________________
॥अष्टम: सर्ग:॥
अथो बिभीषणस्तत्रकान्दिशीकान् निशाचरान्। एवमाश्वासयामास ज्ञातिस्नेहवशीकृतः॥१॥ पद्म-नारायणावेतावष्टमौ बल-शाङ्गिणौ। शरण्यौ शरणायाऽऽशुश्रयध्वमविशङ्किता:॥२॥ ते सर्वे शिश्रियुः पद्म-सौमित्री तौ च चक्रतुः । तेषां प्रसादं वीरा हि प्रजासु समदृष्टयः ।।३।। हतंचभ्रातरं दृष्ट्वा शोकावेशाद् बिभीषण: । मर्तुकाम: स्वयमपि चकर्षक्षुरिकां निजाम्॥४॥ तया स्वकुक्षिाघ्नानं दधेरामो बिभीषणम्। हा! भ्रातर्धातरित्युच्चैः क्रन्दन्तं करुणाक्षरम् ॥५।। मन्दोदर्यादिभिः सार्धं रुदन्तमपरावणम। इति तंबोधयामासपद्मनाभः सलक्ष्मणः॥६॥ ईदृक्पराक्रम: सोऽयं न हि शोच्यो दशाननः । यस्याऽऽशशङ्किरे दूरं समरेष्वमरा अपि॥७॥ वीरवृत्त्याऽनया मृत्युंगतोऽसौ कीर्तिभाजनम् । तदस्योत्तरकार्याणि कुरुध्वं रुदितैरलम् ।।८।। इत्युदित्वा पद्मनाभो महात्मा प्राप्तबन्धनान् । कुम्भकर्णेन्द्रजिन्मेघवाहनादीनमोचयत् ॥९॥ बिभीषण: कुम्भकर्णः शक्रजिन्मेघवाहनः । मन्दोदर्यपि सम्भूयाऽपरेऽपि पतदश्रवः ॥१०॥ दशग्रीवाङ्गसंस्कारं सद्यो गोशीर्षचन्दनैः । कर्पूरागुंरुसम्मिश्रैर्विदधुङलितानलैः॥११युग्मम्।। पद्म: पद्मसरस्येत्य ते च स्नात्वा जलाञ्जलिम् । समर्मश्रुजलै: कोष्णैः प्रददुर्दशमौलये॥१२॥ गिराऽभिरामया राम: किन्निव सुधारसम्। सलक्ष्मण: कुम्भकर्णप्रभृतीनित्यभाषत॥१३॥ पूर्ववत् स्वस्वराज्यानि कुरुध्वमधुनाऽपि हि। युष्मल्लक्ष्म्या न न: कृत्यं हे वीरा:! क्षेममस्तु वः॥१४॥ इत्युक्ता: पद्मनाभेन युगपच्छोक-विस्मयौ । बिभ्राणा: कुम्भकर्णाद्या जगदुर्गद्गदाक्षरम्॥१५॥ नाऽर्थो राज्येन न: कश्चित्प्राज्येनाऽपि महाभुज! । ग्रहीष्याम: परिव्रज्यां मोक्षसाम्राज्यसाधनीम्॥१६।।
अत्राऽन्तरे च कुसुमायुधोद्याने महामुनिः। अप्रमेयबलो नाम चतुर्ज्ञानी समाययौ॥१७ तत्रैव निशि तस्याऽभूत् केवलज्ञानमुज्ज्वलम्। चक्रुश्च केवलज्ञानमहिमानं दिवौकसः॥१८॥ प्रातश्च राम-सौमित्री कुम्भकर्णादयश्च ते। उपेत्य तमवन्दन्त ततो धर्मं च शुश्रुवुः ॥१९॥ पप्रच्छतुर्देशनान्ते शक्रजिन्मेघवाहनौ । परं वैराग्यमापन्नौ पुरातनभवान्निजान्॥२०॥ मुनिः सोऽथाऽब्रवीत् पुर्यों कौशाम्ब्यामिह भारते। निस्वौ बन्धूयुवां जातौ नाम्ना प्रथम-पश्चिमौ॥२१॥ तावन्यदाभवदत्ताधर्मं श्रुत्वा महामुनेः। व्रतं जगृहतुःशान्तकषायौ च विजह्रतुः ॥२२॥
अन्येद्युस्तौ तु कौशाम्ब्यां गतौ ददृशतुर्नुपम् । पत्न्येन्दुमुख्या क्रीडन्तं नन्दिघोष मधूत्सवे ॥२३॥ तं दृष्ट्वा पश्चिमोऽकार्षीनिदानं तपसाऽमुना। ईदृक्क्रीडापरः पुत्रः भूयासमनयोरहम् ।।२४।। साधुभिर्वार्यमाणोऽपि निदानान्न न्यवर्तत । मृत्वा च पश्चिमो जज्ञे तयोस्तुग्रतिवर्धनः ॥२५।। क्रमेणोद्यौवन: प्राप्तराज्य: सरतिवर्धनः । पितेव रेमे विविधं रमणीभिः समावृतः ॥२६॥ मृत्वा प्रथमसाधुस्तु निर्निदानतपोवशात्। बभूव पञ्चमे कल्पे त्रिदश: परमर्द्धिकः॥२७॥ सोऽवधेतिरं ज्ञात्वा तत्रोत्पन्नं महीपतिम्।तंबोधयितुमभ्यागात् मुनिरूपधर: सुरः॥२८|| १. भयत्रस्तान् राक्षसान् ।। २. च्छु रिकां मु. ।। ३. ०क्षिं निघ्नानं खं.१॥४. दूरे मु.; अत्यर्थम् ।। ५. ०दीनबोधयत् हे. मो. ।। ६. मन्दोदरी च ता. ।। ७. सम्भूय परे० खं.१-२, पाता. ला. ॥ ८. कर्पूरागरु० ता. विना ।। ९. खं.१-२, पाता. ला.प्रतिषु न।।१०. बिभीषणादयः ।। ११. सममम्रजलैः खं.१-२, पाता. ला. ॥१२. ईषदुष्णैः ।।१३. वर्षन्निव ।। १४. अत्र ला.प्रतौ टिप्पितं गाथाद्विकमिदं"अह तस्स दिणस्संते, साहू नामेण अप्पमेयबलो। छप्पण्णसहसजुत्तो, मुणीण लंकापुरी पत्तो ॥१॥ जइसो मुणी महप्पा, पत्तो लंकाहिवंमि जीवंते। तो लक्खणस्स पीती, होति(ती) सह रक्खसिंदेण॥२॥इति वृद्धपद्मचरिते॥" (मुद्रिते पउमचरिए उ.७५, गा.२३-२३; पृ.४२८)॥ १५. निर्धनौ ।। १६. भवद्दत्ता० ता. ॥१७. वसन्तोत्सवे ॥१८. तुक्-पुत्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org