Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 250
________________ दशमः सर्गः ) त्रिषष्टिशलाकापुरुषचरितम् । एवं तयोर्वचो ज्ञात्वा चरेभ्यो लक्ष्मणात्मजाः । 'वीक्षापन्ना निनिन्दुः स्वं 'दुष्कर्मारम्भसम्मुखम्॥१०३॥ सद्य: संवेगमापन्नाः पितरावनुमन्य ते । महाबलमुनेः पादपद्मान्ते जगृहुर्व्रतम् ॥ १०४॥ जातोद्वाहौ तदानीं तावनङ्गलवणाङ्कुशौ । सहैव सीरि-शार्ङ्गिभ्यामयोध्यामीयतुः पुरीम् ॥ १०५ ॥ ॥ इतश्च स्वपुरे हर्म्यमूर्ध्नि भामण्डलः स्थितः । कदाचिदेवं मनसा चिन्तयामास शुद्धधीः ॥ १०६ ॥ श्रेणिद्वयं वशीकृत्याऽस्खलन् सर्वत्र लीलया । विहृत्याऽन्ते चाऽऽत्तदीक्षो भवेयं पूर्णवाञ्छितः ॥ १०७॥৷ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत् पपात खात् । स मृत्वा देवकुरुषु जज्ञे युगलधर्मिषु ॥ १०८॥ इतश्च हनुमांश्चैत्रे चैत्यवन्दनहेतवे । मेरुं गतो निवृत्तोऽस्तमैयन्तं सूर्यमैक्षत ॥१०९॥ एवं च दध्यावुदयो यथा ह्यस्तं तथा खलु । निदर्शनमयं सूर्यो धिग्धिक् सर्वमशाश्वतम् ॥११०॥ एवं विचिन्त्य स्वपुरे गत्वा राज्ये सुतं न्यधात् । धर्मरत्नाचार्यपार्श्वे प्रव्रज्या स्वयमाददे ॥ १११ ॥ तमनुप्राव्रजन् राज्ञां सार्धसप्तशतानि च । आर्यालक्ष्मीवतीपार्श्वेऽस्थुस्तत्पत्न्यश्च दीक्षिताः ॥११२॥ ध्यानानलेन निर्दह्य क्रमात् कर्माणि मूलतः । श्रीशैलः प्राप्य शैलेशीं जगाम पदमव्ययम् ॥११३॥ | हनूमन्तं प्रव्रजितं ज्ञात्वा दध्यौ रघूद्वहः । हित्वा भोगसुखं कष्टां दीक्षां किमयमाददे ? ॥११४॥ तां रामचिन्तामवधेर्ज्ञात्वा सौधर्मवासवः । ऊचे मध्येसभमहो ! कर्मणां विषमा गतिः ॥११५॥ रामश्चरमदेहोऽपि यद् धर्मं हसति स्वयम् । सौख्यं विषयसम्भूतं प्रत्युतैर्षं प्रशंसति ॥ ११६॥ अथवा ज्ञातमनयो राम-लक्ष्मणयोर्मिथः । स्नेहो गाढतरः कोऽपि भवानिर्वेदकारणम् ॥११७॥ द्वौ देवौ कौतुकात् तत्र तयोः स्नेहं परीक्षितुम् । उपेयतुरयोध्यायां लक्ष्मणस्य निकेतने ।।११८।। दर्शयामासतुः सद्यो मायया लक्ष्मणस्य तौ । सर्वमन्तः पुरस्त्रैणमाक्रन्दत् करुणस्वरम् ॥ ११९॥ हा पद्म! पद्मनयन! बन्धुपद्मदिवाकर! । अकाण्डमृत्युः कोऽयं ते विश्वस्याऽपि भयङ्करः ? || १२०|| एवं च रुदतीर्वक्षांस्याघ्नाना मुक्तकुन्तलाः । अन्तःपुरवधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत् ॥१२१॥ मास किं मृतो भ्राता जीवितस्याऽपि जीवितम् ? । पिशुनेन कृतान्तेन किं कृतं छलघातिना ? ॥१२२॥ एवं च भाषमाणस्य वचसा सह जीवितम् । सौमित्रे र्निर्ययौ कर्मविपाको दुरतिक्रमः || १२३|| स्वर्णस्तम्भमवष्टभ्य स्थितः सिंहासनेऽपि हि । सोऽथ प्रसारिताक्षोऽस्थाल्लेप्यमूर्तिरिवाऽक्रियः ॥ १२४॥ पैंरासुं लक्ष्मणं दृष्ट्वा विषण्णौ तौ सुरावपि । मिथो जजल्पतुरहो! किमावाभ्यामिदं कृतम् ? ॥१२५॥ विश्वाधारः पुमानेष किमावाभ्यां हहा! हत: ? । इति स्वं बहु निन्दन्तौ स्वकल्पं जग्मतुः पुनः ॥ १२६ ॥ परासुं लक्ष्मणं प्रेक्ष्य तत्र चाऽन्तः पुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलत्कुन्तलालिकाः ॥ १२७॥ तच्चाऽऽक्रन्दितमाकर्ण्य तत्र रामः समाययौ । उवाच च किमारब्धमविज्ञायाऽप्यमङ्गलम् ? || १२८|| जीवन्नेवैष तिष्ठामि जीवत्येष च मेऽनुजः । कोऽप्यमुं बाधते व्याधिर्भेषजं तत्प्रतिक्रिया ॥ १२९॥ इत्युक्त्वाऽऽजूहवद् रामो वैद्याञ्ज्योतिषिकानपि । प्रयोगं मन्त्र-तन्त्राणां कारयामास चाऽसकृत् ॥ १३०॥ वैफल्ये मन्त्र-तन्त्राणां मूर्च्छा प्राप रघूद्वहः । कथञ्चिल्लब्धसञ्ज्ञः सन् विललापोच्चकैःस्वरम् ॥१३१॥ ते बिभीषण-सुग्रीव-शत्रुघ्नाद्या उदश्रवः । विमुक्तकण्ठं रुरुदुर्हताः स्म इति भाषिणः ॥ १३२॥ कौशल्याद्या मातरश्च स्नुषाभिः सह साश्रवः । भूयो भूयोऽपि मूर्च्छन्त्यश्चक्रन्दुः करुणस्वरम् ॥१३३॥ प्रतिमार्गं प्रतिगृहं प्रत्यट्टं क्रन्दनात् तदा । शोकाद्वैतमभूत् सर्वं रसान्तरमलिम्लुचम् ॥१३४॥ नत्वाऽथ राममूचाते कुमारौ लवणाङ्कुशौ । भवादद्याऽतिभीतौ स्वः कैनीयस्तातमृत्युना ॥ १३५ ॥ अकस्मादापतत्येष मृत्युः सर्वस्य तन्नरैः । तत्परैः परलोकाय स्थातव्यं मूलतोऽपि हि ॥१३६॥ अनुमन्यस्व दीक्षायै न नो युक्तमतः परम् । कनीयस्तातमुक्तानां गृहे स्थातुं मनागपि ॥ १३७॥ २३३ १. विस्मयं प्राप्ताः ।। २. दुष्कर्मण आरम्भस्य सम्मुखं मुखं विचारं इति यावत् ॥ ३. गगनात् ॥ ४. चैत्रमासाष्टाह्निकायाम् ॥ ५. 'अयि गतौ' इत्यात्मनेपदी धातुरपि परस्मैपदित्वेनाऽत्राऽऽचार्येण निवेदितः, “आत्मनेपदमनित्यं" इति न्यायोऽपि द्रष्टव्यः ॥ ६. तु खं.१ ॥ ७. प्रत्युतैवं ला. ॥। ८. अन्तःपुरसत्कं स्त्रीवृन्दम् ।। ९. प्रसारिते- विस्फारिते अक्षिणी यस्य सः । १०. गतप्राणम् ॥ ११. स्वं कल्पं रसंपा. ॥। १२. ०कुन्तलालकाः ता.; विलुलन्-मुक्तः कुन्तलालि:- केशपाशी यासां ताः ॥ १३. उदस्रवः खं. १ २, पाता. ।। १४. अन्यरसनाशकम् ॥ १५. 'अस्' धातो: प्रथमपुरुषद्विचनरूपम् ।। १६. लघुपितुः Jain Education Inteलक्ष्मणस्य मृत्युना ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338