________________
२२० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व इत्युक्त्वा ते समुत्पत्य ययुः सप्तर्षयोऽन्यत: । शत्रुघ्नोऽपि तथा चक्रे लोकश्चाऽभून्निरामयः ॥२३७।। तेषां सप्तऋषीणां च प्रतिमा रत्ननिर्मिताः । स चक्रे मथुरापुर्यां कंकुप्सु चतसृष्वपि ॥२३८।। पाइतश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणे। पुरे रत्नपुरे रत्नरथो राजा तदाऽभवत् ॥२३९।। तस्य चन्द्रमुखीकुक्षिजन्मा नाम्ना मनोरमा। उद्यौवना कन्यकाऽभूदु रूपेणाऽपि मनोरमा ॥२४०।। दातव्या कस्य कन्येयमिति मन्त्रपरे नृपे । उपेत्य नारदोऽवोचल्लक्ष्मणस्येयमर्हति ।।२४१।। पुत्रा रत्नरथस्याऽथ कुपिता गोत्रवैरत: । भृत्यान् भ्रूसञ्ज्ञयाऽऽदिक्षन् विटोऽयं कुट्यतामिति ।।२४२।। उत्तिष्ठतो जिघांसूंस्तान् धीमान् विज्ञाय नारदः। समुत्पत्यपंतत्रीव प्रययावुपलक्ष्मणम् ॥२४३॥ लिखित्वा तां पटे कन्यां दर्शयामास नारदः । लक्ष्मणाय स्ववृत्तान्तं तं चाऽऽचख्यावशेषतः ॥२४४॥ तद्रूपदर्शनाज्जातानुरागो लक्ष्मण: क्षणात् । समं रामेण तत्राऽऽगाद् रक्षो-विद्याधरैर्वृतः ।।२४५।। जित: सौमित्रिणा चाऽऽशु तत्र रत्नरथो ददौ । रामाय कन्यां श्रीदामां लक्ष्मणाय मनोरमाम् ॥२४६।। वैताढ्यदक्षिणश्रेणिं जित्वा सर्वां च राघवौ । भूयोऽयोध्यामीयतुः क्ष्मां पालयन्तौ च तस्थतुः ॥२४७।। षोडशान्त:पुरवधूसहस्रं लक्ष्मणस्य तु । महिष्योऽष्टाऽभवंस्तत्र विशल्या रूपवत्यपि ॥२४८।। वनमाला चकल्याणमालिका रत्नमालिका। जितपद्माऽभयवती चाऽष्टमा त मनोरमा॥२४९||यग्मम। सूनवो द्वे शते सार्धे तेष्वष्ट महिषीभवाः । श्रीधरोऽभूदु विशल्याभूः पृथिवीतिलकः पुनः ॥२५०।। रूपवत्यङ्गजो वनमालाजोऽर्जुनसञ्जकः । श्रीकेशी जितपद्याया: कल्याणायास्तु मङ्गलः ॥२५॥ सुपार्श्वकीर्तिस्तु मनोरमाया विमल: पुनः । रतिमालाभूरभयवतीभूः सत्यकीर्तिकः ॥२५२।। रामस्याऽऽसन् महादेव्यश्चतम्रस्तत्र मैथिली । प्रभावती रतिनिभा श्रीदामा तु चतुर्थिका ॥२५३॥ सीतैकदा ऋतुस्नाता निशान्ते स्वप्नमैक्षत । च्युतौ विमानाच्छरभौ प्रविशन्तौ निजानने ॥२५४।। व्याख्याद् रामस्तयाऽऽख्याते वीरौ ते भाविनौ सुतौ । च्युतौ विमानाच्छरभौ यत् तु तन्न मुदे मम ॥२५५।। धर्मस्य ते च माहात्म्यात् सर्वं भावि शुभं प्रभो! । इत्यूचे जानकी देवी तदा गर्भ बभार च ॥