________________
कलिकाल सर्वज्ञ श्री हेमचन्द्राचार्यप्रणीतं
सुदर्शनमुनेस्तस्याऽलीकदोषाधिरोपणात् । अस्याः कलङ्कोऽलीकोऽयं लोकेनेहाऽधिरोपितः ॥६७॥ भवं भ्रान्त्वा शम्भुजीवोऽप्युदपादि द्विजन्मनः । कुशध्वजस्य सावित्र्यां प्रभासो नाम नन्दनः ॥ ६८ ॥ स प्रवव्राज विजयसेनर्षेरन्तिकेऽन्यदा । परमं च तपस्तेपे सहमान: परीषहान् ॥ ६९ ॥ सम्मेतयात्राचलितं विद्याधरनरेश्वरम् । कनकप्रभमद्राक्षीदिन्द्रवत् परमर्द्धिकम् ॥७०॥ तपसाऽनेन भूयासमिदृगृद्धिरिति व्यधात् । स निदानं विपद्याऽथोत्पेदे कल्पे तृतीयके ॥७१॥ ततश्च्युत्वा रावणोऽभूत् खेचरेन्द्रस्तवाऽग्रजः । कनकप्रभऋद्धेर्यो निदानमकरोत् तदा ॥७२॥ धनदत्त - वसुदत्तमित्रं यस्तु द्विजोऽभवत् । याज्ञवल्क्यो भवं भ्रान्त्वा त्वमभूः स बिभीषणः ॥ ७३ ॥ राज्ञा हतस्तु श्रीभूति जगाम ततश्च्युतः । सुप्रतिष्ठपुरे विद्याधरोऽजनि पुनर्वसुः ||७४ || स पुण्डरीकविजयेऽपजहार स्मरातुरः । कन्यां त्रिभुवनानन्दचक्रिणोऽनङ्गसुन्दरीम् ॥७५॥ चक्रिणा प्रेषितैर्विद्याधरैर्युद्धाकुलस्य तु । विमानात् तस्य चाऽपप्तन् निकुञ्जेऽनङ्गसुन्दरी ||७६|| कृत्वा निदानं तत्प्राप्त्यै प्रव्रज्य च पुनर्वसुः । स्वर्गं ययौ ततश्च्युत्वा लक्ष्मणोऽयमजायत ॥७७॥ वनस्थिता साऽप्यनङ्गसुन्दर्युग्रं तपोऽकरोत् । विहितानशना चाऽन्ते जग्रसेऽजगरेण सा || ७८|| मृत्वा समाधिना साऽभूद् देवी कल्पे द्वितीयके । ततश्च्युत्वा विशल्याऽभूल्लक्ष्मणस्य महिष्यसौ ॥ ७९ ॥ योऽभूद् गुणवतीभ्राता नाम्ना गुणधरः स तु । भवं भ्रान्त्वाऽभवद् राजपुत्रः कुण्डलमण्डितः ||८०|| श्रावकत्वं पालयित्वा चिराय च विपद्य सः । सीतासोदर एषोऽभूद् भामण्डलनरेश्वरः ॥ ८१ ॥ ¶इतोऽभूतां च काकन्द्यां वामदेवद्विजन्मनः । श्यामलाकुक्षिजौ पुत्रौ वसुनन्द-सुनन्दनौ ॥८२॥ एकदा च तयोर्गेहे तिष्ठतोराययौ मुनिः । मासोपवासी ताभ्यां च भक्तितः प्रतिलम्भितः ॥८३॥ मृत्वा तद्दानधर्मेणोत्तरेषु तु कुरुष्वथ । अभूतां युग्मिनौ मृत्वा सौधर्मे तौ सुरौ ततः ॥ ८४ ॥ च्युत्वाऽभूतां च काकन्द्यां रतिवर्धनभूपतेः । सुदर्शनाभवौ पुत्रौ प्रियङ्कर - शुभङ्करौ ॥८५॥ राज्यं चिरं पालयित्वा प्रव्रज्य च विपद्य च । सुरौ ग्रैवेयकेऽभूतां च्युत्वा च लवणाङ्कुशौ ||८६|| सुदर्शना तयोः पूर्वभवमाता भवं चिरम् । भ्रान्त्वाऽभूदेष सिद्धार्थोऽध्यापको रामपुत्रयोः ||८७ || एवं मुनिवचः श्रुत्वा संवेगं बहवो ययुः । तदैव रामसेनानीः कृतान्त: प्राव्रजत् पुनः ॥८८॥ 'अथोत्थाय नमश्चक्रे काकुत्स्थो जयभूषणम् । उपसीतं च गत्वैवं चिन्तयामास चेतसि ॥८९॥ असौ शिरीषमृद्वङ्गी राजपुत्री मम प्रिया । सीता शीतातपक्लेशं कथं नाम सहिष्यते ? ॥ ९० ॥ इमं संयमभारं च सर्वभारातिशायिनम् । उद्वक्ष्यति कथं नाम हृदयेनाऽपि दुर्वहम् ? || ११ || यद् वा सतीव्रतं यस्या न भङ्क्तुं रावणोऽप्यलम् । सा निर्व्यूढप्रतिज्ञैव भाविनी संयमेऽपि हि ॥९२॥ एवं विमृश्य वैदेहीं ववन्दे लक्ष्मणाग्रजः । लक्ष्मणोऽन्ये च राजानः श्रद्धानिर्धोतचेतसः ||१३|| ॥ तैतश्च सपरीवारो रामोऽयोध्यां ययौ पुनः । सीता - कृतान्तवदनौ तेपाते च परं तपः ॥९४॥ तपस्तप्त्वा ब्रह्मलोके कृतान्तवदनो ययौ । सीताऽपि षष्टिं वर्षाणि विदधे विविधं तपः ॥९५॥ त्रयस्त्रिंशदहोरात्रीं कृत्वाऽन्तेऽनशनं मृता । द्वाविंशत्यर्णवायुः सोऽच्युतेन्द्रः समजायत ॥९६॥ "इतश्च शैले वैताढ्ये ऽभूत् काञ्चनपुरे पुरे । नामतः कनकरथो विद्याधरपतिस्तदा ||१७|| मन्दाकिनी-चन्द्रमुख्योः कन्ययोः स स्वयंवरे । सपुत्रान् भूपतीन् राम-लक्ष्मणादीनथाऽऽह्वयत् ।।९८।। तत्राऽऽसीनेषु भूपेषु मन्दाकिन्या निजेच्छया । अनङ्गलवणो वव्रे चन्द्रमुख्याऽङ्कुशः पुनः || ९९|| लक्ष्मणस्य सुतास्तत्र क्रोधादुत्तस्थिरे युधि । सार्धे शते द्वे अपि ते युगपच्छ्रीधरादयः ॥१००॥ श्रुत्वा सन्नह्यतस्तांश्च प्रोचाते लवणाङ्कुशौ । को नाम योत्स्यतेऽमीभिरवध्या भ्रातरः खलु ॥१०१॥ यथा न तातयोर्भेदः कोऽपि ज्येष्ठ-कनिष्ठयोः । तत्पुत्राणां तथाऽस्माक ममीषामपि माऽस्तु सः ॥ १०२ ॥
1
२३२
(सप्तमं पर्व
१. च खं.१-२ ॥। २. चाऽपतन् निकुञ्जे० हे. कां. ला. खं.१-२, पाता. ॥ ३. वने स्थिता पाता. ॥ ४. ० प्रतिज्ञैवं मु. ॥ ५. श्रद्धया निर्मलचित्ता: ।। ६. इतश्च Jain Education || ७. २२सागरोपमायुष्कः ।। ८. ० मूभि० ला ॥। ९. भेदः II Private
Personal Use Only
www.jainelibrary.org