________________
अष्टमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
*त्वद्वियोगभवाद् दुःखाद् दुःखमद्याऽपि मेऽधिकम् । किमसौ दास्यति विधिर्निमित्तं नैतदन्यथा ॥ २७२॥ रामोऽपि तामुवाचैवं देवि ! मा खेदमुद्वह । अवश्यमेव भोक्तव्ये कर्माधीने सुखासुखे ॥ २७३॥ तद् गच्छ मन्दिरे स्वस्मिन् देवानामर्चनं कुरु । प्रयच्छ दानं पात्रेभ्यो धर्मः शरणमापदि ॥ २७४ ॥ सीताऽपि सदनं गत्वा संयमेन महीयसा । अर्हतोऽपूँजयद् दानं प्रददे चाऽर्वेदानवत् ॥ २७५॥ रघुनाथमथाऽऽजग्मू "राजधानीमहत्तराः । यथाभूतपुरीवृत्तकीर्तनैकाधिकारिणः ॥ २७६॥ विजय: सूरदेवश्च मधुमानथ पिङ्गलः । शूलधरः काश्यपश्च कालः क्षेमश्च नामतः ॥ २७७॥ नत्वा रामाग्रतस्तस्थुः कम्पमाना द्रुपत्रवत् । न तु विज्ञपयामासू राजतेजो हि दुस्सहम् ॥ २७८ ॥ तनूचे रामभद्रोऽपि भो भोः ! पुरमहत्तराः ! । अभयं वो ब्रुवाणानामेकान्तहितवादिनाम् ॥ २७९॥ तेष्वाद्यः सर्वसंवित्त्या विजयाख्यो महत्तरः । इति विज्ञपयामास सावष्टम्भः प्रभोगिरा ॥ २८० ॥ स्वामिन्नवश्यविज्ञप्यं यदि विज्ञप्यते न हि । वञ्चितः स्यात् तदा स्वामी, विज्ञप्तं चाऽतिदुःश्रवम् ॥ २८१ ॥ देव! देव्यां प्रवादोऽस्ति घटते दुर्घटोऽपि हि । युक्त्या हि येद् घटामेति श्रद्धेयं तन्मनीषिणा ॥ २८२॥ तथाहि जानकी हृत्वा रावणेन रिरंसुना । एकैव निन्ये तद्वेश्मन्यवात्सीच्च चिरं प्रभो ! ||२८३ || सीता रक्ता विरक्ता वा संवित्या वा प्रसह्य वा । स्त्रीलोलेन दशास्येन नूनं स्याद् भोगदूषिता ॥ २८४ ॥ लोकों हि प्रवदत्येवं प्रवदामो वयं तथा। युक्तियुक्तं प्रवादं तन्मा सहस्व रघूद्वह! ॥ २८५ ॥
1
आजन्मोपार्जितां कीर्तिं निजं कुलमिवाऽमलाम् । प्रवादसहनेन त्वं मा देव! मलिनीकृथाः ||२८६॥ कलङ्कस्याऽतिथीभूतां सीतां निश्चित्य राघवः । सद्योऽभूद् दुःखतूष्णीकः प्रायः प्रेमाऽतिदुस्त्यजम् ॥२८७॥ धैर्यमालम्ब्य काकुत्स्थस्तानुवाच महत्तरान् । साधु व्यज्ञपि युष्माभिर्न भक्ताः क्वाऽप्युपेक्षकाः ॥ २८८॥ न स्त्रीमात्रकृते जातु सहिष्येऽहमिहाऽयशः । इति पद्मः प्रतिज्ञाय विससर्ज महत्तरान् ॥ २८९ ॥ निशायामथ काकुत्स्थः प्रच्छन्नः सदनाद् बहिः । निरगादिति चाऽश्रौषीज्जनवचं पदे पदे ॥ २९०॥ रावणेनाऽपनीतेयं तद्गृहे च चिरं स्थिता । सीताऽऽनीता च रामेण सतीति च स मन्यते ॥ २९९ ॥ नीत रक्तेन तेनेयं नोपभुक्ता कथं भवेत् ? । नाऽदोऽपि व्यमृशद् रामो न रक्तो दोषमीक्षते ॥ २९२॥ इत्यादिसीतानिर्वादं शृण्वन् रामो गृहं ययौ । भूयोऽपि तच्छ्रवणार्थमादिदेश चरान् वरान् ॥