________________
अष्टम: सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। कौशाम्ब्यामचलोऽथाऽऽगात् तत्र सिंहगुरोः पुरः । इन्द्रदत्तनृपं धन्वाऽभ्यस्यन्तं स उदेक्षत॥२०३॥ सिंहेन्द्रदत्तयो: सोऽपि धानष्कत्वमदर्शयत । तस्मै दत्तामिन्द्रदत्तोऽदत्त पत्री भवा सह ॥२०४॥ सोऽसाधयज्जातबलो देशाननादिकांस्ततः । मथुरां चाऽन्यदाऽगच्छद् युयुधे चाऽग्रजैः सह ॥२०५।। भानुप्रभादीन् स भ्रातॄन् बद्ध्वाऽष्टावपि चाऽग्रहीत् । तन्मुक्त्यै मन्त्रिण: प्रैषीच्चन्द्रभद्रोऽचलान्तिके ॥२०६॥ आख्यत् तेषां स्ववृत्तान्तमचलस्तेऽपि मन्त्रिण: । विज्ञाय गत्वा चाऽऽचख्युश्चन्द्रभद्राय सत्वरम्॥२०७॥ अचलं चन्द्रभद्रोऽपि हृष्टः पुर्यामवीविशत् । क्रमेण निजराज्ये तं लघीयांसमपि न्यधात् ॥२०८।। पित्रा निर्वास्यमानांस्तान् भ्रातॄन् भानुप्रभादिकान् । कथञ्चिदचलोऽरक्षच्चक्रे चाऽदृष्टसेवकान् ॥२०९॥ अन्यदा नटरङ्गस्थेनाऽङ्को दृष्टोऽचलेन सः । हन्यमान: प्रतीहारैरानायि च निजान्तिके ॥२१०॥ तस्मै तज्जन्मभूमिं तां श्रावस्तिमचलो ददौ । तौ द्वौ सम्भूय चक्राते राज्यमद्वैतसौहृदौ ॥२११।। तावन्यदा प्राव्रजतां समुद्राचार्यसन्निधौ । मृत्वा कालेन चाऽभूतां ब्रह्मलोके सुरोत्तमौ ॥२१२।। च्युत्वा ततोऽचलजीव: शत्रुघ्नोऽभूत् तवाऽनुजः । प्राग्जन्ममोहनीयेन ततोऽसौ मथुराग्रही ॥२१३।। च्युत्वा ततोऽङ्कजीवोऽपि सेनापतिरयं तव । कृतान्तवदनो नाम समजायत राघव! ॥२१४॥ गइतश्च श्रीनन्दनस्य प्रभापुरपुरेशितुः । भार्यायां धारणीनाम्न्यां सप्ताऽभूवन् क्रमात् सुताः ॥२१५।। सुरनन्दः श्रीनन्दः श्रीतिलकः सर्वसुन्दरः । जयन्तश्चामरश्चाऽपि जयमित्रश्च सप्तमः ॥२१६।। मासजातं सुतं राज्ये न्यस्य श्रीनन्दनोऽन्यदा। गुरोः प्रीतिकरस्याऽन्ते प्रावाजीत तैः सुतै: सह ॥२१७॥ श्रीनन्दनो ययौ मोक्षं सुरनन्दादयस्तु ते । सप्ताऽप्यासंस्तप:शक्त्या जङ्घाचारणलब्धयः ॥२१८॥ विहरन्तः पुरी जग्मुर्मथुरां ते महर्षयः । प्रावृट् चाऽभूत् तदा तस्थुरधिशैलगुहागृहम् ।।२१९॥ चक्रुः षष्ठाष्टमादीनि ते तपांसि सदाऽपि हि । उत्पत्य दूरदेशेषु पारणं चक्रिरे पुनः ॥२२०॥ भूयोऽपि मथुराशैलगुहायां तस्थुरेत्य च । तत्प्रभावार्चमरभूर्व्याधिस्तत्र क्षयं ययौ ।।२२१॥ पारणायाऽन्यदोपेत्याऽयोध्यायां ते ययुः पुरि । अर्हद्दत्तश्रेष्ठिनश्च भिक्षार्थं प्राविशन् गृहे ॥२२२।। सावज्ञं तान् स वन्दित्वा दध्यौ श्रेष्ठीति के द्यमी ? । नेहत्या: साधुवेषास्तद् वर्षास्वपि विहारिणः ॥