________________
सप्तमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
त्वत्पादाब्जप्रणामेन नित्यं 'भूलुठनैः प्रभो! । शृङ्गारतिलकीभूयान्मम भाले 'किणावलिः ॥ ३३५॥ पदार्थै: पुष्प-गन्धाद्यैरुपैहारीकृतैस्तव । प्रभो ! भवतु मद्राज्यसम्पद्वल्लेः सदा फलम् ||३३६॥ भूयो भूयः प्रार्थये त्वामिदमेव जगद्विभो ! । भगवन्! भूयसी भूयात् त्वयि भक्तिर्भवे भवे ॥ ३३७ ॥ स्तुत्वेति शान्तिं लङ्केशः पुरो रत्नशिलास्थितः । तां साधयितुमारेभे विद्यामक्षम्रजं दधत् ॥ ३३८ ॥ अथ मन्दोदरी द्वाःस्थं यमदण्डमदोऽवदत् । जिनधर्मरतोऽष्टाहान्यस्तु सर्वोऽपि पूर्जनः ॥ ३३९॥ न करिष्यति यस्त्वेवं तस्य दण्डो वधात्मकः । भविष्यतीति लङ्कायामाघोषय हैतानकः ॥ ३४० ॥ तदादेशेन स द्वाःस्थः पुर्यामाघोषयत् तथा । तच्च चारनरैरेत्य सुग्रीवाय न्यवेद्यत ॥ ३४९ ॥ "सुग्रीवोऽप्यब्रवीदेवं न यावद् बहुरूपिणीम् । विद्यां साधयति स्वामिंस्तावत् साध्यो दशाननः || ३४२॥ स्मित्वा पद्मोऽप्युवाचैवं शान्तं ध्यानपरायणम् । कथं दशास्यं गृह्णामि ? न ह्यहं स इव च्छली ॥३४३॥ इति रामवचः श्रुत्वा छन्नमेवाऽङ्गदादयः । विद्याभ्रंशाय लङ्केशं शान्तिचैत्यस्थितं ययुः || ३४४|| विदधुर्विविधांस्तत्रोपसर्गांस्ते निरर्गलाः । मनागपि न तु ध्यानादचालीद् दशकन्धरः ||३४५|| अथाऽङ्गदो जगादैवं रामाद् भीतेन किं त्वया । इदं पाखण्डमारब्धमप्राप्तशरणेन भोः ! ? || ३४६|| त्वया परोक्षे मद्भर्तुर्हृता भार्या महासती । मन्दोदरीं तु ते पत्नीं पश्यतोऽपि हराम्यहम् ||३४७|| इत्युदीर्याऽमन्दरोषोऽकर्षन्मन्दोदरीं कचैः । सोऽनाथामिव रुदतीं कुररीकरुणस्वराम् ||३४८|| रावणो ध्यानसंलीनः प्रेक्षाञ्चक्रेऽपि तां न हि । प्रादुरासीच्च सा विद्या द्योतयन्ती नभस्तलम् ||३४९|| सेत्यूंचे तव सिद्धाऽस्मि ब्रूहि किं करवाणि भोः ! ? । करोमि ते वशे विश्व कियन्मात्रौ हि राघवौ ? ॥ ३५० ॥ रावणः प्रत्युवाचैवं सर्वं निष्पद्यते त्वया । स्मृता समापतेः काले स्वस्थानं गच्छ सम्प्रति ॥३५१॥ तद्विसृष्टा तिरोधत्त सा विद्या तेऽपि वानराः । स्कन्धावारं निजं जग्मुरुत्प्लुत्य पवमानवत् ॥३५२॥ मन्दोदर्यङ्गदो दन्तं शुश्राव च दशाननः । चक्रे च सद्योऽहङ्कारगर्भं हुङ्कारमुच्चकैः ॥ ३५३॥
1