२९३॥ एवं च दध्यौ काकुत्स्थो मया यस्याः कृते कृतः । रक्षः कुलक्षयो रौद्रस्तस्याः किमिदमागतम् ? || २९४ ॥ महासती सीता स्त्रीलोलः स च रावणः । कुलं च मे निष्कलङ्क हा रामः किं करोत्वसौ ? ॥ २९५ ॥ द्राक् चरास्ते बहिः श्रुत्वा सीतानिर्वादमब्रुवन् । रामस्य सानुज- कपि- रक्षोराजस्य सुस्फुटम् ॥ २९६ ॥ क्रुद्धोऽथ लक्ष्मणोऽवोचद् दोषान् सङ्कल्प्य हेतुभिः । ये निन्दन्ति सतीं सीतां तेषामेषोऽन्तकोऽस्म्यहम् ॥ २९७॥ रामोऽप्यूचे मम पुरा व्यज्ञपीदं महत्तरैः । स्वयं च शुश्रुवे तस्य संवादोऽयं चरैः कृतः ॥ २९८ ॥ श्रुत्वा चाऽमी समायाताः प्रत्यक्षं वोऽपि भाषिताः । सीतात्यागे माऽपवादीत् सीतास्वीकारवज्जनः ॥ २९९॥ ऊचे च लक्ष्मणो लोकगिरा सीतां स्म मा त्यज । यथा तथाऽपवदिता यदबद्धमुखो जनः || ३००|| लोकः सौराज्यसुस्थोऽपि राजदोषपरो भवेत् । शिक्षणीयो न चेत् तत्रोपेक्षणीयः स भूभुजाम् ||३०१ || रामोऽप्यूचे सत्यमेतदीदृग् लोकः सदाऽपि हि । सर्वलोकविरुद्धं तु त्याज्यमेव यशस्विनीं ॥ ३०२ ॥ इत्युक्त्वोवाच सेनान्यं कृतान्तवदनं बैलः । अरण्ये त्यज्यतां क्वाऽपि सीतेयं गर्भवत्यपि ॥३०३॥
२२१
१. त्वद्वियोगभवाद्दुःखमद्याऽपि मेऽधिकं पुनः पाता. ॥। २. सीता गत्वा च सदनं खं. १ ; सीताऽपि गत्वा सदनं खं. २, ता. ला.; सीता गत्वाऽपि सदनं पाता । ३. ०ऽपूपुजद्० ला ॥ ४. अवदानं शुद्धं कर्म ॥ ५. राजधानी अयोध्या, तस्य महत्तराः -महाजनः । ६. नगर्या यथार्थवृत्तान्तकथनेऽधिकृता: ।। ७. वृक्षपर्णवत् ॥ ८. सर्वव्यतिकरज्ञातृत्वेन आद्यः ।। ९. यद् घटते ॥ १०. सीतायाः अनुमत्यात्मकबुद्ध्या ॥ ११. बलात् ।। १२. लोकोऽपि पाता. विना ।। १३. दुःखेन मौनावलम्बी ॥ १४. ०ज्जनवादं मु. रस्वीपा ॥। १५. रावणेनोप० खं. २ ।। १६. सीतारक्तेन मु. ॥। १७. न एतदपीत्यर्थः ॥ १८. गृहे पाता. विना ।। १९. गृहे खं. २ ॥ २०. अनुज (लक्ष्मण) - कपि (सुग्रीव) - रक्षो (बिभीषण) युक्तस्य ।। २१. सङ्कल्प० खं. १, पाता. ॥ २२. चाऽपि भाषिताः खं. १, मु. रस्वीपा.; च स्वभाषिताः ला ॥ २३. यथा सीतायाः स्वीकारे कृते जनोऽपवदितुं निन्दितुं लग्नः, तथा लोकापवादं श्रुत्वैव सीतायास्त्यागे कृतेऽपि लोकोऽपवदिष्यतीत्याशङ्का सम्भवति, तन्निरासाय इमे चराः सीतापवादं श्रुत्वाऽऽगताः - वः - युष्माकं च प्रत्यक्षं ते भाषिताः यथाश्रुतं निवेदिता मया, अतः सीतात्यागेऽपि लोकापवादो भविष्यतीत्याशङ्का न स्थाने इत्याशयोऽत्र सम्भाव्यते ॥ २४. यशस्विनः मु. ॥ २५. रामः ॥
Jain Education International
www.jainelibrary.org