________________
___२१७
अष्टमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। विनोदभार्या शाखाख्या दत्तेन ब्रह्मणा समम् । तत्राऽऽगात् कृतसङ्केता विनोदोऽपि हि तामनु ॥१३१।। सा दत्तबुद्ध्या रमणमुत्थाप्याऽरमत् तदा । विनोदोऽप्यसिमाकृष्य तं जघानाऽविशङ्कितः ॥१३२॥ शाखया रमणच्छुर्या विनोदोऽपि हतस्तदा । चिरं भ्रान्त्वा भवं चाऽभूदिभ्यपुत्रो धनाभिधः ।।१३३॥ रमणोऽपि भवं भ्रान्त्वा धनस्यैवाऽभवत् सुतः । लक्ष्मीकुक्षिसमुद्भूतो भूषणो नामधेयत: ॥१३४।। द्वात्रिंशदिभ्यकन्या: स धनोक्तः परिणीतवान् । ताभि: क्रीडेन् सोऽन्यदाऽस्थान्निशि स्वगृहमूर्धनि ॥१३५।। तत्र यामे निशस्तुर्ये श्रीधरस्य महामुनेः । उत्पन्ने केवलेऽद्राक्षीद् देवैरारब्धमुत्सवम् ॥१३६॥ जातधर्मपरीणाम: सद्योऽप्युत्तीर्य वेश्मत: । तं वन्दितुमचालीच्च मार्गे दष्टश्च सोऽहिना ॥१३७।। पशुभेन परिणामेन भ्रान्त्वा शुभगतीश्चिरम् । जम्बूद्वीपेऽत्र विदेहेऽपरे रत्नपुरे पुरे ॥१३८।। महिष्यां हरिणीनाम्न्यामचलाख्यस्य चक्रिण: । प्रियदर्शननामाऽभूत् स सूनुर्धर्मतत्परः ॥१३९।। स प्रविजिषुः पित्रनुरोधात् परिणीतवान् । त्रीणि कन्यासहस्राणि संविग्नोऽस्थात् तथाऽपि हि ॥१४०॥ चतःषष्टिसहस्राणि वर्षाणां स तपः परम् । चरित्वा गृहवासेऽपि ब्रह्मलोके सुरोऽभवत् ॥१४१॥ पभ्रान्त्वा धनोऽपि संसारं स पोतनपुरेऽभवत् । शकुना-ऽग्निमुखब्रह्मपत्न्यां मृदुमतिः सुतः ।।१४२।। स पित्रा दुर्विनीतत्वाद् गृहानिर्वासितो भ्रमन् । धूर्तः सर्वकलाकल्पो भूत्वा भूयोऽप्यगाद् गृहम् ॥१४३।। सदा दिदेवं द्यूतेन न त्वजीयत केनचित् । दिने दिने देवकेभ्यो भूयिष्ठमजयद् धनम् ॥१४४॥ वसन्तसेनया सार्धं भुङ्क्त्वा भोगान् स वेश्यया। अन्ते गृहीतश्रामण्यो ब्रह्मलोके सुरोऽभवत् ॥१४५।। च्युत्वा पूर्वभवमायादोषाद् वैताढ्यपर्वते । अयं बभूव भुवनालङ्कारो नाम कुञ्जरः ॥१४६।। प्रियदर्शनजीवोऽपि ब्रह्मलोकात् परिच्युतः । बभूव भवतो भ्राता भरतोऽयं महाभुजः ॥१४७।। भरतालोकनाजातजातिस्मृतिरसौ गजः । सद्यो गतमदो जज्ञे विवेके न हि रौद्रता ॥१४८।। पाइति पूर्वभवान् श्रुत्वा विरक्तो भरतोऽधिकम् । व्रतं राजसहस्रेणाऽग्रहीन्मोक्षमियाय च ॥१४९॥ सहस्रं तेऽपि राजानः पालयित्वा चिरं व्रतम् । नानालब्धिजुषो भूत्वाऽनुरूपं पदमासदन् ॥