स्नात्वा भुक्त्वा च लङ्केशोऽगाद् देवरमणे वने । ऊचे सीतां च सुचिरं मया तेऽनुनयः कृतः ॥३५४॥ उज्झित्वा नियमभङ्गभीरुत्वमधुना पुन: । सेविंष्येऽहं प्रसह्य त्वां हत्वा त्वत्पति - देवरौ ॥ ३५५॥ तद्वाचा विषसध्रीच्या मूर्च्छिता जनकात्मजा । निपपात दशास्यस्य तस्यामाशेव तत्क्षणम् ॥३५६॥ कथञ्चिल्लब्धसञ्ज्ञा सा जग्राहैवमभिग्रहम् । मृत्युश्चेद् राम- सौमित्र्योस्तदाऽस्त्वनशनं मम || ३५७ || तच्छ्रुत्वा रावणो दध्यौ रामे स्नेहो निसर्गजः । अस्यास्तदस्यां मे रागः स्थले कमलरोपणम् ॥ ३५८।। कृतं युक्तं मया तन्नाऽवज्ञातो यद् बिभीषणः । नाऽमात्याः मानिताः स्वं च कुलमेतत् कलङ्कितम् ॥३५९॥ मुञ्चाम्येतामद्य चेत् तन्न विवेकपदे पते । रामाक्रान्तेन मुक्तेयमिति स्यात् प्रत्युताऽयशः ॥ ३६० ॥ वेह राम - सौमित्री समानेष्ये ततस्तयोः । अर्पयिष्याम्यमूं धर्म्यं यशस्यं च हि तद् भवेत् ॥ ३६१|| ॥इति निश्चित्य लङ्केशस्तामतीत्य विभावरीम् । युद्धे चचालाऽशकुनैर्वार्यमाणोऽपि दुर्मदः || ३६२ || भूयः प्रववृते युद्धं राम-रावणसैन्ययोः । अत्युद्भटभटभुजास्फोटत्रासितदिग्गजम् ॥ ३६३॥ विधूयाऽशेषरक्षांसि तूलानीव महाबलः । लक्ष्मणस्ताडयामास विशिखैर्दशकन्धरम् || ३६४|| सौमित्रेर्विक्रमं दृष्ट्वा साशङ्को दशकन्धरः । सस्मार बहुरूपां तां विद्यां विश्वभयङ्कराम् ॥३६५॥ स्मृतिमात्रोपस्थितायां विद्यायां तत्र रावणः । विचक्रे भैरवाण्याशु स्वानि रूपाण्यनेकशः ॥ ३६६॥ भूमौ नभसि पृष्ठेऽग्रे पार्श्वयोरपि लक्ष्मणः । अपश्यद् रावणानेव विविधायुधवर्षिणः || ३६७॥ तवद्रूप इवैकोऽपि तार्क्ष्यस्थो लक्ष्मणोऽपि तान् । जघान रावणान् बाणैश्चिन्तितोपैनतैः शैतैः ॥ ३६८।।
T
२११
१. भूलुण्ठनैः मु. रस्वीपा ॥। २. व्रणावलिः ॥ ३. ०रुपहारैः ता. ॥ ४. अक्षमालाम्- जपमालाम् ॥ ५. 'आनकः पटह:' इति टि. ला. ॥ ६. चरनरै० ला ॥ ७. अहं रावण इव कपटी न ॥ ८. करैः ता.; केशैः ॥ ९. टिट्टिभी ॥ १०. ० स्वरम् ता ॥ ११. साऽप्यूचे पाता. ॥। १२. आगच्छेः ॥ १३. जग्मुरुत्पत्य मु. रस्वीपा. ।। १४. पवनवत् ॥ १५. रमयिष्ये मु. ला ॥ १६. विषतुल्यया ।। १७. सीतायां विषये रावणस्याऽऽशेव ।। १८. रामस्नेहो ता . ॥। १९. मया न युक्तं तच्चक्रेऽवज्ञातो ० ला ॥ २०. भवेत् ॥ २१. युधे ता. ॥ २२. वायुः कार्पासपुंभिका इव ।। २३. विशेषै० ला ॥ २४. तावन्ति रावणतुल्यानि एव रूपाणि Jain Educatयस्य स तावद्रूपः ॥ २५. चिन्तिता एव उपनता: हस्तमागताः ।। २६. शरै: मु; शतैः रसंपा, dbnly
www.jainelibrary.org