________________
२१८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व तत: प्रतस्थे शत्रुघ्न: प्रयाणैश्च निरन्तरैः । ययावुप मधूपघ्नम'वात्सीच्च नदीतटे॥१६७॥ तत्राऽऽदौ प्रेषिताश्चारास्तस्याऽऽख्यन्नेत्य यन्मधु: । गत: कुबेरोद्यानेऽस्ति मथुरापूर्वदिकस्थिते ॥१६८।। पत्न्या जयन्त्या सार्धं स तत्र क्रीडापरोऽधुना । अस्त्रागारे च तच्छूलं कालोऽयं तस्य योधने ॥१६९।। ततश्छलज्ञ: शत्रुघ्नः प्राविशन्मथुरा निशि। प्रविशन्तं मधु तत्र रुरोध च बलैः स्वयम् ॥१७०॥ जघान समरे चाऽऽदौ लवणं मधुनन्दनम्। रामायणरणारम्भे खरं नारायणो यथा ॥१७१।। मधुः सुतवधऋद्धो धावित्वा स्फालयन् धनुः । युयुधे दाशरथिना रथिना रथिनां वरः ॥१७२।। अन्योऽन्यमस्त्रैरस्त्राणि च्छिन्दानौ तावुभावपि । शस्त्राशस्त्रि प्रचक्राते चिरं देवासुराविव ॥१७३।। धनुः समुद्रावर्तं चाऽग्निमुखांश्च शिलीमुखान् । सौमित्रिदत्तानस्मार्षीत् तुर्यो दशरथात्मजः ॥१७४।। तत्स्मृतोपनतं धन्वाऽधिज्यीकृत्याऽग्निपत्रिभिः । तैर्जघान मधुं वीर: शार्दूलमिव लुब्धकः ॥१७५।। तद्वाणघातविधुरो मधुरेवमचिन्तयत् । शूलं पाणौ न मेऽभ्यागान्न हतो लक्ष्मणानुजः ॥१७६।। गतं मम मुधा जन्म जिनेन्द्रो न यदर्चितः । कारितानि न चैत्यानि दत्तं पात्रेषु नो मया॥१७७॥ इति ध्यायन्नात्तदीक्षो नमस्कारपरायणः । मृत्वा सनत्कुमारेऽभून्मधुर्देवो महर्द्धिकः ॥१७८।। मधुदेहस्योपरिष्टात् तद्विमानसुरा व्यधुः । पुष्पवृष्टिं जुघुषुश्च मधुर्देवो जयत्विति ॥१७९।। तच्छूलं देवतारूपमुपेत्य चमरान्तिके । शत्रुघ्नान्मधुनिधनं छलोत्पन्नं शशंस च ॥१८०॥ ततो मित्रवधामर्षाच्चमर: प्राचलत् स्वयम् । पृष्टः क्व यासीति तार्क्ष्यस्वामिना वेणुदारिणा ॥१८१॥ हन्तुं स्वमित्रहन्तारं शत्रुघ्नं मथुरास्थितम् । यास्यामीति तदाख्याते वेणुदार्यवदत् पुनः ॥१८२।। धरणेन्द्राद् रावणेन या लब्धा साऽपि निर्जिता। शक्तिः सौमित्रिणा पुण्यप्रकृष्टेनाऽर्धचक्रिणा ॥१८३।। रावणोऽपि हतस्तेन तत्पत्तिस्तु कियान् मधुः ? । शत्रुघ्नो लक्ष्मणादेशादवधीत् प्रधने मधुम् ॥१८४।। उवाच चमरेन्द्रो यच्छक्तिः सौमित्रिणा जिता । कन्यकाया विशल्याया: प्रभावेण तदा खलु ॥१८५।। तस्याश्चाऽब्रह्मचारिण्या: स प्रभावो गतोऽधुना। किं वा तेऽनेन ? यास्यामि तं हन्तुं मित्रघातकम् ।।