SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । गर्भस्थयोरप्यनयोरयोध्यालोकजन्मनः । अपवादाच्चकितेन त्यक्ता रामेण जानकी ॥६८॥ अथाऽकशो हसित्वोचे ब्रह्मन्! न खलु साधु तत् । चक्रे रामेण वैदेहीं त्यजता दारुणे वने ॥६९।। भूयांसि ह्यपवादस्य कारणानि निराकृतौ । भवन्ति तत्र किं न्वेवं विद्वानपि चकार स: ?॥७०॥ पप्रच्छ लवणोऽथैवं दूरे कियति सा पुरी। यस्यां वसति मे तात: सानुजः सपरिच्छदः ? ॥७१।। मुनिश्चोचे तव पिता यस्यां विश्वैकनिर्मल: । साऽयोध्या पूरित: षष्टियुग्योजनशतं खलु ॥७२॥ वज्रजङ्घमथोवाच लवण: प्रश्रयं श्रयन् । इच्छावस्तत्र गत्वाऽऽवां प्रेक्षितुं राम-लक्ष्मणौ ॥७३|| प्रतिपद्य स तद्बाचमङ्कुशं पर्यणाययत् । महोत्सवेन पृथुराट्पुत्र्या कनकमालया ॥४॥ वज्रजच-पृथुभ्यां तावन्वितौ लवणाङ्कुशौ । साधयन्तौ बहून् देशान् लोकाख्यपुरमीयतुः ॥७५॥ युद्धभूमौ च तद्रूपं धैर्य-शौण्डीर्यशालिनम् । कुबेरकान्तनामानं मानिनं तत्र जिग्यतुः ॥७६।। लम्पाकेष्वेककर्णाख्यं विजिग्याते नृपं च तौ । ततश्च विजयस्थल्यां भूपं भ्रातृशताभिधम् ।।७७॥ गङ्गामुत्तीर्य कैलासस्योत्तरां दिशमीयतुः । तत्र नन्दनचारूणां देशानां चक्रतुर्जयम् ॥७८।। ऋष-कुन्तल-कालाम्बु-नन्दिनन्दन-सिंहलान् । शलभाननलान् शूलान् भीमान् भूतरवादिकान् ॥७९।। जयन्तौ नृपान् सिन्धोः परकूलमुपेयतुः । तत्र चाऽऽर्याननार्यांश्च साधयामासतुपान् ।।८०॥युग्मम्।। बहदेशेश्वरानेवं साधयित्वा सहैव तैः । निवत्योपेयतुस्तौ तत पुण्डरीकपुरं पुरम् ॥८१॥ अहो! धन्यो वज्रजको यदीयौ यामिनन्दनौ । ईदृशाविति जल्पद्भिर्वीक्ष्यमाणौ पुरीजनैः ।।८२॥ जग्मतुः स्वगृहं वीरौ भूपवीरैः समावृतौ । प्रणेमतुश्च जानक्याश्चरणौ विश्वपावनौ ।।८३।।युग्मम्।। चुचुम्ब मूर्ध्नि तौ सीता स्नपयन्ती मुंदश्रुभिः । राम-लक्ष्मणयोस्तुल्यौ भूयास्तमिति चाऽवदत् ।।८४।। [ऊचतुर्वज्रजई तौ मातुल! प्राक् त्वयाऽऽवयोः । मेने यानमयोध्यायामिदानीमनुतिष्ठ तत् ।।८५।। आज्ञाप्यन्तां च लम्पाक-ऋष-कालाम्बु-कुन्तला: । शलभानल-शूलाद्याश्चाऽपरेऽपि महीभुजः ॥८६॥ प्रयाणभम्भा वाद्यन्तां छाद्यन्तां च दिशो बलैः । त्यक्ता येनाऽऽवयोर्माता वीक्ष्यस्तस्याऽद्य विक्रमः ।।८७|| सीताऽपि सद्यो रुदती जगादैवं सगद्गदम् । वत्सौ! केयमनर्थेच्छा युवयोः कर्मणाऽमुना ? ॥८८॥ वीरौ पितृ-पितृव्यौ वां दुर्जयौ धुसदामपि । यकाभ्यां निहतो रक्ष:पतिस्त्रैलोक्यकण्टकः ॥८९।। उत्कण्ठा पितरं द्रष्टुं युवयोर्यदि बालकौ! । विनीतीभूय तद् यातं पूज्ये हि विनयोऽर्हति ॥९०॥ ततस्तावेवमूचाते विनयः क्रियते कथम् । तस्मिन् द्विषत्पदप्राप्ते त्वत्त्याजिनि पितर्यपि ? ॥९१।। पुत्रौ तवाऽऽवामायाताविति तस्य पुरः कथम् । गत्वा स्वयं वदिष्यावस्तस्याऽपि ह्रीकर वच: ? ||९२।। आनन्दजनकं तस्य जनकस्याऽपि दोष्मतः । युद्धाह्वानं युज्यते तु कुलद्वययशस्करम् ॥१३॥ अभिधायेति सीतायां रुदत्यामपि चेलतुः । महोत्साहौ महासैन्यौ तौ रामनगरी प्रति ॥९४॥ कुठार-कुद्दालभृतां सहस्राणि नृणां दश। तयोः पच्छिदन वृक्षादिकं मां च समा व्यधुः ।।१५।। क्रमेण गत्वा सेनाभी रुन्धानौ सर्वतो दिश: । तावूषतुरुपायोध्यं योद्धुकामौ महाभुजौ ॥९६॥ विरुद्धं तद्बलं भूरि श्रुत्वाऽऽयातं पुरो बहिः । उभौ विसिष्मियाते च सिष्मियाते च राघवौ ॥९७।। अथेत्थमूचे सौमित्रि परे केऽमी पतङ्गवत् । मर्तुकामा: समापेतुरार्यविक्रमपावकम् ? ॥९८॥ इत्युक्त्वा सह रामेण सुग्रीवादिभिरावृतः । युद्धे चचाल सौमित्रिरमित्रध्वान्तभास्करः ॥९९॥ पाइतश्च नारदाच्छ्रुत्वा तद् भामण्डलभूपतिः । पुण्डरीकपुरे सीतामुपेयाय ससम्भ्रमः ॥१००॥ तस्याऽऽख्यद् रुदती सीता रामो मां भ्रातरत्यजत् । मत्त्यागमसहिष्णू च त्वद्यामेयौ युधे गतौ ॥१०१॥ भामण्डलोऽप्युवाचैवं त्वत्त्यागं रभसावशात् । चक्रे रामो द्वितीयं तु मा कार्षीत् पुत्रयोर्वधम् ॥१०२॥ १. निराकरणे॥२.त्वेवं ला.॥३. १६०योजनानि ॥४. लम्पाकदेशेषु॥५. देशनामान्येतानि ॥६. ननलांझूलान् ला.॥७. जामि० पाता.; भगिनीसुतौ ॥ ८. आनन्दाश्रुभिः ।। ९. अमानि कोशलायानमिदानी० हे. छा. पा. ॥१०. जगादेदं ला.॥११. शत्रुत्वं प्राप्ते ।। १२. लजाकरम् ।। १३. रुदन्त्या० मु.॥ १४. 'विस्मितौ' इति टि.ला. ।। १५. 'हसितौ' इति टि.ला, ।। १६. त्रि-रमित्रध्वान्तभास्कर: खं.१ ॥ १७. आर्यस्य-रामस्य विक्रम एव पावक:Jain Education अग्निस्तम् ।।१८. त्वज्जामेयौ पाता.; त्वद्भगिनीपुत्रौ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy