________________
२१४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व रतिवर्धनराजेनाऽर्पिते पट्टे निषद्य सः। शशंस प्राग्भवं तस्य स्वस्य च भ्रातृसौहृदात् ।।२९।। सञ्जातजातिस्मरणाद् विरक्तो रतिवर्धनः । प्रावाजीदथ मृत्वा च ब्रह्मलोके सुरोऽभवत् ।।३०।। च्युत्वा ततो विदेहेषु विबुद्धनगरे युवाम् । अभूतं भ्रातरौ भूपौ प्रव्रज्याऽच्युतमीयथुः ॥३१॥ च्युत्वाऽच्युताद् दशास्यस्य प्रतिविष्णोस्तु सम्प्रति । पुत्रौ युवामजायेथामिन्द्रजिन्मेघवाहनौ ॥३२॥ रतिवर्धनमाता तु भवं भ्रान्त्वेन्दुमुख्यपि । मन्दोदरी समभवज्जननी युवयोरियम् ॥३३॥ कुम्भकर्णेन्द्रजिन्मेघवाहनाद्या निशम्य तत् । मन्दोदर्यादयश्चाऽपि तदैवाऽऽददिरे व्रतम् ॥३४।।
मुनिं नत्वा तु तं रामः ससौमित्रि-कपीश्वरः । बिभीषणेन प्रहेण वेत्रिणेवाऽग्रगामिना ॥३५।। दर्श्यमानपथो विद्याधरीभिः कृतमङ्गलः । ऋद्ध्या महत्येन्द्र इव लङ्कायां प्राविशत् पुरीम् ॥३६॥युग्मम्।।
गिरेः पुष्पगिरेर्मूर्धन्युद्याने तत्र मैथिलीम् । गत्वा ददर्श काकुत्स्थो यथाख्यातां हनूमता ॥३७|| तामत्क्षिप्य निजोत्सङ्गे द्वितीयमिव जीवितम् । तदैव जीवितम्मन्यो धारयामास राघवः ॥३८॥ इयं महासती सीता जयत्विति मरुत्पथे। तदानीं जुघुषुः सिद्ध-गन्धर्वाद्याः प्रमोदिनः ॥३९।। सीतादेव्या नमश्चक्रे पादौ प्रक्षालयन्निव ।
सुमित्रानन्दनो मुदा ॥४०॥ चिरं जीव चिरं नन्द चिरं जीव मदाशिषा । इति ब्रुवाणा वैदेही जघ्रौ शिरसि लक्ष्मणम् ॥४१।। भामण्डलो नमश्चक्रे सीतां सीताऽपि तं मुदा । आशिषाऽऽनन्दयामास मुनिवाक्यसमानया ॥४२॥ स्वनामाख्यानपूर्वं चकपिराजो बिभीषण:। हनुमानङ्गदोऽन्येऽपि प्रणेमुर्जनकात्मजाम्॥४३॥ पार्वणेन शशाङ्केन चिरात् कुमुदिनीव सा । रामेण शुशुभे सीता विकाशं समुपेयुषी ॥४४।। ससीतोऽध्यास्य भुवनालङ्कारं राघवो गजम् । जगाम धाम दाशास्यं सुग्रीवाद्यैः समावृतः॥४५।। तदन्तश्च मणिस्तम्भसहस्राकं जिनेशितुः । चैत्यं श्रीशान्तिनाथस्य प्रविवेश विवन्दिषुः ॥४६।। बिभीषणार्पितैस्तत्र कुसुमाद्यैरुपस्करैः । शान्तिमानर्च काकुत्स्थ: सीता-सौमित्रिसंयुतः ॥४७।। बिभीषणाभ्यर्थितोऽथ बिभीषणगृहं ययौ । राम: ससीता-सौमित्रि: सुग्रीवादिभिरन्वित: ॥