Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 243
________________ २२६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व आत्मजौ तावजानानौ न यावद्धन्ति राघवः । उत्तिष्ठ तावद् गच्छावस्तत्राऽऽवामविलम्बितम् ।।१०३॥ इत्युक्त्वा जानकीमात्मविमानमधिरोप्य च । लवणाङ्कुशयो: स्कन्धावारे भामण्डलो ययौ ॥१०४॥ तौ नमश्चक्रतः सीतां कमारौ लवणाङ्कशौ । मातुलोऽयमिति सीताख्यातं भामण्डलं तथा ॥१०५।। स तौ शिरसि चुम्बित्वा स्वोत्सङ्गमधिरोप्य च । हर्षरोमाञ्चितवपुरित्यूचे गद्गदाक्षरम् ॥१०६॥ वीरपत्नी पुराऽप्यासीद् दिष्ट्या सम्प्रति वीरसूः । अभूदु युवाभ्यां मे यामिर्यामिनीजामिनिर्मला ॥१०७।। वीरपुत्रौ च वीरौ च युवां यद्यपि मानदौ । रणं पितृ-पितृव्याभ्यां मा कृषाथां तथाऽपि हि ॥१०८।। न रणे रावणोऽप्यासीद् ययोर्मल्लस्तयोः कथम् । युद्धं युवाभ्यामारेभे दोष्कण्डूरभसावशात् ? ॥१०९॥ तावूचतुर्मातुलाऽलं स्नेहभीरुतयाऽनया । त्वत्स्वसाऽप्यस्मदम्बेयमूचेऽद: कातरं वचः ॥११०।। आवामपि हि विद्वो यन्न मल्लः कोऽपि तातयोः । युद्धं त्यक्त्वा तयोरेवोत्पादयाव: कथं ह्रियम् ? ॥१११।। तयोर्बुवाणयोरेव सैन्यानां रामसैनिकैः । समं प्रववृते युद्धं संवर्तावर्तदर्शकम् ।।११२।। सुग्रीवाद्यैः खेचरैर्माऽनयो: सैन्यं महीचरम् । हन्यतामिति साशङ्को ययौ भामण्डलो युधि ॥११३।। उत्तस्थाते कुमारावप्याहवाय महाबलौ । उच्छ्वास्यमानवर्माणौ रोमाञ्चेनाऽतिशायिना ॥११४|| नि:शकं युध्यमानास्ते सुग्रीवाद्या नभश्चराः । युधि भामण्डलं दृष्ट्वा पप्रच्छु: काविमाविति ॥११५।। भामण्डलाच्च ते ज्ञात्वा रामपुत्राविमाविति । गत्वा सीतां नमश्चक्रुर्त्यषदंश्च पुरो भुवि ॥११६।। पाईतश्च तौ क्षणेनाऽपि दोष्मन्तौ लवणाङ्कुशौ । रामसैन्यं दुधुवतुः क्षयोद्धान्ताब्धिदुर्धरौ ॥११७|| यत्र यत्र भ्रमतुस्तौ वने सिंहाविवोद्धतौ । रथी सादी निषादी वा न तत्राऽस्थाद् धृतायुधः ॥११८॥ हत-विद्रुतमेवं च रामसैन्यं विधाय तौ । केनाऽप्यस्खलितौ रामं सौमित्रिं चेयतुर्युधि ।।११९।। तौ प्रेक्ष्य राम-सौमित्री एवमन्योऽन्यमूचतुः । कावप्येतावभिरामौ कुमारौ विद्विषौ च न: ? ॥१२०।। निसर्गात् स्निह्यति मनो बलाद् द्रुह्यति किं त्विदम् । उद्यच्छाव: किमाश्लेष्टमेतौ योधयितुं नु वा ? ॥१२१।। इति व्याहारिणं रामं रथस्थं लवणो रथी। लक्ष्मणं चाऽङ्कुशोऽवोचत् सौष्ठव-प्रश्रयान्वितम् ॥