________________
॥दशम: सर्गः॥
अथ सिक्तश्चन्दनेन लब्धसञो रघूद्वहः । व्याजहार क्व ननु सा सीतादेवी मनस्विनी? ॥१॥ भो भूचरा:! खेचराश्च नचेद्
नचेद् यूयं मुमूर्षवः । तन्मे लुञ्चितकेशामप्याशु दर्शयत प्रियाम्॥२॥ वत्स! वत्सैहि सौमित्रे! तूणौ तूणौ धनुर्धनु:! । यदमी सन्त्युदासीना: सुस्थितार्दु:स्थिते मयि ।।३।। इत्युक्त्वा धन्व गृह्णन्तं तं नत्वा लक्ष्मणोऽब्रवीत्। आर्याऽऽर्य! किमिदं ? लोक: खल्वेष तव किङ्करः॥४॥ सीतां यथा दोषभीतोऽत्याक्षीस्त्वं न्यायनैष्ठिकः । भवभीता स्वार्थनिष्ठा तथा सा सर्वमत्यजत्॥५॥ प्रत्यक्षमिह व:सीता स्वयमुत्पाट्य कुन्तलान् । आददे विधिवदीक्षांजयभूषणसन्निधौ॥६।। इदानीमेव तस्यर्षेरुदपद्यत केवलम् । तज्ज्ञानमहिमाऽवश्यकृत्यमस्ति तवाऽपि हि ॥७॥ तत्राऽऽस्ते स्वामिनी सीता स्वामिन्नात्तमहाव्रता। दर्शयन्ती मुक्तिमार्गं सतीमार्गमिवाऽनघा॥८॥ राम: प्रकृतिमालम्ब्योवाच साधु मम प्रिया। उपाददे परिव्रज्यां तस्य केवलिनोऽन्तिके॥९॥ इत्युक्त्वा सपरीवारो जगाम जयभूषणम्। नत्वा च देशनां तस्माच्छुश्रावरघुपुङ्गवः ॥१०॥ देशनान्ते च पप्रच्छ नाऽऽत्मानं वेदम्यहं प्रभो! | भव्योऽहं किमुताऽभव्यस्तदाचक्ष्व प्रसीद मे॥११॥ अथाऽऽख्यत् केवली सोऽपि भव्योऽसि त्वं न केवलम्। सिद्धिं यास्यस्यनेनैव जन्मनोत्पन्नकेवलः॥१२॥ राम: पप्रच्छ भूयोऽपि मोक्षः प्रव्रज्यया भवेत्। सर्वत्यागेन सा किं तुलक्ष्मणो दुस्त्यजो मम॥१३।। मुनिराख्यदवश्यं ते भोक्तव्या बलसम्पदः । तदन्ते त्यक्तसङ्ग: सन् प्रव्रज्य शिवमाप्स्यसि॥१४॥ नत्वा बिभीषणोऽपृच्छत् केन प्राग्जन्मकर्मणा। जहार रावण: सीतां लक्ष्मणस्तंन्यहन् युधि ?॥१५।। सुग्रीवो भामण्डलश्च तथेमौ लवणाङ्कुशौ । अहं च कर्मणा केनाऽत्यन्तभेक्ता रघूद्वहे ?॥१६।। पभगवानाचचक्षेऽथ भरतार्धेऽत्र दक्षिणे। पुरे क्षेमपुरे नाम्ना नयदत्तोऽभवद् वणिक् ॥१७॥ धनदत्त-वसुदत्तौ सुनन्दाकुक्षिजौ सुतौ। तस्याऽभूतां तयोर्मित्रं याज्ञवल्क्योऽभवद् द्विजः॥१८॥ नाम्ना सागरदत्तश्च पुरे तस्मिन्नभूदु वणिक् । तस्य सूनुर्गुणधर: कन्या गुणवती पुनः।।१९।। दत्ता सागरदत्तेन नयदत्तात्मजन्मने। धनदत्ताय गुणवत्यनुरूपगुणाय सा॥२०॥ श्रीकान्तनाम्ने चाऽऽढ्याय तत्रत्यायाऽर्थलोभतः । ददौ गुणवती छन्नं माता रत्नप्रभा पुनः॥२१।। याज्ञवल्क्यस्तु तज्ज्ञात्वा नयदत्तात्मजन्मनो:। स्वमित्रयो: समाचख्यावसहो मित्रवञ्चने ॥२२॥ वसुदत्तस्ततो गत्वा श्रीकान्तमवधीनिशि। श्रीकान्तेनाऽपि खड्गेन वसुदत्तो निपातितः॥२३॥ विन्ध्याटव्यामभूतां तावुभावपि कुरङ्गको। गुणवत्ययनूदैव मृत्वा तत्राऽभवन्मृगी।॥२४॥ तस्याः कृते च तत्राऽपि युद्ध्वा पञ्चत्वमीयतुः। मिथो वैरेण तावेवं भूयांसंभ्रेमतुर्भवम्॥२५।। पातदानीं धनदत्तोऽपिस्वभ्रातृवधपीडित:। निर्धर्मोऽटन् निशिसाधून ददर्श क्षुधितोऽन्यदा॥२६।। ययाचे भोजनं तेभ्यस्तेष्वेको मुनिरब्रवीत्। दिवाऽपि हिं न साधूनां भक्त-पानादिसङ्ग्रहः॥२७॥ तवाऽपि नोचितं रात्रौ भोक्तुं पातुं च भद्रक! । को वेत्ति जीवसंसक्तिमन्नादौ तमसीदृशे? ॥२८॥ इत्यादिबोधितस्तेन सुधयोक्षितो हृदि । श्रावकीभूय मृत्वा च सौधर्मे त्रिदशोऽभवत्।।२९।। पच्युत्वा महापुरपुरे धारणी-मेरुनन्दनः । नाम्ना पद्मरुचिः श्रेष्ठी परमश्रावकोऽभवत्।३०॥ सोऽन्यदा गोकुलंगच्छन्नश्वारूढोर्यदृच्छया । जरद्वृषभमद्राक्षीन्मुमूर्षु पतितं पैथि॥३१।। १. धनुर्धर! कां, मो. ॥ २. दुस्थिते खं.१, मु. रस्वीपा. ॥ ३. ०वश्यकृत्य० ला. मु.॥४. लक्ष्मणस्तं जघान च खं.२; लक्ष्मणस्तमहन् युधि ला. ।। ५. ०ऽत्यन्तरक्ता मु. रस्वीपा. ।। ६. असहिष्णुः ।। ७. हरिणौ ॥ ८. अपरिणीतैव ॥९. नहि ला. मु. रस्वीपा. ॥१०. सिक्तः ।। ११. यथेच्छम् ।। १२. गलितवृषभम् ।। १३. भुवि पाता.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org