________________
दशमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
कृपालुः : सोऽवरुह्याऽश्वान्निकटीभूय तस्य तु । कर्णमूले ददौ पञ्चपरमेष्ठि' नमस्कृतीः ॥ ३२॥ मृत्वा च तत्प्रभावेण तत्रैव स सुतोऽभवत् । छत्रच्छायनरेन्द्र-श्रीदत्तयोर्वृषभध्वजः ॥३३॥ स्वैरं भ्रमन् सोऽन्यदा तां जरद्वृषभुवं ययौ । लेभे च जातिस्मरणं प्राग्जन्मस्थानदर्शनात् ॥३४॥ तत्र चाऽकारयच्चैत्यं तस्य चैत्यस्य चैकतः । भित्तावालेखयामास मुमूर्षं तं जरद्गवम् ||३५|| तत्कर्णान्ते नमस्कारदायिनं पुरुषं च तम् । तदभ्यर्णे तदीयं च सपर्याणं तुरङ्गमम् ॥ ३६ ॥ युग्मम्।। आरक्षांस्तत्र चाऽऽदिक्षद् यश्चित्रं परमार्थतः । इदं विदन्नुदीक्षेत स ज्ञाप्यस्त्वरितं मम ॥३७॥ "इत्युक्त्वा स ययौ वेश्म चैत्ये तत्राऽन्यदा पुनः । वेन्दनायाऽऽययौ पद्मरुचिः स श्रेष्ठपुङ्गवः ॥३८॥ वन्दित्वा तत्र सोऽर्हन्तं भित्तिचित्रमुदैक्षत । सर्वं मे संवदत्येतदित्यूचे च सविस्मयः ॥ ३९ ॥ विज्ञप्तोऽथ तदारक्षैस्तत्राऽऽगाद् वृषभध्वजः । किं वेत्सि चित्रवृत्तान्तमित्यपृच्छच्च तं नरम् ॥४०॥ गवेऽस्मै म्रियमाणाय नमस्कारानदां पुरा । इहाऽभिज्ञेन केनाऽपि लिखितोऽस्मीत्युवाच सः ॥४१॥ तं नत्वोवाच वृषभध्वजो योऽयं जरद्गवः । राजपुत्रोऽभवं सोऽहं नमस्कारप्रभावतः ॥ ४२ ॥ कामयास्यमहं योनिं ? तिर्यग्योनिस्तदाऽप्यहम् । कृपालुस्त्वं न चेन्मह्यं नमस्कारानदास्यथाः ॥४३॥ सर्वथा त्वं गुरुः स्वामी दैवतं चाऽसि मे खलु । भुङ्क्ष्व राज्यमिदं प्राज्यं त्वया दत्तं ममाऽपि यत् ॥४४॥ इत्युक्त्वा पद्मरुचिना सहैव वृषभध्वजः । विजहाराऽकृतद्वैधः पालयञ्छ्रावकव्रतम् ॥४५॥ श्रावकत्वं चिरं सम्यक् पालयित्वा विपद्य च । ईशानकल्पे जज्ञाते तौ देवौ परमर्द्धिकौ ॥४६॥ च्युत्वा ततः पद्मरुचिर्मेरो रपरतो गिरौ । वैताढ्ये नगरे नन्दावर्ते नन्दीश्वरात्मजः ||४७|| केनकाभाकुक्षिजन्मा नयनानन्द इत्यभूत् । राज्यं भुक्त्वा परिव्रज्य महेन्द्रे त्रिदशोऽभवत् ॥४८॥ युग्मम् || च्युत्वा च प्राग्विदेहेषु क्षेमायां पुरि भूपतेः । विपुलवाहनस्याऽभूत् पद्मावत्यां स नन्दनः ॥४९॥ श्रीचन्द्रो नाम भुक्त्वा च राज्यं प्रव्रज्य चाऽन्तिके । समाधिगुप्तस्य मुनेर्ब्रह्मलोकेन्द्रतां ययौ ॥ ५० ॥ युग्मम् || च्युत्वा ततोऽयं पद्मोऽभूद् बलभद्रो महाबलः । सुग्रीव एष वृषभध्वजजीवस्त्वभूत् क्रमात् ॥५१॥ भ्रान्त्वा श्रीकान्तजीवोऽभून्मृणालकन्दपत्तने । राजसूनुर्वज्रकण्ठः शम्भु-हेमवतीभवः ॥५२॥ भ्रान्त्वा च वसुदत्तोऽभूच्छम्भुराजपुरोधसः । विजयस्य रत्नचूडाभवः श्रीभूतिरात्मजः || ५३ || गुणवत्यपि सा भ्रान्त्वा श्रीभूतेस्तस्य नन्दना । सरस्वतीकुक्षिभवा नाम्ना वेगवतीत्यभूत् ॥५४॥ सोद्यौवनाऽन्यदा साधुं प्रतिमास्थं सुदर्शनम् । वन्द्यमानं जनैर्दृष्ट्वा सोपहासमदोऽवदत् ॥५५॥ अहो साधुरयं दृष्टः पुरा क्रीडमैंहेलया । साऽनेन प्रेषिताऽन्यत्र तं वन्दध्वं कथं जनाः ? ॥५६॥ श्रुत्वा विपरिणम्याऽऽशु लोकः सर्वोऽपि तं मुनिम् । विप्लावयितुमारेभे कलङ्कोद्घोषपूर्वकम् ||५७|| न मे यावत् कलङ्कोऽयमुत्तरिष्यति सर्वथा । न तावत् पारयिष्यामीत्यभिजग्राह सोऽप्यृषिः || ५८ || ततश्च देवतारोषाच्छूनं वेगवतीमुखम् । साधुव्यतिकरं ज्ञात्वा सा पित्रा भर्त्सिता भृशम् ॥५९॥ रोगात् पितुश्च सा भीता सुदर्शनमुनेः पुरः । प्रत्यक्षं सर्वलोकानामित्युच्चैः स्वरमब्रवीत् ॥६०॥ निर्दोष: सर्वथाऽसि त्वं दोषोऽलीकोऽयमेव ते । मयैवाऽऽरोपितः स्वामिंस्तितिक्षस्व क्षमानिधे ! ||६१ || श्रुत्वेति तद्वचो लोको भूयोऽप्यानर्च तं मुनिम् । उल्लाघाऽभूद् वेगवती तदादि श्राविका च सा ॥६२॥ तां च रूपवतीं दृष्ट्वा ययाचे शम्भुभूपतिः । दास्ये मिथ्यादृशे नेति श्रीभूति: प्रत्युवाच तम् ||६३ || शम्भुर्निहत्य श्रीभूतं बुभुजे तां बलादपि । भवान्तरे ते वधाय भूयासमिति साऽशपत् ॥६४॥ शम्भुनाऽपि विमुक्ता सा हरिकान्तार्यिकान्तिके । प्रवव्राजाऽथ पूर्णायुर्ब्रह्मलोकमुपाययौ ॥६५॥ ततश्च्युत्वा शम्भुजीवरक्षोनाथस्य मृत्यवे । निदानवशतो जज्ञे सीतेयं जनकात्मजा ॥ ६६ ॥
२३१
१. ० नमस्क्रियाम् कां. ला ॥ २. जरद्वृषम् ला. रसंपा. ॥ ३. सज्जमश्वम् ॥ ४. ०त्रुदीक्ष्येत मु. ॥ ५. वन्दनाय ययौ पाता ।। ६. अहं कां योनिं अयास्यम् ? इति अन्वयः ॥ ७. न कृतं द्वैधं भेदो येन सोऽभिन्नीभूत इत्यर्थः ॥ ८. नन्देश्वरा० ला ॥ ९. कनकाम्भो० ता. ॥ १०. महेन्द्रे ता. ।। ११. राज्ञः सूनु० हे. कां. मो.ला. ॥। १२. ०र्व्वज्रकन्दः पाता. ।। १३. शम्भुर्हेम० ता. ला ॥ १४. स्त्रिया सह । १५. विद्रावयितु० कां .; उपद्रवं कर्तुम् ।। १६. स्तब्धं शोधयुतम् । Jain Education In१७. ज्ञात्वा पित्रा निर्भर्त्सिता पाता ॥ १८. स्वस्था ।। १९. शम्भोजव एव रक्षोनाथ:-रावणस्तस्य ॥
www.jainelibrary.org