________________
दशमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
एवं तयोर्वचो ज्ञात्वा चरेभ्यो लक्ष्मणात्मजाः । 'वीक्षापन्ना निनिन्दुः स्वं 'दुष्कर्मारम्भसम्मुखम्॥१०३॥ सद्य: संवेगमापन्नाः पितरावनुमन्य ते । महाबलमुनेः पादपद्मान्ते जगृहुर्व्रतम् ॥ १०४॥ जातोद्वाहौ तदानीं तावनङ्गलवणाङ्कुशौ । सहैव सीरि-शार्ङ्गिभ्यामयोध्यामीयतुः पुरीम् ॥ १०५ ॥ ॥ इतश्च स्वपुरे हर्म्यमूर्ध्नि भामण्डलः स्थितः । कदाचिदेवं मनसा चिन्तयामास शुद्धधीः ॥ १०६ ॥ श्रेणिद्वयं वशीकृत्याऽस्खलन् सर्वत्र लीलया । विहृत्याऽन्ते चाऽऽत्तदीक्षो भवेयं पूर्णवाञ्छितः ॥ १०७॥৷ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत् पपात खात् । स मृत्वा देवकुरुषु जज्ञे युगलधर्मिषु ॥ १०८॥ इतश्च हनुमांश्चैत्रे चैत्यवन्दनहेतवे । मेरुं गतो निवृत्तोऽस्तमैयन्तं सूर्यमैक्षत ॥१०९॥
एवं च दध्यावुदयो यथा ह्यस्तं तथा खलु । निदर्शनमयं सूर्यो धिग्धिक् सर्वमशाश्वतम् ॥११०॥ एवं विचिन्त्य स्वपुरे गत्वा राज्ये सुतं न्यधात् । धर्मरत्नाचार्यपार्श्वे प्रव्रज्या स्वयमाददे ॥ १११ ॥ तमनुप्राव्रजन् राज्ञां सार्धसप्तशतानि च । आर्यालक्ष्मीवतीपार्श्वेऽस्थुस्तत्पत्न्यश्च दीक्षिताः ॥११२॥ ध्यानानलेन निर्दह्य क्रमात् कर्माणि मूलतः । श्रीशैलः प्राप्य शैलेशीं जगाम पदमव्ययम् ॥११३॥ | हनूमन्तं प्रव्रजितं ज्ञात्वा दध्यौ रघूद्वहः । हित्वा भोगसुखं कष्टां दीक्षां किमयमाददे ? ॥११४॥ तां रामचिन्तामवधेर्ज्ञात्वा सौधर्मवासवः । ऊचे मध्येसभमहो ! कर्मणां विषमा गतिः ॥११५॥ रामश्चरमदेहोऽपि यद् धर्मं हसति स्वयम् । सौख्यं विषयसम्भूतं प्रत्युतैर्षं प्रशंसति ॥ ११६॥ अथवा ज्ञातमनयो राम-लक्ष्मणयोर्मिथः । स्नेहो गाढतरः कोऽपि भवानिर्वेदकारणम् ॥११७॥ द्वौ देवौ कौतुकात् तत्र तयोः स्नेहं परीक्षितुम् । उपेयतुरयोध्यायां लक्ष्मणस्य निकेतने ।।११८।। दर्शयामासतुः सद्यो मायया लक्ष्मणस्य तौ । सर्वमन्तः पुरस्त्रैणमाक्रन्दत् करुणस्वरम् ॥ ११९॥ हा पद्म! पद्मनयन! बन्धुपद्मदिवाकर! । अकाण्डमृत्युः कोऽयं ते विश्वस्याऽपि भयङ्करः ? || १२०|| एवं च रुदतीर्वक्षांस्याघ्नाना मुक्तकुन्तलाः । अन्तःपुरवधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत् ॥१२१॥ मास किं मृतो भ्राता जीवितस्याऽपि जीवितम् ? । पिशुनेन कृतान्तेन किं कृतं छलघातिना ? ॥१२२॥ एवं च भाषमाणस्य वचसा सह जीवितम् । सौमित्रे र्निर्ययौ कर्मविपाको दुरतिक्रमः || १२३|| स्वर्णस्तम्भमवष्टभ्य स्थितः सिंहासनेऽपि हि । सोऽथ प्रसारिताक्षोऽस्थाल्लेप्यमूर्तिरिवाऽक्रियः ॥ १२४॥ पैंरासुं लक्ष्मणं दृष्ट्वा विषण्णौ तौ सुरावपि । मिथो जजल्पतुरहो! किमावाभ्यामिदं कृतम् ? ॥१२५॥ विश्वाधारः पुमानेष किमावाभ्यां हहा! हत: ? । इति स्वं बहु निन्दन्तौ स्वकल्पं जग्मतुः पुनः ॥ १२६ ॥ परासुं लक्ष्मणं प्रेक्ष्य तत्र चाऽन्तः पुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलत्कुन्तलालिकाः ॥ १२७॥ तच्चाऽऽक्रन्दितमाकर्ण्य तत्र रामः समाययौ । उवाच च किमारब्धमविज्ञायाऽप्यमङ्गलम् ? || १२८|| जीवन्नेवैष तिष्ठामि जीवत्येष च मेऽनुजः । कोऽप्यमुं बाधते व्याधिर्भेषजं तत्प्रतिक्रिया ॥ १२९॥ इत्युक्त्वाऽऽजूहवद् रामो वैद्याञ्ज्योतिषिकानपि । प्रयोगं मन्त्र-तन्त्राणां कारयामास चाऽसकृत् ॥ १३०॥ वैफल्ये मन्त्र-तन्त्राणां मूर्च्छा प्राप रघूद्वहः । कथञ्चिल्लब्धसञ्ज्ञः सन् विललापोच्चकैःस्वरम् ॥१३१॥ ते बिभीषण-सुग्रीव-शत्रुघ्नाद्या उदश्रवः । विमुक्तकण्ठं रुरुदुर्हताः स्म इति भाषिणः ॥ १३२॥ कौशल्याद्या मातरश्च स्नुषाभिः सह साश्रवः । भूयो भूयोऽपि मूर्च्छन्त्यश्चक्रन्दुः करुणस्वरम् ॥१३३॥ प्रतिमार्गं प्रतिगृहं प्रत्यट्टं क्रन्दनात् तदा । शोकाद्वैतमभूत् सर्वं रसान्तरमलिम्लुचम् ॥१३४॥ नत्वाऽथ राममूचाते कुमारौ लवणाङ्कुशौ । भवादद्याऽतिभीतौ स्वः कैनीयस्तातमृत्युना ॥ १३५ ॥ अकस्मादापतत्येष मृत्युः सर्वस्य तन्नरैः । तत्परैः परलोकाय स्थातव्यं मूलतोऽपि हि ॥१३६॥ अनुमन्यस्व दीक्षायै न नो युक्तमतः परम् । कनीयस्तातमुक्तानां गृहे स्थातुं मनागपि ॥ १३७॥
२३३
१. विस्मयं प्राप्ताः ।। २. दुष्कर्मण आरम्भस्य सम्मुखं मुखं विचारं इति यावत् ॥ ३. गगनात् ॥ ४. चैत्रमासाष्टाह्निकायाम् ॥ ५. 'अयि गतौ' इत्यात्मनेपदी धातुरपि परस्मैपदित्वेनाऽत्राऽऽचार्येण निवेदितः, “आत्मनेपदमनित्यं" इति न्यायोऽपि द्रष्टव्यः ॥ ६. तु खं.१ ॥ ७. प्रत्युतैवं ला. ॥। ८. अन्तःपुरसत्कं स्त्रीवृन्दम् ।। ९. प्रसारिते- विस्फारिते अक्षिणी यस्य सः । १०. गतप्राणम् ॥ ११. स्वं कल्पं रसंपा. ॥। १२. ०कुन्तलालकाः ता.; विलुलन्-मुक्तः कुन्तलालि:- केशपाशी यासां ताः ॥ १३. उदस्रवः खं. १ २, पाता. ।। १४. अन्यरसनाशकम् ॥ १५. 'अस्' धातो: प्रथमपुरुषद्विचनरूपम् ।। १६. लघुपितुः Jain Education Inteलक्ष्मणस्य मृत्युना ॥
For Private & Personal Use Only
www.jainelibrary.org