२५६।। पासीता प्राणप्रियाऽग्रेऽपि प्राप्तगर्भा विशेषतः । बभूव रामचन्द्रस्य लोचनानन्दचन्द्रिका ॥२५७।। ईर्ष्यालव: सपत्न्यस्तां मायाविन्योऽब्रुवन्नदः । कीदृग्रूपो रावणोऽभूत् ? तं लिखित्वा प्रदर्शय ॥२५८।। सीताऽप्यूचे मया दृष्टः सर्वाङ्गं न हि रावण: । दृष्टौ तच्चरणावेव कथं नाम लिखामि तम् ? ॥२५९।। तत्पादावप्यालिख त्वं कौतुकं नस्तदीक्षणे । इत्युक्ता प्रकृतिऋजुर्दशास्यांही लिलेख सा ।।२६०।। स्थाने तत्राऽऽगमद् रामो बभाषे ताभिरप्यदः । रावणस्य स्मरत्यद्याऽप्यसौ सीता तव प्रिया ॥२६१|| सीतास्वहस्तलिखितं रावणस्य क्रमद्वयम् । पश्यैतन्नाथ! जानीहि सीता तस्यैव नाथते ॥२६२॥ दृष्ट्वाऽपि तत् तथा रामो गम्भीरत्वान्महामनाः। तथैव ववते सीतादेव्यामनुपलक्षितः ॥२६३।। सीतादोषपदं तच्च देव्यो दासीजनैर्निजैः । जने प्राकाशयन् प्राय: प्रवादा लोकनिर्मिताः ॥२६४॥ वसन्तेऽथाऽब्रवीद् रामः सीते! त्वां गर्भखेदिताम् । विनोदयितुकामेव मधुलक्ष्मीरिहाऽऽययौ ॥२६५।। पुष्पन्ति बकुलप्राया वृक्षाः स्त्रीदत्तदोहदैः । रन्तुं व्रजामो महेन्द्रोदयोद्यानं ततोऽधुना ॥२६६॥ सीताऽप्यूचे दोहदो मे देवतार्चनलक्षण: । तं पूरयोद्यानभवैर्नानापुष्पैः सुगन्धिभिः ।।२६७।। रामः सद्योऽपि देवानां पूजां वर्यामकारयत् । ययौ महेन्द्रोदये च ससीत: सपरिच्छदः ॥२६८।। विचित्रनांगरक्रीडं तत्राऽपश्यन्मधूत्सवम् । अर्हत्पूजोत्सवमयं सुखासीनो रघूद्वहः ॥२६९।। पाअत्राऽन्तरे च सीताया दक्षिणं चक्षुरस्फुरत् । आचचक्षे च सद्योऽपि साशङ्का राघवाय सा ॥२७०।। नेदंसाध्वितिरामेणाऽऽख्यातेसीताऽब्रवीदिति। किंरक्षोद्वीपवासान्मे सन्तुष्टोऽद्याऽपिनो विधि: ? ||२७१।। १. दिशासु ॥२. मन्त्रपरो नृपः पाता. ॥ ३. पुत्री खं.२, रस्वीपा. मु.॥४.०दिक्षद् विटो० खं.१-२, मु. रस्वीपा. ॥५. हन्तुमिच्छून् ॥ ६. पक्षीव ।। ७. लक्ष्मणस्तदा ता. ।। ८. रतिमालिका ता. ।। ९. ०ऽभयावती पाता. ॥१०. वनमाला० ता. ॥११. अष्टापदमृगौ॥१२. प्रकृतित्रज्वी दशा० मु.;
सरलस्वभावा॥१३. रावणमेव वाञ्छतीत्यर्थः ।। १४. पूर्ववत् ॥१५. प्रायेणाऽपवादा लोकैरेव निर्मिता भवन्ति, न तु वास्तविकाः ।। १६. वसन्तर्तुः ।। १७. Jain Educatio पुष्प्यन्ति पाता. ।। १८. माहेन्द्रो० पाता. ॥१९. पूजाचर्या० मु. २० नगर मु. नागरी० पाता. ॥
www.jainelibrary.org