________________
२१० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व कन्यासहस्रसहितां विशल्यां रामशासनात् । तदानीमेव सौमित्रिरुपयेमे यथाविधि ॥३०॥ सौमित्रे वनोद्वाहोत्साहजन्मा महोत्सवः । विद्याधरनपैश्चक्रे जगदाश्चर्यकारणम ॥३०॥
सौमित्रिर्जीवित इति चरैर्नक्तञ्चराधिपः । विज्ञाय मन्त्रयाञ्चक्रे समं मन्त्रिवरैरिति ॥३०२।। अभवन्मम भावोऽयं सौमित्रि: शक्तिताडित: । प्रातर्मरिष्यति ततो रामोऽपि स्नेहपीडित: ॥३०३।। यास्यन्ति कपयो नंष्ट्वा ते च मद्बन्धु-सूनवः । कुम्भकर्णेन्द्रजिन्मुख्या: स्वयमेष्यन्ति मामिह ॥३०४॥ अधुना दैववैगुण्याल्लक्ष्मण: सोऽपि जीवित: । मया मोचयितव्यास्ते कुम्भकर्णादयः कथम् ? ॥३०५।। मन्त्रिणोऽप्येवमूचुस्तं जानकीमोक्षणं विना। न मोक्ष: कुम्भकर्णादिवीराणां प्रत्युताऽशिवम् ।।३०६॥ इयत्यपि गते स्वामिन्! रक्ष रक्ष निजं कुलम् । उपायश्चाऽत्र नाऽन्योऽस्ति रामानुनयनं विना ।।३०७|| रावणस्तानवज्ञाय दूतं सामन्तमादिशत् । साम-दान-दण्डपूर्वमनुशिष्योपराघवम् ।।३०८।। स गत्वा द्वा:स्थविज्ञप्त: सुग्रीवादिसमावृतम् । पद्मनाभं नमस्कृत्य व्याजहारेति धीरगी: ॥३०९।। दशास्यस्त्वां वदत्येवं बन्धुवर्ग विमुञ्च मे । जानकीमनुमन्यस्व राज्यार्धं च गृहाण मे ॥३१०॥ त्रीणि कन्यासहस्राणि तुभ्यं दास्यामि, तेन च। सन्तुष्य, नो चेत् ते सर्वं न ह्येतन्न च जीवितम् ॥३११।। बभाषे पद्मनाभोऽथ नाऽर्थो मे राज्यसम्पदा। न चाऽन्यप्रमदावर्गभोगेन महताऽपि हि ॥३१२॥ प्रेषयिष्यत्यर्चयित्वा जानकीं रावणो यदि । तदा मोक्ष्यामि तद्वन्धु-तनयानन्यथा न हि ॥३१३॥ सामन्तः पुनरप्यूचे राम! नैतत् तवोचितम् । स्त्रीमात्रकस्याऽस्य कृते स्वं क्षेप्तुं प्राणसंशये ॥३१४।। सौमित्रिरेकवारं चेज्जीवितो रावणाहत: । जीविष्यति कथं सोऽद्य त्वं चाऽमी च प्लवङ्गमा: ? ॥३१५।। एकोऽपि रावणो हन्तुमिदं विश्वमपीश्वरः । सर्वथा तद्वचो मान्यमुदर्कं विमृश स्वयम् ॥३१६।। लक्ष्मणस्तद्राि क्रुद्धोऽभ्यधारे दूतपांशन! । स्वशक्तिं परशक्तिं वा वेत्त्यद्याऽपि न रावणः ॥३१७।। हत-बद्धपरीवारो भार्याशेषीकृतोऽपि सन् । पौरुषं नाटयत्येष एषा का तस्य धृष्टता ? ॥३१८॥
