________________
२२७
नवमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । अत्राऽन्तरे चसौमित्रिरङ्कुशेनोरसीषुणा। ताडित: 'कुलिशेनेव मूर्च्छितो न्यपतद् रथे॥१३९।। सौमित्रिमूर्छाविधुरो विराध: स्यन्दनं रणात् । अचालयत् प्रत्ययोध्यं सज्ञां लेभेऽथ लक्ष्मणः ॥१४०।। साक्षेपं लक्ष्मणश्चोचे किं विराधाऽकृथा नवम् । रामभ्रातुर्दशरथसूनोरनुचितं ह्यदः ? ॥१४१।। तच्छीघ्रं नय तत्रैव रथं यत्र स मे द्विषन् । एष छिनधि तच्छीर्षं चक्रेणाऽमोघरंहसा ॥१४२॥ एवमक्तो विराधोऽथाऽनैषीत प्रत्यङ्कशं रथम । तिष्ठ तिष्ठेति जल्पंश्च चक्रं जग्राह लक्ष्मणः ॥१४३॥ भ्राम्यदर्कभ्रमकरं भ्रमयित्वा च तद् दिवि । क्रुद्धो मुमोच सौमित्रिरङ्कुशायाऽस्खलद्रयम् ॥१४४।। आपतत् ताडयामासाऽनेकशोऽस्त्रैस्तदङ्कुश: । सर्वात्मना लवणोऽपि न तु तत्प्रत्यहन्यत ।।१४५।। वेगेनाऽऽपत्य तच्चक्रमङ्कुशस्य प्रदक्षिणाम् । कृत्वा लक्ष्मणहस्तेऽगात् पुनर्नीड इवाऽण्डजः ॥१४६।। तद् भूयो लक्ष्मणोऽमुञ्चत् कृत्वा तद्वत् प्रदक्षिणाम् । पुनस्तत्पाणिमेवाऽऽगाच्छालां भग्न इव द्विपः ॥१४७।। चिन्तयामासतश्चैवं विषण्णौ राम-लक्ष्मणौ। किं सीरि-शाङ्गिणावेतौ न त्वावामिह भारते ? ॥१४८॥
अत्राऽन्तरे नारदर्षिः सिद्धार्थेन सहैव हि । तत्रोपेत्याऽवोचदेवं खिन्नं रामं सलक्ष्मणम् ।।१४९|| हर्षस्थाने विषादोऽयं युवयोः किं रघूद्वहौ ? । पुत्रात् पराजयो वंशोद्योतनाय न कस्य हि ? ॥१५०॥ सीताकुक्षिभवौ पुत्रौ ताविमौ लवणाङ्कुशौ । त्वां द्रष्टुमागतावत्र युद्धव्याजेन न त्वरी ॥१५१॥ अभिज्ञानमिदं तेऽत्र यच्चक्रं प्रबभूव न । मुधाऽभूद् भारतं चक्रं पुरा बाहुबलावपि ॥१५२॥ त्यागात् प्रभृति सीताया वृत्तान्तं नारदोऽखिलम् । पुत्रयुद्धान्तमाचख्यौ विश्वविस्मयदायकम् ॥१५३।। रामोऽपि विस्मय-व्रीडा-खेद-हर्षसमाकुलः । मुमूर्च्छ सञ्ज्ञां लेभे च संसिक्तश्चन्दनाम्भसा ।।१५४।। लक्ष्मणेन सहोदश्रुः पुत्रवात्सल्यपूरित: । जगाम रामो लवणाङ्कुशयोर्दुतर्मन्तिके ॥१५५।। अवतीर्य रथात् सद्यो विनीतौ लवणाङ्कुशौ । पादेषु पद्य-सौमित्र्योस्त्यक्तास्त्रौ पेततुः क्रमात् ॥१५६।। तावालिङ्ग्य निजोत्सङ्गमारोप्य च रघूद्वहः । मूर्ध्नि चुम्बन् रुरोदोच्चैः शोक-स्नेहसमाकुलः ॥१५७।। रामोत्सङ्गान्निजोत्सङ्गं तावारोप्याऽथ लक्ष्मणः । चुम्बन शिरसि बाहुभ्यां परिरेभेऽश्रुपूर्णदृक् ॥१५८॥ विलुठन्तौ पितुरिव विनीतौ पादपद्मयोः । दूरात् प्रसारितभुज: शत्रुघ्नोऽप्यालिलिङ्ग तौ ॥१५९।। अपरेऽपि हि भूपाला: सेनयोरुभयोरपि । प्रमोदन्ते स्म सम्भूय विवाहमिलिता इव ॥१६०॥
