________________
२२४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व सीताप्राप्तौ विमुक्ताशो निवृत्य स्वपुरीं ययौ। पौरैः 'सीतागुणग्राहं निन्द्यमानो मुहुर्मुहुः ।।३२।। प्रेतकार्यं चसीतायाः पद्योऽकार्षीदुदश्रुदृक् । पश्यन् सीतामयमिव सर्वं शून्यमिवाऽथ वा॥३३॥ सैका हृदि दृशोरग्रे तस्थौरामस्य वाचिच। क्वाऽपि तिष्ठतिसीतेति तथाऽपिन विवेदसः॥३४॥
इतश्च तत्र वैदेही सुषुवे युग्मिनौ सुतौ । नामतोऽनङ्गलवणं मदनाङ्कुशमप्यथ ॥३५॥ वब्रजचस्तयोश्चक्रे जन्म-नाममहोत्सवौ । स्वपुत्रलाभादधिकं मोदमानो महामनाः ॥३६।। धात्रीजनै ल्यमानौ लीलादुर्ललितावुभौ । क्रमेण ववृधाते तावश्विनाविव भूचरौ ॥३७।। कलाग्रहणयोग्यौ तावजायतां महाभुजौ । कलभाविव शिक्षार्हो नरेन्द्रनयनोत्सवौ ॥३८॥ तदा च नाम्ना सिद्धार्थोऽणुव्रती सिद्धपुत्रकः । विद्या-बलर्द्धिसम्पन्न: कलागमविचक्षणः ।।३९।। त्रिसन्ध्यमपि मेर्वद्रौ चैत्ययात्रासु चङ्क्रमैः । आकाशगामी भिक्षार्थं वैदेहीगृहमाययौ ॥४०॥युग्मम्।। वैदेह्या भक्तपानाद्यैः श्रद्धया स तु भोजितः । तथा सुखविहारं च तया पृष्टस्तदाऽवदत् ।।४१।। तेनाऽपि पृष्टा वैदेही सुतजन्मावधि स्वकम् । मूला वृत्तान्तमाचख्यौ तस्य भ्रातुरिवाऽग्रतः ॥४२।। ऊचेऽष्टाङ्गनिमित्तज्ञ: सिद्धार्थ: करुणानिधिः । किं ताम्यसि मुधा ? यस्यास्तनयौ लवणाङ्कुशौ ॥४३।। प्रशस्तलक्षणौ साक्षादिव तौ राम-लक्ष्मणौ । मनोरथं तव सुतौ नचिरात् पूरयिष्यतः॥४४॥ तेनेत्याश्वासिता सीता तमभ्यर्थ्य कृताग्रहा । स्वगृहे धारयामास पुत्राध्ययनहेतवे ॥४५॥ स भव्याविति तत्पुत्रौ सर्वा अग्राहयत् कलाः। तथा यथा तावभूतां दुर्जयौ घुसदामपि ॥४६।। तावधीताखिलकलौ प्रपेदाते च यौवनम् । नूतनाविव कन्दर्प-वसन्तौ सहचारिणौ ॥४७॥ वज्रजकः शशिचलां पत्री लक्ष्मीवतीभवाम। कन्या द्वात्रिंशतं चाऽन्या लवणेनोदवायत् ॥४८॥ सोऽङ्कुशाय ययाचे तु पृथ्वीपुरपते: पृथो: । कन्यकाममृतवतीजातां कनकमालिकाम् ॥४९॥ वंशो न ज्ञायते यस्य तस्मै स्वदुहिता कथम् । दीयतामित्यभाषिष्ट पृथुः पृथुपराक्रमः ॥५०॥ वज्रजङ्घस्तदाकर्ण्य तं क्रोधादभ्यषेणयत् । पृथुगृह्यं व्याघ्ररथं युद्धे बद्ध्वाऽग्रहीन्नृपम् ॥५१॥ स्वमित्रं पोतनपतिं साहाय्यायाऽह्वयत् पृथुः । विधुरेषु हि मित्राणि स्मरणीयानि मन्त्रवत् ॥५२।। वज्रजयोऽपि पुत्रान् स्वान् नरैरानाययद् युधि । तैर्वार्यमाणावपि तौ चेयतुर्लवणाङ्कुशौ ।।५३।। अन्येधुर्ववृते युद्धं चम्वोर्मिलितयोर्द्वयोः । परैरतिबलैर्वज्रजङ्घसैन्यं त्वभज्यत ॥५४॥ संक्रुद्धौ मातुलचमूभङ्गेन लवणाङ्कुशौ । निरङ्कुशाविव गजौ प्रणिघ्नन्तावधावताम् ॥५५॥ तयोरोजस्विनो रंहो मनागपि न सेहिरे। द्विषन्त: प्रोवृडुत्पूरश्रोतसोरंहिपा इव ॥५६॥ अभज्यत ससैन्योऽपि पृथुर्यावन्नरेश्वरः । ऊचतुस्तावदेवं तौ स्मेरास्यौ रामनन्दनौ ॥५७॥ अपरिज्ञातवंशाभ्यामप्यावाभ्यामिहाऽऽहवे । विज्ञातवंशजा यूयं पलायध्वे कथं त्वहो ? ॥५८॥ इति तद्वचनं श्रुत्वा वलित्वा पृथुरब्रवीत् । व्यज्ञायि वंशो युष्माकं विक्रमेणाऽमुना मया ।।५९।। अङ्कुशायाऽर्थिता कन्या वज्रजचेन भूभुजा। नूनं मम हितेनैव वरो हीदृक् क्व लभ्यते ? ॥६०॥ इति सानुनयं प्रोच्य सोऽङ्कशाय तदैव हि । कन्यां कनकमालाख्यां प्रददौ पूर्वयाचिताम् ॥६१॥ सन्धानं वज्रजचेन समक्षं सर्वभूभुजाम् । चक्रे पृथुनृपः पुत्र्या: स्पृहयन्त्रङ्कुशं वरम् ।।६२।। तत्राऽस्थाच्छिबिरं न्यस्य वज्रजचनरेश्वरः । आगाच्च नारदमुनिः सच्चक्रे तेन चोच्चकैः ॥६३॥ वज्रजको निषण्णेषु राजसूवाच नारदम् । अङ्कुशाय पृथुर्दास्यत्यसौ कन्यां निजां मुने! ॥६४॥ लवणाङ्कुशयोर्वंशमस्मत्सम्बन्धिनोऽस्य तत् । आख्याहि ज्ञातजामातृवंशो येनैष तुष्यति ॥६५।। अथोचे नारदः स्मित्वा वंशं को वेत्ति नाऽनयो: ? । यस्योत्पत्त्यादिकन्दः स भगवानृषभध्वजः ॥६६।। चक्रिणो ह्यनयोर्वंशे भरताद्या: कथाश्रुताः । को न वेत्त्यनयोस्तातौ प्रत्यक्षौ राम-लक्ष्मणौ ॥६७|| १. सीताया गुणान् गृहीत्वा ।। २. मरणोत्तरक्रिया ।। ३.०महोत्सवैः ला.॥४. तावश्विना० मु.; देववैद्यौ ।। ५. च क्रमात् खं.१-२, पाता. ला. ।। ६. च ला. ॥७. कृताग्रही ला.॥८.अज्ञापयत् छा. पा.॥९. कन्दौ पाता. ॥१०. कामदेवो वसन्तर्तुश्च ।।११. पृथुराजस्य पक्षपातिनम् ।। १२. प्रहारं कुर्वन्तौ ।। प्रावृष:-वर्षायाः उत्पूराया:(नद्याः) च स्रोत:-प्रवाहं यथा वृक्षा न सेहिरे तथा॥१४. सन्धिम् ।। १५. भगवान् वृषभ० रसंपा. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org