वोऽयं निर्बन्धश्चेत् तवान्तिमे । दीक्षा वयस्युपादेया किं सम्प्रत्यपि खिसे ? || १२३ ॥ राजाऽपि तद्विरा भग्ग्रदीक्षोत्साहो मनागपि । मया किमत्र कर्तव्यमिति ध्यायन्नवीस्थित ॥ १२४॥ श्रीदामाख्याऽथ तद्राज्ञी सदा सक्ता पुरोधसा । नूनं मां ज्ञातवानेष इत्याशङ्कत दुर्मतिः ॥ १२५ ॥ आवां यावन्न हन्त्येष तावद्धन्मीति सा विषम् । पुरोधोऽनुमता दत्त्वा कुलङ्करममारयत् ॥ १२६॥ क्रमाच्छ्रुतिरतिः सोऽपि मृतो भूयोऽप्युभावपि । चिरं भवं भ्रमतुस्तौ नानायोनिनिपीतिनौ ॥१२७॥ पुरेऽन्यदा राजगृहे कपिलब्रह्मणः सुतौ । सावित्र्यां युग्मतोऽभूतां विनोद - रमणाभिधौ ॥ १२८ ॥ रमणो वेदमध्येतुं ययौ देशान्तरं ततः । कालेनाऽधीतवेदः सन्नागाद् राजगृहं निशि ॥ १२९ ॥ अकालोऽसाविति धिया तदाऽस्थाद् बहिरेव सः । सर्वसाधारणेऽस्वाप्सीदेकस्मिन् यक्षमन्दिरे ||१३०|| २१६ (सप्तमं पर्व १. आसीद् दुर्ललितैर्मे तु वैरमार्यस्य केवलम् रस्वीपा.; आसीद्० पाता.; मम स्वच्छन्दचेष्टितैः ॥ २. वैरि० मु. ॥ ३ त्वयि तव विषये उत्का:उत्कण्ठिताः । ४. प्रार्थनाम् ॥ ५. महावत ॥ ६. मम करी ला. विना ॥ ७ ० देवमबोधयत् पाता. ॥ ८. कुलपरम्परागतः । ९. खिद्यते मु. ॥। १०. Jain Education Inoन्नवास्थितः ला. विना ॥ ११. ० निपातितौ खं. १, पाता. ।। १२, जन्मतो ० . lUse Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338