पुत्रयोर्विक्रमं दृष्ट्वा पित्रा च सह सङ्गमम् । हृष्टा सीता विमानेन पुण्डरीकपुरं ययौ ॥१६१।। सदृक्षपुत्रलाभेन मुदितौ राम-लक्ष्मणौ । हृषुः स्वामिहर्षेण भूचरा: खेचराश्च ते ॥१६२।। भामण्डलनृपाख्यातो वज्रजचनृपोऽपि हि । ननाम राम-सौमित्री विनीतश्चिरपत्तिवत् ॥१६३॥ रामस्तमाललापैवं भामण्डलसमोऽसि मे । पुत्रौ योऽवर्धयस्त्वं मेऽनैषी: काष्ठामिमां च यः ॥१६४|| इत्युक्त्वा पुष्पकारूढ: पद्मनाभः सलक्ष्मणः । अर्धासनोपविष्टाभ्यां पुत्राभ्यां प्राविशत् पुरीम् ॥१६५।। उद्ग्रीवपाणिभिः पौरै राजमार्गे च विस्मितैः । प्रेक्ष्यमाण-स्तूयमानसुतो रामोऽगमद् गृहम् ॥१६६॥
र पुत्राभ्यां सह राम: सलक्ष्मणः । महान्तमत्यन्तमुदा कारयामास चोत्सवम् ॥१६७।। अथ रामं सुमित्राभूः कपीश्वर-बिभीषणौ । हनूमानङ्गदाद्याश्च सम्भूयैवं व्यजिज्ञपन् ॥१६८॥ परदेशे स्थिता देवी त्वया विरहिताऽधुना। विनाऽमूभ्यां कुमाराभ्यामतिकष्टेन तिष्ठति॥१६९॥ यद्यादिशसि तत् स्वामिन्नानयामोऽद्य तामिह । विपत्स्यतेऽन्यथा सा तु पति-पुत्रोज्झिता सती ॥१७०।। किञ्चिद रामो विचिन्त्योचे जानक्यानीयते कथम् ? | लोकापवादोऽलीकोऽपि बलवानन्तरायकृत् ।।१७१|| जानेऽहं यत् सती सीता साऽपि स्वं वेत्ति निर्मलम् । दिव्यं दातुमथाऽदातुं तद् द्वयोरपि नाऽस्ति भी: ॥१७२॥ प्रत्यक्षं सर्वलोकानां दिव्यं देवी करोतु सा । शुद्धया च तया सार्धं गृहवासोऽस्तु मे पुनः ॥१७३।। १. वज्रेणेव ॥२. द्विष: खं.१ ॥३. भ्रमदर्क० कां. छा. मु.॥ ४.०मासाउनेकशौ० पाता. ॥५. इवाऽण्डजम् ता.; अण्डज:-पक्षी नीडे-गृहे इव ॥६. पलायितो गजो यथा पुनर्हस्तिशालायामागच्छति तथा ॥७. बलदेव-वासुदेवौ ।। ८. न तु शत्रू ।। ९. चिह्नम् ।। १०. भरतचक्रवर्तिन: चक्रं बाहुबलिविषये निष्फलं पुराऽभूत् ॥ ११. बाहुबलादपि खं.१-२, पाता. ॥ १२. ०मन्तिकम् पाता. ॥१३. जहएः खं.१ ॥ १४. स्थितिम् ॥ १५. मार्गे मार्गे च ता. ॥ १६. प्रेक्ष्यमाण: खं.१ विना ॥ १७. स्तूयमानस्ततो पाता. ॥ १८. सुमित्रासूः खं.१॥..
www.jainelibrary.org