________________
अष्टम: सर्ग:)
त्रिषष्टिशलाकापुरुषचरितम्। नर्मदायां कुम्भकर्णो नद्यां सिद्धिमियाय च । पृष्टरक्षितमित्यासीत् तत् तीर्थं चाऽभिधानतः ॥६०।।
इतश्च साकेतपुरे राम-लक्ष्मणमातरौ । तद्वार्तामप्यजानन्त्यौ तस्थतुर्भृशदुःखिते ॥६१।। तदा च धातकीखण्डादागतस्तत्र नारदः। पप्रच्छ भक्तिनने ते विमनस्के कुतो युवाम् ? ॥६२।। अथाऽपराजितोवाच पुत्रौ मे राम-लक्ष्मणौ । पित्राज्ञयो वनं यातौ स्नुषया सीतया सह ॥६३।। सीतापहाराल्लङ्कायां जग्मतुस्तौ महाभुजौ । रावणेन रणे शक्त्या लक्ष्मणस्ताडितः किल ॥६४।। शक्तिशल्योद्धरणाय विशल्याऽऽनायि तत्र च । न विद्यो यदभूत् किञ्चिद् वत्सो जीवति वा न वा ? ॥६५।। अभिधायेति हा वत्स! वत्सेति करुणस्वरम् । रुरोद सा रोदयन्ती सुमित्रामपि निर्भरम् ॥६६।। ततस्ते नारदोऽवोचद् भवतं सुस्थिते युवाम् । युष्मत्पुत्रावुपेष्यामि तथाऽऽनेष्यामि ताविह ॥६७।। तयोरेवं प्रतिश्रुत्य नारदो गगनाध्वना । जनश्रुत्या ज्ञातवृत्तो लङ्कायां राममभ्यगात् ।।६८।। सत्कृत्य पृष्टो रामेण किमत्राऽऽगा ? इति स्वयम् । तन्मातृदु:खवृत्तान्तमाचख्यौ नारदोऽखिलम् ॥६९।। सद्य: सरणरणक: पद्मोऽवादीद् बिभीषणम् । विस्मृत्य दु:खं मातॄणां त्वद्भक्त्याऽस्थामिहाऽधिकम् ।।७०।। अस्मद्दुःखाद् विपद्यन्ते न यावन्मातरो हि नः । तावत् तत्राऽद्य यास्यामोऽनुमन्यस्व महाशय! ॥७१॥ नत्वा बिभीषणोऽप्यूचे तिष्ठाऽत्राऽहानि षोडश । यावत् स्वैः शिल्पिभी रम्यां तामयोध्यां करोम्यहम् ।।७२।। एवमस्त्विति रामोक्तः स विद्याधरशिल्पिभिः । दिनैः षोडशभिश्चक्रेऽयोध्यां स्वर्नगरीनिभाम् ॥७३।। तदा रामेण सत्कृत्य विसृष्टो नारदो ययौ । आख्यच्च राममातॄणां पुत्रागममहोत्सवम् ॥७४।। पाअथाऽह्नि षोडशे सान्त:पुरावारुह्य पुष्पकम् । शक्रेशानाविवैकस्थो प्रतस्थाते रघूद्वहौ ॥७५।। रावणानुज-सुग्रीव-भामण्डलनृपादिभिः । अन्वीयमानौ नगरीमयोध्यां चेयतु: क्षणात् ॥७६।। आयान्तौ पुष्पकारूढौ दूरादपि निरीक्ष्य तौ। अभ्यागात् कुञ्जरारूढो भरत: सानुजोऽपि हि ॥७७।। आयाति भरते रामाज्ञयोपक्षिति पुष्पकम् । जगाम पालकमिव पाकशासनशासनात् ॥७८।। आदावप्युत्ततारेभाद् भरतो भ्रातृसंयुतः । उत्तेरतुः पुष्पकाच्च सोत्कण्ठौ राम-लक्ष्मणौ ॥