१५०॥ कुञ्जर: सोऽपि वैराग्याद् विधाय विविधं तपः । प्रपन्नानशनो मृत्वा ब्रह्मलोके सुरोऽभवत् ॥१५१।। व्रतं भरतमाताऽपि कैकेयी समुपाददे । पालयित्वा निष्कलङ्क प्रपेदे पदमव्ययम् ॥१५२॥ भरते च प्रव्रजिते भूपा भूचर-खेचरा: । अर्थयाञ्चक्रिरे राममभिषेकाय भक्तित: ॥१५३॥ लक्ष्मणो वासुदेवोऽयं भवद्भिरभिषिच्यताम् । तानेवमादिशद् रामस्ते तथैवाऽऽशु चक्रिरे ॥१५४॥ बलदेवत्वाऽभिषेकं रामभद्रस्य च व्यधुः । राज्यं द्वावप्यपातां चाऽष्टमौ तौ बल-शाङ्गिणौ ॥१५५।। पद्मो बिभीषणायाऽदाद् रक्षोद्वीपं क्रमागतम् । सुग्रीवाय कपिद्वीपं श्रीपुरं तु हनूमते॥१५६॥ विराधाय तु पाताललङ्कामृक्षपुरं पुन: । नीलाय प्रतिसूर्याय पुरं हनुपुरं पुनः ॥१५७॥ देवोपगीतनगरं तद् रत्नजटिने पुन: । भामण्डलाय वैताढ्ये नगरं रथनूपुरम् ॥१५८।। अन्येभ्योऽपि प्रदायैवं रामः शत्रुघ्नमभ्यधात् । यस्तुभ्यं रोचते वत्स! तं देशीररीकुरु ॥१५९।। मथुरां मे प्रयच्छेति शत्रुघ्नेनाऽर्थित: पुन: । रामो जगाद दुःसाधा सा वत्स! मथुरा पुरी ॥१६०॥ तत्र राज्ञो मधो: शूलं चमरेण पुराऽर्पितम् । दूरात् परबलं सर्वं निहत्याऽभ्येति तत्करे ॥१६१॥ शत्रुघ्नोऽप्येवमवदद् देव! रक्ष:कुलान्तक! । तवाऽस्मि नन्वहं भ्राता त्राता कस्तस्य मधुधि ? ॥१६२॥ प्रयच्छ मथुरां मह्यं स्वयमेव मधोरहम् । प्रतीकारं करिष्यामि व्याधेरिव भिषग्वरः ॥१६३॥ शत्रुघ्नमत्याग्रहिणं ज्ञात्वा रामोऽन्वंशादिति । अपशूल: प्रमत्तश्च योधनीयो मधुस्त्वया ॥१६४॥ अनुशिष्येत्यदाद् रामस्तूणावक्षय्यसायकौ । कृतान्तवदनं नाम सेनान्यं च सहाऽदिशत् ।।१६५।। शिलीमखानग्निमखानर्णवावर्तधन्व च। लक्ष्मणोऽपि ददौ तस्मायाशंसन् विजयं परम्॥१६६॥ १. लक्ष्मणो खं.१।। २. क्रीडन्नन्यदा० ता.विना ॥ ३. सद्योऽत्यु० मु. रस्वीपा. ॥४. विदेहे पुरे मु. रस्वीपा. ॥५. शकुना चाऽसौ अग्निमुखब्रह्मण: पत्नी चेति समासः, तस्याम् ।। ६. ०ऽभ्रमत् ला.विना ।।७. सर्वकलाविद् ।। ८. चिक्रीड ।। ९. द्यूतकारेभ्यः ।।१०. भरतो भ्राता भवतो. मु.॥११. च मु.।। १२. स्वीकुरु ।। १३. दुःसाध्या मु. ।। १४. ०ऽब्रवीदिति पाता. ॥ १५. शूलरहितः ।। १६. अक्षय्या: सायका-इषवो यत्र तौ ॥ १७. बाणान् ॥
www.jainelibrary.org