________________
२२६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व आत्मजौ तावजानानौ न यावद्धन्ति राघवः । उत्तिष्ठ तावद् गच्छावस्तत्राऽऽवामविलम्बितम् ।।१०३॥ इत्युक्त्वा जानकीमात्मविमानमधिरोप्य च । लवणाङ्कुशयो: स्कन्धावारे भामण्डलो ययौ ॥१०४॥ तौ नमश्चक्रतः सीतां कमारौ लवणाङ्कशौ । मातुलोऽयमिति सीताख्यातं भामण्डलं तथा ॥१०५।। स तौ शिरसि चुम्बित्वा स्वोत्सङ्गमधिरोप्य च । हर्षरोमाञ्चितवपुरित्यूचे गद्गदाक्षरम् ॥१०६॥ वीरपत्नी पुराऽप्यासीद् दिष्ट्या सम्प्रति वीरसूः । अभूदु युवाभ्यां मे यामिर्यामिनीजामिनिर्मला ॥१०७।। वीरपुत्रौ च वीरौ च युवां यद्यपि मानदौ । रणं पितृ-पितृव्याभ्यां मा कृषाथां तथाऽपि हि ॥१०८।। न रणे रावणोऽप्यासीद् ययोर्मल्लस्तयोः कथम् । युद्धं युवाभ्यामारेभे दोष्कण्डूरभसावशात् ? ॥१०९॥ तावूचतुर्मातुलाऽलं स्नेहभीरुतयाऽनया । त्वत्स्वसाऽप्यस्मदम्बेयमूचेऽद: कातरं वचः ॥११०।। आवामपि हि विद्वो यन्न मल्लः कोऽपि तातयोः । युद्धं त्यक्त्वा तयोरेवोत्पादयाव: कथं ह्रियम् ? ॥१११।। तयोर्बुवाणयोरेव सैन्यानां रामसैनिकैः । समं प्रववृते युद्धं संवर्तावर्तदर्शकम् ।।११२।। सुग्रीवाद्यैः खेचरैर्माऽनयो: सैन्यं महीचरम् । हन्यतामिति साशङ्को ययौ भामण्डलो युधि ॥११३।। उत्तस्थाते कुमारावप्याहवाय महाबलौ । उच्छ्वास्यमानवर्माणौ रोमाञ्चेनाऽतिशायिना ॥११४|| नि:शकं युध्यमानास्ते सुग्रीवाद्या नभश्चराः । युधि भामण्डलं दृष्ट्वा पप्रच्छु: काविमाविति ॥११५।। भामण्डलाच्च ते ज्ञात्वा रामपुत्राविमाविति । गत्वा सीतां नमश्चक्रुर्त्यषदंश्च पुरो भुवि ॥११६।। पाईतश्च तौ क्षणेनाऽपि दोष्मन्तौ लवणाङ्कुशौ । रामसैन्यं दुधुवतुः क्षयोद्धान्ताब्धिदुर्धरौ ॥११७|| यत्र यत्र भ्रमतुस्तौ वने सिंहाविवोद्धतौ । रथी सादी निषादी वा न तत्राऽस्थाद् धृतायुधः ॥११८॥ हत-विद्रुतमेवं च रामसैन्यं विधाय तौ । केनाऽप्यस्खलितौ रामं सौमित्रिं चेयतुर्युधि ।।११९।। तौ प्रेक्ष्य राम-सौमित्री एवमन्योऽन्यमूचतुः । कावप्येतावभिरामौ कुमारौ विद्विषौ च न: ? ॥१२०।। निसर्गात् स्निह्यति मनो बलाद् द्रुह्यति किं त्विदम् । उद्यच्छाव: किमाश्लेष्टमेतौ योधयितुं नु वा ? ॥१२१।। इति व्याहारिणं रामं रथस्थं लवणो रथी। लक्ष्मणं चाऽङ्कुशोऽवोचत् सौष्ठव-प्रश्रयान्वितम् ॥