७९।। पादयोः पतितं रामो भरतं साश्रुलोचनम् । परिरेभे समुत्थाप्य मूर्ध्नि चुम्बन् मुहुर्मुहुः ॥८॥ शत्रुघ्नमपि पादान्ते लुठन्तं रघुपुङ्गवः । उत्थाप्य परिमृज्य स्वांशुकेन परिषस्वजे ॥८१॥ ततो भरत-शत्रुघ्नौ नमन्तौ लक्ष्मणोऽपि हि । प्रसारितभुजो बाढमालिलिङ्ग ससम्भ्रमः ।।८२।। आरोहदनुजैः सार्धं त्रिभी रामोऽथ पुष्पकम् । समादिदेश चाऽयोध्याप्रवेशाय कृतत्वरः ॥८३।। तूर्येषु व्योम्नि भूमौ च वाद्यमानेष्वथोन्मुदौ । अयोध्यां राम-सौमित्री निजां प्राविशतां पुरीम् ।।८४॥ सोत्कण्ठैरुन्मुखैः पौरैर्मयूरैरिव वारिदौ । निर्निमेषैः प्रेक्ष्यमाणौ स्तूयमानौ च निर्भरम् ।।८५।। अर्कवद् दीयमानार्थी स्थाने स्थाने पुरीजनैः । स्वं प्रासादं प्रसन्नास्यौ जग्मतू राम-लक्ष्मणौ ॥८६॥ पाउत्तीर्य पुष्पकात् तत्र रामः सौमित्रिणा संह । जगाम मातृसदनं सुहृद्हृदयनन्दनः ॥८७।। रामोऽपराजितां देवीं मातृवर्गमथाऽपरम् । नमश्चक्रे ससौमित्रिस्ताभिश्चाऽऽशीर्भिरैज्यत ॥८८।। अथ सीता-विशल्याद्या: प्रणेमुरपराजिताम् । श्वश्रूरन्याश्च तत्पादपद्येषु निहितोलकाः ॥८९॥ अस्मद्वद् वीरप्रकाण्डप्रसविन्योऽस्मदाशिषा। भूयास्त यूयमिति ता: श्वश्र्वोऽप्याशासतोच्चकैः॥९०॥ अथाऽपराजिता देवी भूयो भूयोऽपि लक्ष्मणम् । स्पृशन्ती पाणिना मूर्ध्नि चुम्बन्ती चैवमब्रवीत् ।।९१।। दिष्ट्या दृष्टोऽसि हे वत्स! पुनर्जातोऽसि चाऽधुना । कृत्वा विदेशगमनं विजयीह यदागमः ॥९२॥ तानि तानि च कष्टानि वनवासभवान्यसौ । रामः सीता चाऽतिनिन्ये तवैव परिचर्यया ॥१३॥ लक्ष्मणोऽप्यवदत् तातेनेवाऽऽर्येणाऽतिलालितः। त्वयेवसीतादेव्या च वनेऽप्यस्थामहं सुखम् ॥९४।। १. दुःस्थिते पाता. ।। २. वनं पित्राज्ञया यातौ रस्वीपा. ॥ ३. प्रतिज्ञापूर्वकं कथयित्वा ।। ४. सोत्कण्ठः ।। ५. तां ता. ॥ ६. स्वर्णगरी. ता.; स्वर्गपुरी० मु.॥७.अभ्यगात् मु. रस्वीपा.॥८. आयाते छा. पा.आगच्छति सति ॥९. क्षितिसमीपे॥१०. इन्द्रशासनात्॥११.स्ववस्त्रेण ॥१२.सूर्यवद् दीयमानो
ऽर्घ:-पूजोपचारविशेषो याभ्यां तौ ।।१३. समम् रसंपा. ॥१४. ध्यत ला.विना; अपूज्यत ।। १५. स्थापितकेशाः ।। १६. प्रचण्डवीर(पुत्र)प्रसविन्यः ।। Jain Educatio१७. चेद० पाता. ॥
For Private & Personal Use Only
www.jainelibrary.org