________________
(सप्तमं पर्व
२१२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं नारायणस्य तैर्बाणैर्विधरोदशकन्धरः। सस्मार जाज्वलच्चक्रमर्धचक्रित्वलाञ्छनम॥३६९।। रोषारुणाक्षस्तच्चक्रं भ्रमयित्वा नभस्तले । मुमोच रावण: शस्त्रमन्त्यं रामानुजन्मने ॥३७०।। कृत्वा प्रदक्षिणां तत् तु सौमित्रेर्दक्षिणे करे। अवतस्थे रविरिवोदयपर्वतमूर्धनि ॥३७१।। विषण्णो रावणो दध्यौ सत्यं जातं मुनेर्वचः । तेषां बिभीषणादीनां सत्यश्चालोचनिर्णयः ॥३७२॥ विषण्णं भ्रातरं प्रेक्ष्य भूयोऽप्यूचे बिभीषणः । भ्रातरद्याऽपि वैदेहीं मुञ्च त्वं चेज्जिजीविषुः ॥३७३॥ कुद्धस्तं रावणोऽवोचत् किं मेऽस्त्रं चक्रमेव रे! ? । द्विषं सचक्रमप्येनं द्राग्घनिष्यामि मुष्टिना ॥३७४॥ इति दर्पाद् विब्रुवतो रक्षोनाथस्य लक्ष्मणः । वक्षस्तेनैव चक्रेण कूष्माण्डवदपाटयत् ॥३७५।। तदा च ज्येष्ठकृष्णैकादश्यामश्च पश्चिमे । यामे मृतो दशग्रीवश्चतुर्थं नरकं ययौ ॥३७६।।
सपदि जय जयेति व्याहरद्भिर्युसद्भिय॑रचि कुसुमवृष्टिलक्ष्मणस्योपरिष्टात् । समजनिच कपीनां ताण्डवं चण्डहर्षोत्थितक्लिकिलनादापूर्णरद्रोनिकुञ्जम् ॥३७७।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सप्तमे पर्वणि रावणवधो नाम सप्तमः सर्ग: समाप्तः ।।
१. माणिः ॥ २ पञ्चेत सा. शिरः सः ॥ ४. हि च ॥५. लिकिलित . स. ला
१. मन्त्रनिर्णयः ।। २.०मप्येतं ता. ।। ३. शिर० ला. ।। ४.०महि च ता. ।। ५. ०किलिकिलि० खं.२, ता. ला.॥६. रोद:-आकाश-पृथिव्यौ ।। ७. सप्तमपर्वणि खं.१-२॥ ८. 'समाप्तः' इति खं.१-२, ता. ला.प्रतिषु न ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org