________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व पतित्वा रामपादेषु बभाषे लक्ष्मणो रुदन् । सीतादेव्या महासत्यास्त्यागोऽयमुचितो न हि॥३०४॥ नाऽतः परं त्वया वाच्यमिति रामेण भाषिते। नीरङ्गीच्छन्नवक्त्रोऽगात सौमित्रि: स्वगृहं रुदन ॥३०५।। कतान्तवदनं रामोऽन्वशात् सीतां वने नय । सम्मेतयात्राव्याजेन तस्याः खल्वेष दोहदः ॥३०६।। सेनानीरपि सम्मेतयात्रायै रामशासनम् । आख्याय सीतामारोप्य स्यन्दने प्राचलद् द्रतम् ।।३०७।। दुर्निमित्तेष्वशकुनेष्वपि सीता रथस्थिता । जगाम दूरमध्वानमार्जवादविशङ्किता ॥३०८॥ गङ्गासागरमुत्तीर्याऽरण्ये सिंहनिनादके । गत्वा कृतान्तवदनस्तस्थौ किञ्चिद् विचिन्तयन् ॥३०९।। साथ म्लानमखं तं च प्रेक्ष्य सीताऽब्रवीदिति । कथमित्थं स्थितोऽसि त्वं सशोक इव दर्मना: ? ||३१०॥ कतान्त: कथमप्यचे दर्वचं वच्म्यहं कथम ? । दुष्करं कृतवांश्चैतत् प्रेष्यभावेन दषितः ।।३११।। राक्षसावाससंवासापवादाल्लोकजन्मनः । भीतेन देवि! रामेण त्याजिताऽसि वनेऽनघे! ॥३१२॥ अपवादे चराख्याते रामं त्वत्त्यजनोद्यतम् । न्यषेधीलक्ष्मणो लोकं प्रति क्रोधारुणेक्षणः ॥३१३।। सिद्धाज्ञया निषिद्धश्च रामेण स रुदन् ययौ । अहं च प्रेषितोऽमुष्मिन् कार्ये पापोऽस्मि देवि! हा! ॥३१४।। अमुष्मिन् श्वापदाकीर्णे मृत्योरेकनिकेतने । जीविष्यसि मया त्यक्ता स्वप्रभावेण केवलम् ॥३१५।। तच्छ्रुत्वा स्यन्दनात् सीता मूर्च्छिता न्यपतद् भुवि । मृतेति बुद्ध्या सेनानी: पापम्मन्यो रुरोद सः ॥३१६।। सीताऽपि वनवातेन कथञ्चित् प्राप चेतनाम् । भूयो भूयोऽप्यमूर्च्छच्च चेतनामाससाद च ॥३१७।। महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा। इतोऽयोध्या कियद्दूरे ? रामस्तिष्ठति कुत्र वा ? ॥३१८॥ सेनानीरभ्यधाद दरेऽयोध्या किं पुच्छयाऽनया? | उग्राज्ञस्य च रामस्य पर्याप्तं देवि! वार्तया ॥३१९।। इति श्रुत्वाऽपि सा रामभक्ता भूयोऽप्यभाषत। भद्र! मद्वाचिकमिदं शंसे रामस्य सर्वथा ।।३२०॥ यदि निर्वादभीतस्त्वं परीक्षां नाऽकृथाः कथम् ? | शङ्कास्थाने हि सर्वोऽपि दिव्यादि लभते जनः ॥३२१।। अनुभोक्ष्ये स्वकर्माणि मन्दभाग्या वनेऽप्यहम् । नाऽनुरूपं त्वकार्षीस्त्वं विवेकस्य कुलस्य च ॥३२२।। यथा खलगिराऽत्याक्षी: स्वामिन्नेकपदेऽपि माम् । तथा मिथ्यादृशां वाचा मा धर्मं जिनभाषितम् ॥३२३।। इत्युक्त्वा मूर्च्छिता भूमौ पतितोत्थाय चाऽभ्यधात् । मया विना कथं रामो जीविष्यति ? हताऽस्मि हा! ॥३२४॥ रामाय स्वस्त्यथाऽऽशंसेराशिषं लक्ष्मणस्य च । शिवास्ते सन्तु पन्थानो वत्स! गच्छोपराघवम् ॥३२५।।
एवंविधेऽपि दयिते विपरीतवृत्तौ यैवंविधा तदियमेव सतीषु धुर्या । सञ्चिन्तयन्निति भृशं प्रणिपत्य मुक्त्वा सीतां कृतान्तवदनो ववले कथञ्चित् ॥३२६।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सप्तमपर्वणि सीतापरित्यागो नामाऽष्टमः सर्गः।।
१. मुखं वस्त्रेण आवृत्य('धुंघट काढीने') इति भाषायाम् ।। २. सम्मेतशिखरयात्रामिषेण ॥ ३. किङ्करभावेन ।। ४. अनुल्लङ्घनीयनिजाज्ञादानेन ॥ ५. हेमचन्द्राचार्य० ला.विना ।। ६. सप्तमे० पाता. ला.॥७. सर्गः समाप्त: पाता. मु. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org