________________
कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं
'स्वेच्छादुर्ललितैर्मे चाऽऽर्यस्य वैराणि जज्ञिरे। सीतापहारो यन्मूलः किमन्यद् देवि! गद्यते ? ॥९५॥ परन्तु युष्मदाशीभिर्लङ्घित्वा वैरसागरम्। मातः! सपरिवारोऽपि क्षेमेणाऽऽर्य इहाऽऽययौ ॥९६॥ अथोत्सवमयोध्यायां भरतोऽकारयन्मुदा । पुरतो रामपादानां पत्तिमात्रत्वमाचरन् ॥९७॥ " अन्यदा रामभद्रं तु प्रणम्य भरतोऽभ्यधात् । आर्य! त्वदाज्ञया राज्यमियत्कालं मया धृतम् ॥९८॥ प्रावजिष्यं तदैवाऽहं तातपादैः सह प्रभो! । अर्गला नाऽभविष्यच्चेदार्याज्ञा राज्यपालने || ९९|| मां व्रतायाऽनुमन्यस्व स्वयं राज्यं प्रतीच्छ च । भवोद्विग्नस्त्वयि प्राप्ते न ह्यतः स्थातुमुत्सहे ॥१००॥ रामोऽप्युदश्रुस्तं स्माऽऽह किमेवं वत्स ! भाषसे ? । कुरु राज्यं त्वमेवेह त्वय्युत्का वयमागताः ॥ १०१ ॥ त्यजन्नः सह राज्येन भूयस्त्वद्विरहव्यथाम् । किं दत्से ? वत्स! तत् तिष्ठ कुर्वाज्ञां मम पूर्ववत् ॥ १०२ ॥ इत्याग्रहपरं रामं ज्ञात्वा नत्वा च सोऽचलत् । यावत् सौमित्रिणा तावदुत्थायाऽधारि पाणिना ।। १०३॥ भरतं च तथा यान्तं व्रताय कृतनिश्चयम् । ज्ञात्वा सीता - विशल्याद्यास्तत्राऽऽजग्मुः ससम्भ्रमाः ॥ १०४ ॥ विस्मारयितुकामास्ता भरतस्य व्रताग्रहम् । जलक्रीडाविनोदार्थमर्थनां चक्रिरेतराम् ॥ १०५ ॥ उपरोधेन तासां च ययौ सान्तः पुरोऽपि सः । क्रीडासरसि चिक्रीड विरक्तोऽपि मुहूर्तकम् ॥ १०६ ॥ " जलान्निर्गत्य भरतस्तीरेऽस्थाद् राजहंसवत् । स्तम्भमुन्मूल्य भुवनालङ्कारस्तत्र चाऽऽययौ ॥ १०७|| मदान्धोऽप्यमदः सोऽभूत् सद्यो भरतदर्शनात् । तद्दर्शनेन भरतोऽप्यवाप परमां मुदम् ||१०८|| सम्भ्रमाद् राम- सौमित्री तस्योपद्रवकारिणः । करिणो बन्धनायाऽऽशु ससामन्तावुपेयतुः ॥१०९॥ रामाज्ञया हस्तिपैकैः स स्तम्भे हस्त्यनीयत । आगतौ च मुनी देशभूषणः कुलभूषणः ॥ ११० ॥ उद्याने समवसृतौ वन्दितुं तौ महामुनी । प्रययुः राम - सौमित्रि - भरताः सपरिच्छदाः ॥ १११ ॥ वन्दित्वा तौ च पप्रच्छ राम्रो मत्तकरी कथम् । अमदोऽजनि भुवनालङ्कारो भरतेक्षणात् ? ॥ ११२ ॥ ||अथाऽऽख्यत् केवली देशभूषणो नाभिसूनुना । समं सहस्राश्चत्वारो राजानः प्राव्रजन् पुरा ।। ११३ || ते तु स्वामिन्यनाहारे कृतमौने विहारिणि । निर्विण्णा जज्ञिरे सर्वे तापसा वनवासिनः ॥