१२२।। जैत्रं जगदजय्यस्य रावणस्याऽपि दोष्मतः । दिष्ट्याऽद्राक्षं वीरयुद्धश्रद्धालुस्त्वामहं चिरात् ।।१२३।। नाऽपूर्यत रणश्रद्धा रावणेनाऽपि ते ध्रुवम् । एष तां पूरयिष्यामि त्वं च मे पूरयिष्यसि ॥१२४॥ इत्युक्ते राम-सौमित्री द्वौ तौ च लवणाङ्कुशौ । आस्फालयामासतु: स्वं स्वं धनुर्वानभीषणम् ॥१२५।।
कृतान्तसारथी रामस्यन्दनं वज्रजवराट् । अनङ्गलवणरथमभ्यढौकयतां मिथ: ॥१२६।। रथं विराधः सौमित्रेरङ्कुशस्य पुन: पृथुः । अन्योऽन्यमभ्यमित्रीणं चक्राते वरसारथी॥१२७।। चतुरं भ्रमयामासुस्तेऽग्रसारथयो रथान् । प्रजहुर्विविधं ते च चत्वारो द्वन्द्वयोधिनः ॥१२८।। विज्ञातज्ञातिसम्बन्धौ सापेक्षौ लवणाङ्कुशौ । युयुधाते निरपेक्षौ त्वज्ञानाद् राम-लक्ष्मणौ ॥१२९।। विविधैरायुधैर्युद्ध्वा युद्धान्तेच्छू रघूद्वहः । ऊचे कृतान्तवदनं रथं प्रत्यरि वाहय ।।१३०॥ कृतान्तोऽपि बभाषेऽदः खेदं प्राप्ता ह्यमी हयाः। सर्वाङ्गं विशिखैर्विद्धा: प्रतियोधेन तेऽमुना ॥१३१॥ तुरङ्गा न त्वरन्तेऽमी कशाभिस्ताडिता अपि । रथश्च जर्जरस्तेऽभूदसौ वैर्यस्त्रताडितः ॥१३२॥ एतौ च मम दोर्दण्डौ द्विट्काण्डाघातजर्जरौ। न हि रश्मि प्रतोदं वा क्षमौ चालयितुं प्रभो! ||१३३।। पद्मनाभोऽप्यभाषिष्ट ममाऽपि शिथिलायते । धनुश्चित्रस्थितमिव वज्रावर्तं न कार्यकृत् ॥१३४।। अभून्मुशलरत्नं च वैरिनिर्दलनाक्षमम् । कणकण्डनमात्राहमेवैतदपि सम्प्रति ।।१३५।। अनेकशोऽङ्कुशीभूतं यद् दुष्टनृपदन्तिनाम् । हलरत्नं तदप्येतदभूदु भूपाटनोचितम् ।।१३६।। सदा यक्षै रक्षितानां विपक्षक्षयकारिणाम । तेषामेव ममाऽस्त्राणामवस्था केयमागता? ||१३७॥ यथाऽपराजितासूनोरभून्मोघास्त्रता तदा। तथैव लक्ष्मणस्याऽपि मदनाङ्कशयोधिनः ॥१३८॥ १. वीरं सूते इति वीरसूर्वीरमातेत्यर्थः ॥२. यामिनी रात्रिर्जाया यस्य स चन्द्रस्तद्वन्निर्मला ॥३. प्रलयमेघावर्त्तदर्शनम् ।। ४. ततश्च पाता. ॥५. क्षये-प्रलयकाले उद्भ्रान्तसमुद्रवद् दुर्धरौ।। ६.०युधे खं.१-२, पाता. ॥ ७. तु खं.१-२, पाता. ॥ ८. वदन्तम् ।। ९. ०ष्यति खं.१ ॥१०. शत्रून्मुखम् ।। ११. अरिं प्रति ।। १२. बन्धनीं (लगाम) कशां (चाबुक) वा ।। १३. धान्यकणानां कण्डनयोग्यं मुशलमभूत् ।। १४. क्षेत्रकर्षणयोग्यम् ॥
Jain Education International
www.jainelibrary.org