१२२।। जैत्रं जगदजय्यस्य रावणस्याऽपि दोष्मतः । दिष्ट्याऽद्राक्षं वीरयुद्धश्रद्धालुस्त्वामहं चिरात् ।।१२३।। नाऽपूर्यत रणश्रद्धा रावणेनाऽपि ते ध्रुवम् । एष तां पूरयिष्यामि त्वं च मे पूरयिष्यसि ॥१२४॥ इत्युक्ते राम-सौमित्री द्वौ तौ च लवणाङ्कुशौ । आस्फालयामासतु: स्वं स्वं धनुर्वानभीषणम् ॥१२५।। कृतान्तसारथी रामस्यन्दनं वज्रजवराट् । अनङ्गलवणरथमभ्यढौकयतां मिथ: ॥१२६।। रथं विराधः सौमित्रेरङ्कुशस्य पुन: पृथुः । अन्योऽन्यमभ्यमित्रीणं चक्राते वरसारथी॥१२७।। चतुरं भ्रमयामासुस्तेऽग्रसारथयो रथान् । प्रजहुर्विविधं ते च चत्वारो द्वन्द्वयोधिनः ॥१२८।। विज्ञातज्ञातिसम्बन्धौ सापेक्षौ लवणाङ्कुशौ । युयुधाते निरपेक्षौ त्वज्ञानाद् राम-लक्ष्मणौ ॥१२९।। विविधैरायुधैर्युद्ध्वा युद्धान्तेच्छू रघूद्वहः । ऊचे कृतान्तवदनं रथं प्रत्यरि वाहय ।।१३०॥ कृतान्तोऽपि बभाषेऽदः खेदं प्राप्ता ह्यमी हयाः। सर्वाङ्गं विशिखैर्विद्धा: प्रतियोधेन तेऽमुना ॥१३१॥ तुरङ्गा न त्वरन्तेऽमी कशाभिस्ताडिता अपि । रथश्च जर्जरस्तेऽभूदसौ वैर्यस्त्रताडितः ॥१३२॥ एतौ च मम दोर्दण्डौ द्विट्काण्डाघातजर्जरौ। न हि रश्मि प्रतोदं वा क्षमौ चालयितुं प्रभो! ||१३३।। पद्मनाभोऽप्यभाषिष्ट ममाऽपि शिथिलायते । धनुश्चित्रस्थितमिव वज्रावर्तं न कार्यकृत् ॥१३४।। अभून्मुशलरत्नं च वैरिनिर्दलनाक्षमम् । कणकण्डनमात्राहमेवैतदपि सम्प्रति ।।१३५।। अनेकशोऽङ्कुशीभूतं यद् दुष्टनृपदन्तिनाम् । हलरत्नं तदप्येतदभूदु भूपाटनोचितम् ।।१३६।। सदा यक्षै रक्षितानां विपक्षक्षयकारिणाम । तेषामेव ममाऽस्त्राणामवस्था केयमागता? ||१३७॥ यथाऽपराजितासूनोरभून्मोघास्त्रता तदा। तथैव लक्ष्मणस्याऽपि मदनाङ्कशयोधिनः ॥१३८॥ १. वीरं सूते इति वीरसूर्वीरमातेत्यर्थः ॥२. यामिनी रात्रिर्जाया यस्य स चन्द्रस्तद्वन्निर्मला ॥३. प्रलयमेघावर्त्तदर्शनम् ।। ४. ततश्च पाता. ॥५. क्षये-प्रलयकाले उद्भ्रान्तसमुद्रवद् दुर्धरौ।। ६.०युधे खं.१-२, पाता. ॥ ७. तु खं.१-२, पाता. ॥ ८. वदन्तम् ।। ९. ०ष्यति खं.१ ॥१०. शत्रून्मुखम् ।। ११. अरिं प्रति ।। १२. बन्धनीं (लगाम) कशां (चाबुक) वा ।। १३. धान्यकणानां कण्डनयोग्यं मुशलमभूत् ।। १४. क्षेत्रकर्षणयोग्यम् ॥ Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338