११४॥ प्रह्लादन-सुप्रभराट्तनयौ तेषु तापसौ । चिरं चन्द्रोदय - सूरोदयाख्यौ भ्रमतुर्भवम् ॥ ११५ ॥ चन्द्रोदयो गजपुरे राज्ञो हरिमतेरभूत् । भार्यायां चन्द्रलेखायां सूनुर्नाम्ना कुलङ्करः ॥ ११६ ॥ सूरोदयोऽपि तत्रैव विश्वभूतेर्द्विजन्मनः । भार्यायामग्निकुण्डायां नाम्ना श्रुतिरतिः सुतः ||११७|| अभूत् कुलङ्करो राजा स गच्छंस्तापसाश्रमम् । अवधिज्ञानिनेत्यूचे चाऽभिनन्दनसाधुना ॥ ११८ ॥ तप्यमानेन पञ्चाग्नितपस्तत्र तपस्विना । दग्धुमानीतकाष्ठस्य मध्ये तिष्ठति पन्नगः ॥ ११९ ॥ सोऽहिः पुरा भवे क्षेमङ्कराख्यस्ते पितामहः । तद्दारु दारयित्वा तं यत्नादाकृष्य रक्ष भोः ! ॥ १२० ॥ आकुलस्तद्वचः श्रुत्वा गत्वा तद्दार्वदारयत् । ददर्शाऽन्तः स्थितं चाहिं राजा विस्मयते स्म च ॥१२१॥ आदित्सते स्म प्रव्रज्यां यावद् राजा कुलङ्करः । द्विजः श्रुतिरतिः सोऽथ तावदेवमवोचत ||१२२|| धर्मो नाऽऽम्नायिको वोऽयं निर्बन्धश्चेत् तवान्तिमे । दीक्षा वयस्युपादेया किं सम्प्रत्यपि खिसे ? || १२३ ॥ राजाऽपि तद्विरा भग्ग्रदीक्षोत्साहो मनागपि । मया किमत्र कर्तव्यमिति ध्यायन्नवीस्थित ॥ १२४॥ श्रीदामाख्याऽथ तद्राज्ञी सदा सक्ता पुरोधसा । नूनं मां ज्ञातवानेष इत्याशङ्कत दुर्मतिः ॥ १२५ ॥ आवां यावन्न हन्त्येष तावद्धन्मीति सा विषम् । पुरोधोऽनुमता दत्त्वा कुलङ्करममारयत् ॥ १२६॥ क्रमाच्छ्रुतिरतिः सोऽपि मृतो भूयोऽप्युभावपि । चिरं भवं भ्रमतुस्तौ नानायोनिनिपीतिनौ ॥१२७॥
पुरेऽन्यदा राजगृहे कपिलब्रह्मणः सुतौ । सावित्र्यां युग्मतोऽभूतां विनोद - रमणाभिधौ ॥ १२८ ॥ रमणो वेदमध्येतुं ययौ देशान्तरं ततः । कालेनाऽधीतवेदः सन्नागाद् राजगृहं निशि ॥ १२९ ॥ अकालोऽसाविति धिया तदाऽस्थाद् बहिरेव सः । सर्वसाधारणेऽस्वाप्सीदेकस्मिन् यक्षमन्दिरे ||१३०||
२१६
(सप्तमं पर्व
१. आसीद् दुर्ललितैर्मे तु वैरमार्यस्य केवलम् रस्वीपा.; आसीद्० पाता.; मम स्वच्छन्दचेष्टितैः ॥ २. वैरि० मु. ॥ ३ त्वयि तव विषये उत्का:उत्कण्ठिताः । ४. प्रार्थनाम् ॥ ५. महावत ॥ ६. मम करी ला. विना ॥ ७ ० देवमबोधयत् पाता. ॥ ८. कुलपरम्परागतः । ९. खिद्यते मु. ॥। १०. Jain Education Inoन्नवास्थितः ला. विना ॥ ११. ० निपातितौ खं. १, पाता. ।। १२, जन्मतो ० . lUse Only
www.jainelibrary.org