शलश्छिन्नाशेषजटस्तरुः । यथा सोऽपि तथैकाङ्ग: कियत् स्थास्यति रावणः ॥३१९।। तद् गच्छ संवाहय तं युद्धाय दशकन्धरम् । कृतान्त इव सज्जो मे तं व्यापादयितुं भुजः ॥३२०।। लक्ष्मणेनैवमाक्षिप्तो विभाषितुमना: स तु । उत्थाय धृत्वा ग्रीवायां वानरैर्निरवास्यत ॥३२१॥ रावणाय स गत्वाऽऽख्यत् सर्वं राघववाचिकम् । सचिवान् रावणोऽप्यूचे किं कार्यं ? ब्रूत सम्प्रति ॥३२२॥ अब्रुवन् मन्त्रिणोऽप्येवं सीतार्पणमिहोचितम् । व्यतिरेकफलं दृष्टं पश्याऽन्वयफलं प्रभो! ॥३२३॥ अन्वय-व्यतिरेकाभ्यां सर्वं कार्यं परीक्ष्यते । एकेन व्यतिरेकेण किं स्थितोऽसि दशानन! ? ॥३२४।। अक्षता बहवोऽद्याऽपि बन्धवः सूनवश्च ते । सीतार्पणाद् विमुक्तैस्तै: सममेधस्व सम्पदा ।।३२५।। तेषां सीतार्पणगिरा मर्मणीव हतोऽधिकम् । अन्तर्दूनो दशमुखश्चिरं स्वयमचिन्तयत् ।।३२६।। पाविद्याया बहुरूपाया हृदि निर्णीय सोधनम् । शान्तिचैत्यं ययौ शान्तकषायीभूय रावणः ॥३२७॥ स्नात्रं श्रीशान्तिनाथस्य पयस्कुम्भैर्दशाननः । स्वयमिन्द्र इवाऽकार्षीद् भक्त्या विकसिताननः ॥३२८॥ गोशीर्षचन्दनेनाऽङ्गरागं पुष्पैश्च दैवतैः । पूजां विधाय श्रीशान्ते: स्तुतिमेवं विनिर्ममे ॥३२९॥ देवाधिदेवाय जगत्तायिने परमात्मने । श्रीमते शान्तिनाथाय षोडशायाऽर्हते नमः ॥३३०॥ श्रीशान्तिनाथ! भगवन्! भवाम्भोनिधिारण! । सर्वार्थसिद्धिमन्त्राय त्वन्नाम्नेऽपि नमो नमः ॥३३१।। ये तवाऽष्टविधां पूजां कुर्वन्ति परमेश्वर! । अष्टाऽपि सिद्धयस्तेषां करस्था अणिमादयः॥३३२॥ धन्यान्यक्षीणि यानि त्वां पश्यन्ति प्रतिवासरम् । तेभ्योऽपि धन्यं हृदयं तदृष्टो येन धार्यसे ॥३३३॥ देव! त्वत्पादसंस्पर्शादपि स्यान्निर्मलो जनः । अयोऽपि हेमीभवति स्पर्शवेधिरसान्न किम् ? ॥३३४॥ १. रावणः ।। २. सामदाम० मु.॥ ३. सीतां मम समर्पयेत्यर्थः ।। ४. वा ता. ॥ ५. सन्तुष्टो भव ॥ ६. उदर्कः फलमुत्तरम् ।। ७. हतबन्धु० मु. खं.१-२, पाता. ।। ८. यस्य वृक्षस्य मूले मुशलमात्रमेव अवशिष्टं, शेषा जटा: छिन्नाः, तादृशमूलयुक्ततरुरिव ।। ९. लक्ष्मणसन्देशम् ।। १०. सीतार्पणाभावेऽनर्थरूपं फलं दृष्टं इति व्यतिरेकः, अधुना सीतार्पणरूपस्याऽन्वयस्य फलं पश्य ।।११. बाहवो० पाता. ॥१२. साधनाम् ता.॥१३.०भूतरावण: पाता. ता.; शान्तकषायो भूत्वा ।। १४. ०तारणे पाता. ।। १५. सर्वार्थसिद्ध० ला.विना ॥१६. तैरक्षिभिदृष्टः ।।
पलाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org