________________
२२९
नवमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । हे लोकपाला! लोकाश्च सर्वे शृणुत यद्यहम्। अन्यमभ्यलषरामात् तदाऽग्निर्मां दहत्वयम् ॥२०९।। अन्यथा तु सुखस्पर्शो वारीवाऽस्त्वित्युदीर्य सा । झम्पां स्मृतनमस्कारा ददौ तस्मिन् हुताशने ॥२१०।। यावत् सा प्राविशत् तावद् विध्यातो वह्निराश्वपि । गर्त: स्वच्छोदकापूर्णः स तु वापीत्वमाययौ ॥२११।। सीता त्वधिजलं पद्मोपरि सिंहासनस्थिता । पञवाऽस्थात् सतीभावतुष्टदेवप्रभावतः ।।२१२॥ पाकुर्वाणं क्वाऽपि हुङ्कारं क्वचिद् गुलुगुलारवम् । क्वाऽपि भम्भायितध्वानं क्वचित् पटपटाध्वनिम् ॥२१३।। क्वचिद् दिलदिलस्वानं क्वचित् खलखलास्वनम् । समुद्राम्भ इवाऽम्भस्तत् तत्र सावर्त्तमैक्ष्यत ॥२१४॥युग्मम्।। तदुच्छलज्जलं वाप्या उद्वेलस्येव वारिधेः । आप्लावयितुमारेभे मञ्चानपि गरीयसः ॥२१५॥ विद्याधरा भयोद्धान्ता: समुत्पत्येयुरम्बरे । भूचराश्चक्रुशुश्चैवं पाहि सीते! महासति! ॥२१६।। सीताऽप्युल्लोलमम्भस्तत् स्वपाणिभ्यामवालयत् । पुनर्वापीप्रमाणं तदभूत् तस्याः प्रभावतः ॥२१७।। उत्पलैः कुमुदै: पद्मः पुण्डरीकैर्निरन्तरा । सौरभोद्भ्रान्तभृङ्गालीसङ्गीता हंसशालिनी ॥२१८॥ आस्फलद्वीचिनिचयमणिसोपानबन्धुरा । बद्धोभयतटा रत्नोपलैर्वापी बभूव सा ॥२१९।।युग्मम्।। पाननृतुर्नारदाद्याः खे सीताशीलप्रशंसिनः । सीतोपरिष्टात् तुष्टाश्च पुष्पवृष्टिं व्यधुः सुराः ॥२२०॥ अहो शीलमहो शीलं रामपत्न्या यशस्करम्! । इति लोकप्रघोषोऽभूद् रोद:कुक्षिम्भरि: क्षणात् ॥२२१॥ मातुः प्रभावं तं दृष्ट्वा मुदितौ लवणाङ्कुशौ । हंसाविव तरन्तौ तौ तत्समीपमुपेयतुः ।।२२२।। तौ मूर्ध्याघ्राय वैदेह्या पाश्वोरुपवेशितौ । कलभाविव रेजाते नदीतीरद्वयस्थितौ ॥२२३।। गत्वा सौमित्रि-शत्रुघ्न-भामण्डल-बिभीषणाः । सुग्रीवाद्याश्च वैदेहीं नमश्चक्रुः सभक्तित: ॥२२४।। सीतामुपाययौ रामोऽप्यभिरामतरद्युतिम् । पश्चात्तापत्रपापूर्ण इत्यूचे रचिताञ्जलिः ॥२२५।। स्वभावादप्यसद्दोषग्राहिणां पुरवासिनाम् । छन्दानुवृत्त्या त्यक्ताऽसि मया देवि! सहस्व तत् ।।२२६।। त्यक्तोग्रश्वापदेऽरण्येऽजीवस्त्वं स्वप्रभावतः । एकं दिव्यं तदप्यासीन्नाऽज्ञासिषमहं पुनः ॥२२७।। क्षान्त्वा सर्वं ममेदानीमिदमध्यास्स्व पुष्पकम् । चले स्ववेश्मने प्राग्वद् रमस्व सहिता मया ॥२२८।। सीताऽप्यूचे न ते दोषो न च लोकस्य कश्चन । न चौऽन्यस्याऽपि कस्याऽपि किं तु मत्पूर्वकर्मणाम् ।।२२९।। निर्विण्णा कर्मणामीदृग्द:खावर्तप्रदायिनाम् । ग्रहीष्यामि परिव्रज्यां तेषामुच्छेदकारिणीम् ॥२३०॥ इत्युक्त्वा मैथिली केशानुच्चखान स्वमुष्टिना । रामस्य चाऽर्पयामास शक्रस्येव जिनेश्वरः ॥२३१।। सद्यो मुमूर्च्छ काकुत्स्थो नोत्तस्थौ यावदेष च । तावत् सीता ययौ साधुजयभूषणसन्निधौ ॥२३२।।
केवली सजयभूषणो मुनिमैथिली विधिवदप्यदीक्षयत्। सुप्रभाख्यगणिनीपरिच्छदे तां चकार च तप:परायणाम्॥२३३।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरित्रे महाकाव्ये
सप्तमे पर्वणि सीताशुद्धि-व्रतग्रहणो नाम नवमः सर्गः।।
१. लक्ष्मीरिव ।। २.हंभाषिताध्वानं पाता.; संभाषिताध्वानं खं.२।। ३. ० ध्वनि पाता. मु. रस्वीपा. ॥ ४. अमर्यादस्य॥५. सीताऽप्युत्तीर्ण० ला.विना।। ६. सौरभेण उद्भ्रान्ता या भृङ्गाली-भ्रमरसमूह: तत्सङ्गीतं यस्यां सा ।। ७. लोकप्रवादो० खं.१॥ ८. आकाश-पृथ्व्योर्व्यापी ।। ९. हस्तिबालौ ।। १०. ०द्युति: मु. रस्वीपा., मनोहरतरदीप्तिम् ॥११. अभिप्रायानुसरणेन ॥१२. चल स्ववेश्मनि मु. रस्वीपा. ॥१३. न चाऽन्यस्य च कस्याऽपि खं.१।। १४.
चरिते ता. ॥ १५. सप्तम० खं.१-२॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org