________________
२०९
सप्तम: सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । सार्थवाहो विन्ध्यनामाऽभ्यगाद् गजपुरादिह। एकस्तन्महिषो मार्गेऽतिभारत्रुटितोऽपतत्॥२६९॥ तन्मूर्ध्नि पादं विन्यस्य सञ्चचार पुरीजनः । उपद्रवेण महता विपन्न: सोऽथ सैरिभः ॥२७०॥ सोऽकामनिर्जरायोगाच्छेतकरपुरेश्वरः । सुरो वायुकुमारोऽभून्नाम्ना पवनपुत्रकः ॥२७१॥ ज्ञात्वा चाऽवधिना पूर्वं मृत्यु प्रकुपितोऽथ सः । पुरे जनपदे चाऽस्मिन् व्याधीन् नानाविधान् व्यधात् ॥२७२।। देशे गृहे च न व्याधिरभून्मन्मातुलस्य तु । द्रोणमेघनरेन्द्रस्य मन्महीवर्तिनोऽपि हि ॥२७३॥ अव्याधिकारणं पृष्टो मया द्रोणघनोऽवदत्। भार्या प्रियङ्करा मेऽभूत् पुराऽतिव्याधिबाधिता॥२७४।। जाते गर्भे तत्प्रभावाद् व्याधिनाऽमुच्यताऽथ सा । सुषुवे च क्रमात् पुत्रीं विशल्यामभिधानतः ॥२७५।। त्वद्देश इव मद्देशेऽप्युद्भूते व्याध्युपद्रवे । विशल्यास्नानतोयेन सिक्तो लोकोऽभवद् विरुक् ॥२७६।। पृष्टो मया सत्यभूतशरणो मुनिरन्यदा। वदति स्म विशल्याया: प्राग्जन्मतपसः फलम् ॥२७७।। व्रणरोहणं शल्यापहारो व्याधिसङ्ग्यः। नृणां स्नानाम्भसाऽप्यस्या भावी भर्ता च लक्ष्मणः ॥२७८।। तया मुनिगिरा सम्यग् जातादनुभवादपि । विशल्यास्नानपयस: प्रभावो निश्चितो मया ॥२७९।। इत्यदित्वा द्रोणमेघो विशल्यास्नपनोदकम। ममाऽपि ह्यार्पयत तेनाऽभवद भमिर्ममाऽप्यरुक॥२८०॥ तस्याः स्नानाम्भसाऽनेन मया सिक्तस्त्वमप्यहो! । निःशक्तिशल्य: संरूढव्रणश्च समभूः क्षणात् ॥२८१।। भरतस्य ममाऽप्येवमुत्पन्न: प्रत्यय: प्रभो! । आ प्रत्यूषादानयत विशल्यास्नानवारि तत् ॥२८२॥ त्वर्यतां त्वर्यतां तस्मात् प्रत्यूषे किं करिष्यथ ? । पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिप: ? ॥२८३।।
भामण्डलं हनूमन्तमङ्गदं च रघूद्वहः । आदिशत् प्रतिभरतं विशल्यास्नानवारिणे ॥२८४।। प्रययुस्ते विमानेनाऽयोध्यां पवनरंहसा । प्रासादाङ्के च ददृशुः शयानं भरतं नृपम् ।।२८५॥ भरतस्य प्रबोधाय ते गीतं चक्रुरम्बरे । राजकार्येऽपि राजान उत्थाप्यन्ते ह्युपायत: ॥२८६।। विबुध्य भरतेनाऽपि दृष्टः पृष्टः पुरो नमन् । ऊचे भामण्डल: कार्यं नाऽऽप्तस्याऽऽप्ते प्ररोचना ।।२८७।। सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तद्विमानाधिरूढोऽगात् पुरं कौतुकमङ्गलम् ॥२८८॥ भरतेन द्रोणघनो विशल्यामथ याचितः । सहोद्वाह्य स्त्रीसहस्रसहितां तामदत्त च ॥