________________
२०८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व भूयो रामो जगादैवं हता भार्या हतोऽनुजः । तिष्ठत्यद्याऽपिरामोऽयं शतधा न विदीर्यते॥२३४॥ सखे सुग्रीव! हनुमन्! भामण्डल! नलाऽङ्गद! । विराधाद्याश्च सर्वेऽपि यात स्वौकसि सम्प्रति ॥२३५।। सीतापहारात् सौमित्रिवधादप्यधिकं शुचे। सखे! बिभीषणाऽभूस्त्वं यत् कृतार्थीकृतोऽसि न ॥२३६॥ प्रात: पश्य परं बन्धो! निजबान्धववर्त्मना । नीयमानं स्वबन्धुं तं बन्धुरूपेण वैरिणम् ।।२३७।। प्रात: कृतार्थीकृत्य त्वामनुयास्यामि लक्ष्मणम् । लक्ष्मणं हि विना किं मे सीतया जीवितेन वा ? ||२३८।। बिभीषणो बभाषेऽथ किमधैर्यमिदं प्रभो! ? । शक्त्या हतोऽपि ह्यनया पुमान् जीवति यामिनीम् ॥२३९।। मन्त्र-तन्त्रादिना घातप्रतीकाराय सर्वथा । प्रयत्यतां प्रभो! यावन्न विभाति विभावरी ॥२४०।। आमेति राघवेणोक्ते सुग्रीवाद्यास्तु विद्यया । सप्त वप्रांश्चतुरान् राघवौ परितो व्यधुः ।।२४१॥ प्राच्या द्वारेषु तत्राऽस्थुः सुग्रीव: पावनञ्जयिः । तार: कुन्दो दधिमुखो गवाक्षो गवय: क्रमात् ॥२४२।। उदीच्यामङ्गदः कूर्मोऽङ्गो महेन्द्रो विहङ्गमः । सुषेणश्चन्द्ररश्मिश्च द्वारेष्वस्थुः क्रमादमी ।।२४३॥ प्रतीच्यां नील-समरशील-दुर्धर-मन्मथा: । जयश्च विजयश्चैव सम्भवश्चाऽवतस्थिरे ।।२४४।। भामण्डलो विराधश्च गजो भुवनजिन्नल: । मैन्दो बिभीषणश्चाऽस्थुर्दक्षिणस्यां क्रमादमी ॥२४५।। मध्ये कृत्वेति काकुत्स्थौ सुग्रीवाद्या महाभुजाः । प्रजागरपरास्तस्थुरात्मारामा इवोद्यता ॥२४६।।
सीतायाः कश्चिदाचख्यौ यच्छक्त्या लक्ष्मणो हतः । प्रातर्विपत्स्यते रामभद्रोऽपि भ्रातृसौहृदात् ॥२४७|| वज्रनिर्घोषवद् घोरं तच्छ्रुत्वा जनकात्मजा । पपात मूर्च्छया पृथ्व्यां लतेव पवनाहता ॥२४८।। विद्याधरीभिरम्भोभिः संसिक्ता लब्धचेतना । उत्थाय विललापैवं जानकी करुणस्वरम् ॥२४९।। हा वत्स! लक्ष्मण! क्वाऽगास्त्यक्त्वैकाकिनमग्रजम् । मुहूर्तमपि हि स्थातुं विना त्वामेष न क्षमः ॥२५०॥ धिगहं मन्दभाग्याऽस्मि यतो मम कृतेऽधुना । स्वामि-देवरयोर्देवतुल्ययोरीगागतम् ॥२५१।। प्रसीद मत्प्रवेशाय द्विधा भव वसुन्धरे! । प्रार्णनिर्याणहेतोस्त्वं भव वा हृदय! द्विधा ॥२५२।। एवं रुदन्ती करुणं सीतां काऽपि कृपावती। अवलोक्याऽवलोकिन्या विद्याधर्यब्रवीदिति ।।२५३।। भविष्यत्यक्षताङ्गस्ते प्रभाते देवि! देवरः । समं च रामभद्रेण त्वामेत्याऽऽनन्दयिष्यति ॥