________________
२२८
माहेन्टो
मन्दिर
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व एवमस्त्वित्युदित्वा ते पुर्या बहिरकारयन्। विशालान् मण्डपानुच्चैस्तदन्तमञ्चधोरणी: ॥१७४।। तेषु चोपाविशन् भूपा: पौरामात्यादयोऽपि च । ते बिभीषण-सुग्रीवप्रमुखा: खेचरा अपि ॥१७५।। ततो रामाज्ञयोत्थाय पुण्डरीकपुरे स्वयम् । गत्वा नत्वा च वैदेहीमित्युवाच कपीश्वरः ॥१७६।। त्वत्कृते प्रैषि रामेण विमानं देवि! पुष्पकम् । इदानीमिदमध्यास्स्व रामोपान्तमुपेहि च ॥१७७|| साऽप्यूचेऽद्याऽपि मेऽरण्यत्यागदुःखं न शाम्यति । ततः कथं यामि रामं भूयो दुःखान्तरप्रदम् ? ॥१७८।। नत्वा भूयोऽपि सोऽवोचमा कुपस्तव शुद्धये । समं पौरैर्नुपैः सर्वैर्मञ्चारूढोऽस्ति राघवः ॥१७९॥ तेनेत्युक्ते पूर्वमपि जानकी शुद्धिकाङ्क्षिणी । आरुरोह विमानं तदयोध्यायां जगाम च ॥१८०॥
द्यानं समुपेत्योत्ततार सा। दत्तार्घा लक्ष्मणेनैत्य नमश्चक्रे नपैरपि ॥१८१।। अग्रे निषद्य सौमित्रिनॅपैः सममदोऽवदत् । निजां पुरीं निजं वेश्म प्रवेशाद् देवि! पावय ॥१८२॥ सीताऽप्यूचे प्राप्तशुद्धिः प्रवेक्ष्यामि पुरीमिमाम् । गृहं च नाऽन्यथा वत्साऽपवादो जातु शाम्यति ॥१८३॥ इति सीताप्रतिज्ञां तेऽशंसन् रामाय भूभुजः । रामोऽप्युपेत्य वैदेहीमित्यूचे न्यायनिष्ठुरम् ।।१८४॥ भोगा न चेद् दशास्येन तस्थुष्या अपि तद्गृहे । समक्षं सर्वलोकानां तद् दिव्यं कुरु शुद्धये ॥१८५।। स्मित्वा सीताऽप्युवाचैवं विज्ञस्त्वत्तोऽपरो न हि । अज्ञात्वा यो हि मे दोषं त्यागं कुर्यान्महावने ॥१८६।। दण्डमादौ विधायाऽद्य कुरुषे मत्परीक्षणम् । विचक्षणोऽसि काकुत्स्थ! सज्जा तत्राऽपि नन्वहम् ॥१८७।। ऊचे विलक्षो रामोऽपि जाने दोषस्तवाऽस्ति न । जनोत्पादितदोषस्योत्तारणायेदमुच्यते ॥१८८।। जगाद जानकी दिव्यपञ्चकं स्वीकृतं मया। विशामि वह्नौ ज्वलिते भक्षयाम्यथ तण्डुलान् ॥१८९॥ तुलां समधिरोहामि तप्तं कोशं पिबाम्यहम् । गृह्णामि जिह्वया फालं किं तुभ्यं रोचते ? वद ॥१९०॥युग्मम्।। पाअत्राऽन्तरेऽन्तरीक्षस्थ: सिद्धार्थो नारदोऽप्यथ । लोक: सर्वश्च तुमुलं निषिध्येदमभाषत ॥१९१।। भो भो राघव! सीतेयं निश्चयेन सती सती । महासतीति मा कार्षीर्विकल्पमिह जातुचित् ।।१९२॥ रामोऽप्युवाच हे लोका! मर्यादा काऽपि नाऽस्ति वः । सङ्कल्प्य दोषं युष्माभिरेवेयं दूषिता पुरा ॥१९३॥ ब्रूाऽस्मत्पुरतो यूयमन्यद् दूरे स्थिता: पुन: । तदा कथं सदोषाऽऽसीच्छीलवत्यधुना कथम् ? ॥१९४॥ भूयोऽपि गृह्णतां दोषैमर्गला नाऽस्ति काऽपि वः । प्रत्ययाय तत: सीता विशतु ज्वलितेऽनले ॥१९५।। इत्युक्त्वाऽखानयद् रामो गर्तं हस्तशतत्रयम् । पुरुषद्वयदघ्नं चाऽपूरयच्चन्दनेन्धनैः ॥१९६॥