२८९।। भामण्डलोऽप्ययोध्यायां मुक्त्वा भरतमुत्सुकः । आययौ सपरीवारो विशल्यासंयुतस्ततः ॥२९०॥ ज्वलद्दीपविमानस्थो भीतैः सूर्योदयभ्रमात् । क्षणं दृष्टो निजैः सोऽधाद् विशल्यामुपलक्ष्मणम् ॥२९१॥ तया च पाणिना स्पृष्टाल्लक्ष्मणात् तत्क्षणादपि । निर्जगाम महाशक्तिर्यष्टिनेव महोरगी ॥२९२॥ समुत्पतन्ती सा शक्तिः समुत्पत्य हनूमता। प्रसभं जगृहे श्येनविहगेनेव वर्तिका ॥२९३।। साऽप्यूचे देवतारूपा न मे दोषोऽस्ति कश्चन । प्रदत्ता धरणेनाऽस्मै प्रज्ञप्तिभगिनी ह्यहम् ।।२९४।। विशल्याप्राग्भवतपस्तेजः सोढुमनीश्वरी । एषा यास्यामि मां मुञ्च प्रेष्यभावादनीगसम् ॥२९५।। इत्युक्तो मुक्तवान् शक्तिंमारुतिस्तां महाभुजः । मुक्तमात्रा च सा शक्तिलज्जितेव तिरोदधे॥२९६।। विशल्याऽपि हि सौमित्रिं भूय: पस्पर्श पाणिना। विलिलेप च गोशीर्षचन्दनेन शनैः शनैः ।।२९७।। रूढव्रणोऽथ सौमित्रिर्द्राक् प्रसुप्त इवोत्थितः। सस्वजे रामभद्रेण वर्षताऽश्रुजलं मुदा ॥२९८॥ सर्वं विशल्यावृत्तान्तं रामस्तस्मै शशंस च। तत्स्नानपयसा चाऽऽशु स्वान् पैरांश्चाऽभ्यषेचयत् ॥२९९॥ १. महिषः ।। २. रभून्मे मातुल० खं.२ ।। ३. च खं.१-२॥४. व्याधिना मुमुचेऽथ० ला. ॥५. रोगरहितः॥६. सत्यभूति: पाता.; सत्यभूतचारणो हे. मो. ॥ ७. निजगाद मो.।। ८. अत्र स्थाने ला.सञकप्रतौ टिप्पितं गाथात्रिकमेवं"एवं साऽणंगसरा, वाससहस्साणि तिण्णि तवचरणं । काऊण य संविग्गा, ववसइ संलेहणं तत्तो ॥१॥ पच्चक्खिअ आहारं, चउव्विहं देहमाइअंसव्वं । भणइ अ हत्थसयाओ, एओ पुरओ ण गंतव्वं ।।२।। निअमस्स छट्ठदिवसे, वोलीणे नवरि खेअरो एक्को । नामेण लद्धिआसो, पणमिअमेरुं पडिनिअत्तो॥३॥इति वृद्धपद्मचरिते ॥" मुद्रिते पउमचरिए(पद्मचरिते) तु उ.६३, गाथा : ४९-५०-५१(पृ.३८८)। ९.सम्यग् ज्ञाना० ता.विना सर्वप्रतिषु, मु.॥१०. भूमिर्देशः ।।११. त्वमभूः मु.॥१२.०मुत्पन्नप्रत्ययं खं.१, पाता.॥१३. प्रात:कालात् पूर्वम् ।। १४. भग्ने 'उल्ललिते' इति टि. ला.॥१५. 'गणेशः' इति टि. ला.॥१६. पवनवेगेन ।। १७. प्रस्तावना-प्रीतिवाक्यं(खुशामत)॥१८. सह लक्ष्मणेन' इत्यध्याहारः; अथवा 'स:'-द्रोणघन:,'ह' इति स्फुटार्थे ऽव्ययम् ॥१९. सर्पिणी।।२०. 'चटिका' इति टि. ला.;'चकली' ।। २१.प्रैष्य० मु.॥२२. 'अपराधरहितां' इति टि. ला. ।। २३. वर्षताऽमू० खं.१-२, पाता. ॥ २४. रावणभटान् ॥
For Private & Personal Use Only
Jain Education intémonar
www.jainelibrary.org