१८६॥ इत्युक्त्वा चमरो रोषाच्छत्रुघ्नविषयं ययौ । सौराज्यसुस्थितं तत्र सर्वं लोकं ददर्श च ॥१८७॥ प्राक् प्रजोपद्रवेणोपद्रवाम्येतं मधुद्विषम् । इति बुद्ध्या व्यधाद् व्याधीन् विविधांस्तत्प्रजासु सः ॥१८८।। कुलदेवतया तच्च ज्ञापितो व्याधिकारणम् । शत्रुघ्नोऽगादयोध्यायां राम-लक्ष्मणसन्निधौ ॥१८९।। तौ देशभूषण-कुलभूषणावागतौ तदा । राम-लक्ष्मण-शत्रुघ्ना उपेत्य च ववन्दिरे ॥१९०॥ आग्रही हेतुना केन शत्रुघ्नो मथुरां प्रति ? । इति रामेण पृष्टः सन् बभाषे देशभूषणः ॥१९१।। शत्रुघ्नजीव उत्पद्य मथुरायामनेकशः । विप्रोऽभूच्छीधरो नाम रूपवान् साधुसेवकः ।।१९२।। सोऽन्यदाऽध्वनि यान् राजमहिष्या ललिताख्यया । दृष्टो रागादथाऽऽनायि स्वान्तिके रेन्तुकामया ॥१९३॥ आगाच्चाऽतर्कितो राजा क्षुभिता ललिताऽपि च । चौरोऽसाविति पूच्चक्रे राज्ञाऽधारि स तु द्विजः ॥१९४॥ राजादेशाद् वधार्थं स वधस्थानमनीयत । प्रतिज्ञातव्रतोऽमोचि कल्याणमुनिना ततः ॥१९५।। विमुक्तः प्राव्रजत् सोऽपि तपस्तप्त्वा दिवं ययौ । च्युत्वाऽभून्मथुरापुर्यां चन्द्रभद्रनृपात्मजः ॥१९६।। स काञ्चनप्रभाराज्ञीकुक्षिभूरचलाभिधः । अत्यन्तवल्लभश्चाऽऽसीच्चन्द्रभद्रस्य भूपते: ॥१९७।।। भानुप्रभाद्यैः सापत्नैः सोऽचलोऽष्टभिरग्रजैः । व्यापादयितुमारेभे राजाऽयं मा स्म भूदिति ॥१९८।। तन्मन्त्रे मन्त्रिणाऽऽख्याते नंष्ट्वाऽगादचलोऽन्यत: । भ्रमंश्चाऽविध्यत वने कण्टकेन गरीयसा ॥१९९।। स क्रन्दन् पथि दृष्टश्च पुंसा श्रावस्तिवासिना । पितृनिर्वासितेनाऽङ्कनाम्नधो भारधारिणा ॥२०॥ काष्ठभारं विमुच्याऽकोऽपनिन्ये तस्य कण्टकम् । हृष्टः स कण्टकं दत्त्वोवाचाऽङ्क साधु भोः! कृतम् ।।२०१॥ अचलं मथुरापुर्यां त्वं शृणोषि यदा नृपम् । तदा तत्र समागच्छेः परमो ह्युपकार्यसि ॥२०२॥ १. मधोरुपघ्न:-आश्रयः(मथुरा), तत्समीपम् ।। २. ०मावात्सीच्च रसंपा. ॥३. दिक्पति: ता. ।। ४. ऽस्फालयद् खं.१॥ ५. अग्निशरैः ।। ६. व्याधः ।।
७. गृहीतदीक्षो भावचारित्रवानित्यर्थः ।। ८. वेणुदारीत्यभिधेन सुपर्णकुमारनिकायेन्द्रेण ॥९. युद्धे ।। १०. गच्छन् ; यन् राज. मु.॥११.०काम्यया का. मो. _Jain Education मु. खं.२ ॥ १२. सपत्नीपुत्रैः ॥ १३. काष्ठभारवाहकेन ।। For Private & Personal use Only
www.jainelibrary.org