अत्राऽन्तरे च वैताढ्यस्योत्तरश्रेणिवर्तिनः । हरिविक्रमराजस्य कुमारो जयभूषणः ॥१९७|| ऊढाष्टशतनारीक: पत्नी किरणमण्डलाम् । सुप्तां हेमशिखाख्येन समं मातुलसूनुना ॥१९८।। दृष्ट्वा निर्वासयामास तदैव प्राव्रजत् स्वयम् । साऽपि मृत्वा समजनि विद्युदंष्ट्रेति राक्षसी ॥१९९।। अयोध्याबहिरभ्येत्य स तदा जयभूषणः । तस्थौ प्रतिमया विद्युदंष्ट्रा च तमुपाद्रवत् ॥२००।। केवलं तस्य चोत्पेदे तदुत्सवविधित्सया । तदानीं च समाजग्मुः सुनासीरादय: सुरा ॥२०१॥ सीताया: प्रेक्ष्य तद् देवाः शक्रमेवं व्यजिज्ञपन् । लोकालीकापवादेन सीता वह्नौ प्रवेक्ष्यति ॥२०२॥ पत्त्यनीकपतिं सीतासान्निध्यायाऽऽदिशद्धरिः । तस्यर्षे: केवलज्ञानोत्सवं तु विदधे स्वयम् ॥२०३।। रोमाज्ञया च भृतकास्तं गतं चन्दनाञ्चितम्। परितो ज्वालयामासुर्दु:प्रेक्षं चक्षुषामपि ॥२०४॥ ज्वालाकरालं तं प्रेक्ष्य रामो दध्याविदं हृदि। अहो! अत्यन्तविषमं किं ममेदमुपस्थितम् ? ॥२०५।। इयं महासती नूनं नि:शङ्काऽग्नौ प्रवेक्ष्यति। दैवस्येव हि दिव्यस्य प्रायेण विषमा गतिः।।२०६।। मया सहाऽस्या निर्वासो हरणं रावणेन च । वने त्यागो मया भूयो भूयोऽप्येतच्च मत्कृतम् ।।२०७।। एवं सोऽचिन्तयद् यावत् तावत् सीतोपपावकम् । स्थित्वा स्मृत्वा च सर्वज्ञं चक्रे सत्यापनामिति ॥२०८॥ १. मञ्चश्रेणीः ।। २. भूपपौरा० ला. ॥३. बिभीषणश्च सुग्रीव० ला. ॥ ४. महेन्द्रो० ला. ॥५. न हि ता. ॥६. कुर्या महा० पाता.विना ।। ७. तन्दुलान् ला.; 'लोहमयानग्निवर्णाश्च' इति टि.ला. ।। ८. '५२ पलगोलरूपां' इति टि.ला. ॥ ९. सीसकम् ।। १०. शस्त्रस्य धाराम् ।। ११. महासती च ता. ॥१२. ब्रूथाऽन्यत् पुरतो० ला.विना ।। १३. दोषानर्गला ला. ।। १४. काऽपि नाऽस्ति ता. ।। १५. पुरुषत्रय० मो.; पुरुषद्वय(बे माथोडां)प्रमाणम् ॥१६.
इन्द्रादयः ।। १७. लोकस्य असत्यकलङ्केन ।। १८. हरिणैगमेषिदेवम् ।। १९. रामाज्ञयाऽथ मु. ॥ २०. सुर्दुःप्रेक्ष्य मु. ॥२१. ममेदं किमु० ला. ।। २२. Jain Educatio सीता नि:शहा० पाता. ।। २३. शपथम् ।।
For Private & Personal Use Only
www.jainelibrary.org