२२३॥ पृच्छामि किममून् ? यद् वा पाखण्डैर्भाषितैरलम् । तस्यैवं ध्यायतस्ते तु तद्वध्वा प्रतिलम्भिताः ॥२२४॥ आचार्यस्य धुतेर्जग्मुर्वसतौ ते महर्षयः । अभ्युत्थाय द्युतिनाऽपि वन्दितास्ते सगौरवम् ॥२२५।। अकालचारिण इति तत्साधुभिरवन्दिताः । दत्तासनास्ते द्युतिना तत्र पारणकं व्यधुः ॥२२६॥ आयाता मथुरापुर्या यास्यामस्तत्र सम्प्रति । इत्याख्याय समुत्पत्य स्वं स्थानं ते पुनर्ययुः ॥२२७॥ तेषां जवाचारणानां गुणस्तोत्रं द्युतिय॑धात् । तत्साधवः कृतावज्ञा: पश्चात्तापं प्रचक्रिरे ॥२२८॥ तच्छ्रुत्वा श्रावकः सोऽर्हद्दत्तोऽप्यनुशयं व्यधात् । कार्तिकश्वेतसप्तम्यां ययौ च मथुरापुरीम् ।।२२९॥ अर्चित्वा तत्र चैत्यानि सप्तर्षीस्तानवन्दत । क्षमयामास चाऽवज्ञादोष शंसन् स्वयं कृतम् ॥२३०॥ सप्तर्षीणां प्रभावेण शान्तरोगं स्वमण्डलम् । विज्ञायेयाय कार्तिक्यां शत्रुघ्नोऽपि हि तां पुरीम् ॥२३१।। तान्नत्वोवाच शत्रुघ्नो भिक्षा मे गृह्यतां गृहे । प्रत्यूचुस्तेऽपि साधूनां राजपिण्डं न कल्पते ॥२३२।। भूयोऽप्युवाच शत्रुघ्नो यूयं मय्युपकारिणः । मद्देशे दैविको रोग: शान्तो युष्मत्प्रभावतः ॥२३३।। तल्लोकानुग्रहायेह किञ्चिदद्याऽपि तिष्ठत । सर्वा प्रवृत्तिर्भवतां ह्यन्योपकृतिहेतवे ॥२३४॥ तेऽप्यूचिरे गत: प्रावृट्कालोऽयं तीर्थयात्रया । अधुना विहरिष्यामो नैकत्र मुनयः स्थिराः ॥२३५।। गृहे गृहे त्वं गहिणां कारयेर्बिम्बमार्हतम् । पुर्यामस्यां ततो जातु व्याधिर्भावी न कस्यचित् ॥२३६।। १.०म्यसन्तं ता. ॥ २. समुदैवत खं.१विना ॥ ३. दत्तानाम्नीम् ॥ ४. राज्येन ॥५. मन्त्रिणो खं.१-२, पाता.; मन्त्रिणोऽप्रै० रसंपा.; मन्त्रिणां प्रै० मु.॥ ६.०च्चन्द्रप्रभो० ता. ॥७. ०श्चन्द्रप्रभाय ता. ॥ ८. सेवकविहीनान् गुप्तचरकलितान् वा ॥९. २१४श्लोकानन्तरं "इत्युक्त्वा मुनिवौं तौ, ततोऽन्यत्र विजहतुः। रामचन्द्रादय: सर्वे, स्वं स्वं स्थानं मुदा ययुः॥” इतिभावार्थकः श्लोकोऽपेक्षित: इति प्रतिभाति । (इति टिप्पणी
पूर्वमुद्रितप्रतौ)॥ १०. ०श्चमर० ता. रसंपा. ॥ ११. अष्टमं सुतमित्यर्थः ॥१२. चमरेन्द्रकृतः ॥ १३. त्वमी ता. ॥ १४. इह-भरतभूमौ भवाः ॥ १५. .....द्युतिनामकजैनाचार्यस्य ।। १६. धुते: साधुभिः ।। १७. पश्चात्तापम् ।।१८. मथुरां मु.॥१९.०पिण्डो ला.विना ॥ २०.युष्मत्प्रसादतः ता.॥ www.jainelibrary.org
"इत्युक्त्वा मुनियो
त
र
ता. संपा. ॥ ११. अष्टमं सुतमित्यर्थः ॥ १.१२. पिण्डो ला.विना ।। २०. युष्मत्प्रस