________________
॥नवम: सर्गः॥
अथसीता भयोद्धान्ता बभ्रामेतस्ततो वने। आत्मानमेव निन्दन्ती पूर्वदुष्कर्मदूषितम् ॥१॥ भूयो भूयश्च रुदती स्खलन्ती च पदे पदे। गच्छन्ती पुरतोऽपश्यन्महत् सैन्यं समापतत्॥२॥ मृत्यु-जीवितयोस्तुल्याशया प्रेक्ष्याऽपि तद् बलम् । सीता तस्थावभीतैव नमस्कारपरायणा ॥३॥ तां दृष्ट्वा बिभयाञ्चक्रुः सैनिका: प्रत्युताऽपिते। का नाम दिव्यरूपेयं भूस्थितेत्यभिभाषिणः॥४॥ सीताया रुदितं श्रुत्वास्वरवित तच्चमूनपः । इयं महासती काऽपि गुर्विणीचेत्यवोचत ।।५।। कृपालुः स महीपाल उपसीतं जगाम च।सीताऽप्याशङ्किता तस्य स्वं नेपँथ्यमढौकयत्॥६॥ राजाऽप्येवमभाषिष्ट मा भैषीस्त्वं मनागपि। तवैव भूषणान्येतान्यङ्गे तिष्ठन्तु हे स्वस:!||७|| का त्वं? कस्त्वामिहाऽत्याक्षीनिघृणेभ्योऽपि निघृण: ? । आख्याहि मा स्म शङ्किष्ठास्त्वत्कष्टेनाऽस्मि कष्टितः॥८॥ तन्मन्त्री सुमतिर्नाम सीतामेत्याऽब्रवीदिति। गजवाहनराजस्य बन्धुदेव्याश्च नन्दनः।।९।। नृपतिर्वज्रजकोऽयं पुण्डरीकपुरेश्वरः। महार्हतो महासत्त्व: परनारीसहोदरः॥१०॥ गजान् ग्रहीतुमत्रैत्य कृतार्थीभूय चव्रजन् । त्वदुःखदुःखितोऽत्राऽऽगाद् दुःखमाख्याहि तन्निजम्॥११॥ विश्वस्य सीताऽप्याचख्यौ स्ववृत्तान्तमशेषतः । रुदती रोदयन्ती तौ कृपालू राज-मन्त्रिणौ॥१२॥ निर्व्याजो व्याजहारैवं राजा धर्मेस्वसाऽसि मे। एकंधर्मं प्रपन्ना हि सर्वेस्युर्बन्धवो मिथः॥१३॥ ममभामण्डलस्येवांतुरेहि तदोकसि। स्त्रीणां पतिगृहादन्यत् स्थानं भ्रातृनिकेतनम् ॥१४॥ रामोऽपि लोकवादेन त्वामत्याक्षीन तु स्वयम्। पश्चात्तापेन सोऽप्यद्य मन्ये त्वमिव कष्टभाक्॥१५।। गवेषयिष्यत्यचिरात् त्वां सोऽपि विरहातुरः । चक्रवाक इवैकाकी ताम्यन् दशरथात्मजः॥१६॥ इत्युक्ता निर्विकारेण तनोमित्यभिधायिनी।सीता रुरोह शिबिकां सद्यस्तदुायिताम्॥१७।। पुण्डरीकपुरं चाऽऽगान्मिथिलामपरामिव। अहर्निशं धर्मशीला चाऽस्थात् तद्दर्शिते गृहे॥१८॥ पाइतश्च रामसेनानीर्गत्वारामाय सोऽवदत् । वने सिंहनिनादाख्ये त्यक्तवानस्मिजानकीम्॥१९॥ मुहुर्मुहुः सा मूर्च्छित्वा चेत्विा च मुहुर्मुहुः । कथञ्चि धैर्यमालम्ब्य वाचिकं चैवमादिशत्॥२०॥ नीतिशास्त्रे स्मृतौ देशे कस्मिन्नाचार ईदृश: । एकपक्षोक्तदोषेण पक्षस्याऽन्यस्य शिक्षणम् ?॥२१॥ सदा विमृश्य कर्तुस्तेऽप्यविमृश्यविधायिता । मन्ये मद्भाग्यदोषेण निर्दोषस्त्वं सदाऽप्यसि॥२२॥ खलोक्त्याऽहं यथा त्यक्ता निर्दोषाऽपि त्वया प्रभो! । तथा मिथ्यादृशां वाचा मा त्याक्षीधर्ममार्हतम्॥२३॥ इत्युक्त्वा मूर्च्छितासीता पतित्वोत्थाय चाऽब्रवीत्। मया विना कथं रामो जीविष्यति? हताऽस्मि हा! ॥२४॥ इत्याकर्ण्य वचोराम: पपात भुवि मूर्छया। सम्भ्रमाल्लक्ष्मणेनैत्य सिषिचे चन्दनाम्भसा॥२५॥ उत्थाय विललापैवं क्वसासीता महासती?। सदा खलानां लोकानां वचसा ही मयोज्झिता॥२६।। अथोचे लक्ष्मण: स्वामिंस्तस्मिन्नद्याऽपिसा वने। महासतीस्वप्रभावत्राता नूनं भविष्यति॥२७॥ गत्वा गवेषयित्वा चस्वयमानीयतां प्रभो! सीता देवी त्वद्विरहान्न हि यावद् विपद्यते॥२८॥ श्रुत्वैवं सह तेनैव सेनान्या खेचरैश्च तैः । रामोऽगाव्योमयानेन तत्राऽरण्येऽतिदारुणे॥२९॥ प्रतिस्थलं प्रतिजलं प्रतिशैलं प्रतिद्रुमम् । रामो गवेषयामास ददर्श न तु जानकीम् ॥३०॥ मन्ये व्याघ्रण सिंहेन श्वापदेनाऽपरेण वा। सीतार्जग्धेति सुचिरं दध्यौ रामोऽतिदुःखितः ॥३१॥ १. आगच्छत् ।। २. स्वरज्ञानवान् ।। ३. स्वनेपथ्य० खं.२, पाता.॥४.आभूषणादि समर्पितवती॥५. विश्वासं कृत्वा॥६. निष्कपटः॥७. धर्मभगिनी।। ८. भ्रातुरेव तवौकसि पाता. ता. ॥ ९. तेनौमि० पाता.; तेनामि० खं.१-२; तेनामे० मु.॥ १०.०स्तदुपयायिताम् पाता. ॥११. सज्ञां प्राप्य ॥१२. शिक्षा ।। १३. मूर्छित: ता. ॥१४. भक्षिता॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org