२५४॥ स्वस्थावस्था तद्गिराऽस्थात् काकुत्स्र्थगृहिणी तदा । सूर्योदयं चिन्तयन्ती चक्रवाकीव जाग्रती ॥२५५।। पासौमित्रिर्मारितोऽद्येति क्षणं जहर्ष रावणः । क्षणं स्मृत्वा भ्रातृ-पुत्र-मित्रबन्धं रुरोद च ॥२५६।। हा वत्स! कुम्भकर्ण! त्वं ममाऽऽत्मैवाऽपरः परः । द्वितीयाविव मे बाहू हेन्द्रजिन्मेघवाहनौ! ॥२५७|| हा वत्सा! जम्बुमाल्याद्या! मम रूपान्तरोपमा:! । अप्राप्तपूर्वं प्राप्ता: स्थ कथं बन्धं गजा इव ? ॥२५८।। स्मारं स्मारं स्वबन्धूनामित्थं बन्धादि नूतनम् । भूयो भूयो दशग्रीवो मुमूर्च्छ च रुरोद च ॥२५९।। पाइतश्च पद्मसैन्येऽवाक्प्राकारद्वाररक्षकम् । भामण्डलमुपेत्यैवं कोऽपि विद्याधरोऽवदत् ॥२६०।। पद्मपादान् दर्शय मे तदाप्तो ननु यद्यसि । अहं लक्ष्मणजीवातुमाख्यास्यामि हितोऽस्मि वः ॥२६१॥ विधृत्य पाणिना दोष्णि नीतो भामण्डलेन स: । पद्यस्य पादपद्मान्ते प्रणम्यैवं व्यजिज्ञपत् ॥२६२।। सङ्गीतपुरनाथस्य शशिमण्डलभूपतेः । तनयः प्रतिचन्द्रोऽहं सुप्रभाकुक्षिसम्भवः ॥२६३॥ क्रीडार्थं सकलत्रोऽहं चलितोऽन्येधुरम्बरे । दृष्टः सहस्रविजयनाम्ना विद्याधरेण च ॥२६४॥ तेन मैथुनिका वैरादु योधितोऽहं चिरं तदा। पातितश्चण्डरवया शक्त्या चाऽऽहत्य भतले ॥२६५॥ साकेतपुर्यां माहेन्द्रोदयोद्याने लुठन् भुवि । दृष्टश्च भरतेनाऽहं त्वद्भात्राऽतिकृपालुना ।।२६६।। सद्यो गन्धाम्बुभिस्तेन सिक्तोऽहं पृथिवीभुजा । मत्तश्च निरगाच्छक्तिर्दस्युः परगृहादिव ॥२६७।। सद्यो रूढप्रहारेण मया विस्मितचेतसा । पृष्टो गन्धाम्बुमाहात्म्यमित्यशंसत् तवाऽनुजः ॥२६८।। १. शोकाय ॥२. 'त्वं अस्माभिः कृतार्थो न कृतः' इति विचारोऽस्माकं महते शोकाय भवति ।। ३. लक्ष्मणवर्त्मना मृत्युरूपेणेत्यर्थः ।। ४. स्वस्य-तव बन्धुंरावणम् ।। ५. रात्रिम् ।। ६. प्रतिकाराय ता. ॥७. रात्रिः।। ८. मन्दो पाता. ला.; मेन्दो खं.१-२॥ ९. जागरूकाः ।।१०. योगिनः ॥११. प्राणनिर्वाण मु., रस्वीपा.; प्राणनिर्गमनहेतुना ॥१२. भविष्यति शुभाङ्गस्ते ला. ॥१३. सीता ।। १४. बन्धनम् ॥१५. हा! इन्द्र० इति पदच्छेदः ।। १६. ०सैन्ये प्राक्० मु., रस्वीपा.; "दक्षिणोत्पन्न” इति टि.ला. ॥ १७. अलं मु., रस्वीपा. ।। १८. जीवनौषधम् ।। १९. मैथुननिमित्तकात् ।। २०. चौरः ।। २१. गन्धाम्बुमाहात्म्य शशंसैवं तवा० ला.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org