४८।। तत्र देवार्चनं स्नान-भोजनादि च राघवः । चक्रे सपरिवारोऽपि मानयन् रावणानुजम् ॥४९।। रामं सिंहासनासीनमग्रासीनो बिभीषणः । वाससी परिधायोभे बभाषेऽथ कृताञ्जलिः ॥५०॥ रत्न-स्वर्णादिकोशोऽयमिदं हस्ति-हयादि च । अयं च राक्षसद्वीपो गृह्यतां पत्तिरस्मि ते ॥५१॥ राज्याभिषेकमधुना कुर्महे ते त्वदाज्ञया । पवित्रय पुरीं लङ्कां प्रसीदानुगृहाण माम् ॥५२॥ रामोऽप्युवाच दत्तं ते लङ्काराज्यं मया पुरा। व्यस्मार्षीस्तदिदानी किं महात्मन! भक्तिमोहित: ? ॥५ एवं निषिध्य तं पद्मो लङ्काराज्ये तदैव हि । अभ्यषिञ्चत् स्वयं प्रीत: प्रतिज्ञातार्थपालकः ॥५४॥ सीता-सौमित्रि-सुग्रीवप्रमुखैरावृतो ययौ । रामोऽथ रावणगृहे सुधर्मायामिवाऽद्रिभित् ।।५५।। पातत्र सिंहोदरादीनामुद्वोढुं प्राक् प्रतिश्रुताः। कन्या रामाज्ञयाऽऽनैषुस्तत्र विद्याधरोत्तमाः॥५६।। अथ स्वस्वप्रतिपन्नास्ता: कुमारीर्यथाविधि । राघवावुपयेमाते खेचरीगीतमङ्गलौ ॥५७॥ भोगांस्तत्रोपभुञ्जानौ निर्विघ्नं राम-लक्ष्मणौ । सुग्रीवाद्यैः सेव्यमानौ षडब्दीमतिनिन्यतुः ॥५८।। अत्राऽन्तरे विन्ध्यस्थल्यामिन्द्रजिन्मेघवाहनौ । तौ सिद्धिमीयतुर्जज्ञे तीर्थं मेघरथं च तत् ॥५९।। १. नम्रेण ।। २. वेत्रिणा चाग्र० खं.१ ।। ३. अत्र ला.प्रतौ टिप्पितं गाथाचतुष्कमेवं - "तिसमुद्दमेइणिवई, मह दइओ विणिहओ रणमुहम्मि । पुत्तेहिं विमुक्काऽहं, के सरणं भो पवजामि ? ॥१॥ एवं सा विलवंती, अजाए तत्थ संजमसिरीए । पडिबोहिआ य गिण्हइ, पव्वजं सा महादेवी ॥२॥ चंदणहा वि अणिच्चं, जीअंनाऊण तिव्वदुक्खत्ता । पव्वइआ दढभावा, जिणवरधम्मुजया जाया ॥३॥ अट्ठावण्णसहस्सा, तत्थ य जुवईण लद्धबोहीणं । पव्वइआणि तवगुणं कुणंति दुक्खक्खयट्ठाए ॥४॥ इति वृद्धपद्मचरिते ।।" (मुद्रिते पउमचरिए उ.७५, गा. ८१-८२-८३-८४)। ४. खं.१-२, पाता. ला.प्रतिषु न ।। ५. महापथे खं.२; आकाशे ।। ६. ०रम्रजलैः खं.१-२, पाता. ला.।। ७. सुग्रीवः ।। ८. पूर्णिमासम्बन्धिना चन्द्रेण ॥९.
रावणावासं कां. मु.।। १०.सामग्रीभिः ।।११. स्नानं पाता.।।१२. इन्द्रः ।।१३. अङ्गीकृताः॥१४. राम-लक्ष्मणौ परिणिन्यतुः ।।१५. ०मङ्गलैः पाता. ।। ___Jain Education १६ षड वर्षाणि ।। १७. मेघरवं खं.१-२, पाता. ला.॥ For Private & Personal use Only
www.jainelibrary.org