________________
२०७
सप्तमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। राक्षसानेव'मन्यानप्यरौत्सुः कपयोऽपरे। अयुध्यन्त चतैः सार्धं नक़र्नका इवाऽर्णवे॥१९९॥ एवं युद्धे वर्तमाने भीषणेभ्योऽपि भीषणे। लक्ष्मणायाऽमुचत् क्रोधादत्रं तामसमिन्द्रजित् ॥२००॥ तदस्त्रं तपनास्त्रेण सौमित्रिः शत्रुतापनः । सद्यो विद्रावयामासाऽनिना मेदनपिण्डवत् ॥२०१॥ सौमित्रिर्नागपाशास्त्रं ममोचेन्द्रजिते क्रधा। तन्तुनाऽम्भसि हस्तीव स तेन द्रागबध्यत ।।२०२।। आक्रम्यमाणसर्वाङ्गो नागास्त्रेण दशास्यसू: । निपपाताऽशनिरिव दारयन् सागराम्बराम् ॥२०३।। चिक्षेप स्वरथाङ्के तं विराधो लक्ष्मणाज्ञया। कारापाल इवाऽनैषीनिजे च शिबिरे द्रुतम् ॥२०४॥ नागपाशैः कुम्भकर्णं त्वबध्नाल्लक्ष्मणाग्रजः । भामण्डलस्तं शिबिरेऽनैषीद् रामाज्ञया ततः ॥२०५।। अन्येऽपि प्रतियोद्धारो बद्धा रामस्य सैनिकैः । मेघवाहनमुख्यास्ते निन्यिरे शिबिरे निजे ॥२०६।। पादृष्ट्वा दशमुखस्तत् तु क्रोधशोकसमाकुल: । बिभीषणाय चिक्षेप शूलं मूलं जयश्रियः ॥२०७।। तच्छूलमन्तरालेऽपि कदलीकाण्डलीलया। चकार कणशो रामावरज: पत्रिभिः शितैः ॥२०८।। धरणेन्द्रप्रदत्तां ताममोघविजयाह्वयाम् । विजयार्थी दशग्रीवो महाशक्तिं समुद्दधे ॥२०९॥ धगद्धगिति ज्वलन्तीं तडत्तडिति नादिनीम् । संहाराब्दतडिल्लेखामिव खेऽभ्रमयत् स ताम् ॥२१०॥ अपसमुर्दिवि सुरा दृशं सैन्या न्यमीलयन् । तां विलोक्य न केऽप्यस्थुः सुस्थितं सुस्थिता अपि ॥२११॥ राम: सौमित्रिमित्यूचेऽस्माकमेष बिभीषणः । आगन्तुर्हन्यते हन्त धिग् न आश्रितघातिनः ॥२१२।। इति रामवचः श्रुत्वा सौमित्रिर्मित्रवत्सलः । बिभीषणाग्रे गत्वाऽस्थादाक्षिपन् दशकन्धरम् ॥२१३।। पुरःस्थं गरुडस्थं तं प्रेक्ष्योवाच दशाननः । न तुभ्यं शक्तिरुत्क्षिप्ता मा मृथा: परमृत्युना ॥२१४।। म्रियस्व यदि वा मार्यस्त्वमेवाऽसि यतो मम । वराकस्त्वत्पदे ह्येष ममाऽग्रेऽस्थाद् बिभीषणः ॥२१५॥ इत्युक्त्वा भ्रमयित्वा तां शक्तिं रामानुजन्मने । मुमोच पैतदुत्पाताशनिकल्पां दशाननः ॥२१६।। तामापतन्तीं सौमित्रिः सुग्रीवो हनुमान् नल: । भामण्डलो विराधोऽन्येऽप्यस्त्रैः स्वैः स्वैरताडयन् ।।२१७।। साऽवज्ञाय तदस्त्रौघं व्यालद्विप इवाऽङ्कुशम् । और्वोनल इवाऽम्भोधौ लक्ष्मणोर:स्थलेऽपतत् ॥२१८॥ तया भिन्नो महीपृष्ठे निपपात च लक्ष्मणः । उत्पपात च तत्सैन्ये विष्वग् हाहारवो महान् ।।२१९॥ क्रुद्धोऽथ ज्येष्ठकाकुत्स्थो जिघुत्सुरिव रावणम् । आयोधयितुमारेभे पञ्चाननरथस्थितः ॥२२०॥ क्षणाच्चकार विरथं पञ्चाननरथो द्विषम् । दशाननोऽपि वेगेनाऽध्यारुरोह रथान्तरम् ॥२२१॥ भक्त्वा भङ्क्त्वा रथानेवं पञ्च वारान् दशाननम् । काकुत्स्थो विरथीचक्रे जंगदद्वैतपौरुषः ॥२२२।। दशास्योऽचिन्तयच्चैवं भ्रातृस्नेहादयं स्वयम् । मरिष्यत्येव तत् किं मे योधितेनाऽमुनाऽधुना ? ॥२२३।। दशग्रीवो विमृश्यैवं ययौ लङ्कापुरीं द्रुतम् । अस्तं जगाम च रवि: रामशोकादिवाऽऽतुरः ॥२२४।। पभग्नेऽथ रावणे रामो निवृत्त्येयाय लक्ष्मणम् । तं च दृष्ट्वा निपतितं पपात भुवि मूर्च्छितः ॥२२५।। सुग्रीवादिभिरासिक्तो रामश्चन्दनवारिणा । लब्धसज्ञो निषद्योपसौमित्रीत्यगदद् रुदन् ॥२२६॥ तव किं बाधते वत्स! ? ब्रूहि तूष्णीं स्थितोऽसि किम् ? । सञ्ज्ञयाऽपि समाख्याहि प्रीणयाऽग्रजमात्मनः ।।२२७।। एते त्वन्मुखमीक्षन्ते सुग्रीवाद्यास्तवाऽनुगाः। नाऽनुगृह्णासि किं वाचा दृशा वा प्रियदर्शन! ? ॥२२८॥ जीवन् रणाद् रावणोऽगादिति लज्जावशाद् ध्रुवम् । न भाषसे तद् भाषस्व पूरयिष्ये तवेप्सितम् ।।२२९॥ रे रे रावण! दुष्टात्मंस्तिष्ठ तिष्ठ क्व यास्यसि ? । एष प्रस्थापयामि त्वां नैचिराय महापथे ॥२३०॥ इत्युक्त्वा धनुरास्फाल्योदस्थाद् यावद् रघूद्वहः । तावत् कपीश्वेरेणैवमूचे विनयपूर्वकम् ॥२३१॥ स्वामिन्! निशेयमगमल्लङ्कां च स निशाचरः । शक्तिप्रहारविधुर: स्वामी नश्चैष वर्तते ॥२३२।। धैर्यमाधेहि जानीहि हतमेव दशाननम्। प्रतिजागरणोपायंसौमित्रेरेव चिन्तय ।।२३३॥ १. ०मन्योऽन्यमरौत्सुः पाता.प्रभृतिषु, मु. ॥२. मदनः 'मीण' ।। ३. दशास्यभूः ता. ।। ४. वज्रमिव ।। ५. पृथ्वीम् ॥ ६. स्वरथोत्सङ्गे ।। ७. तं ला. ॥ ८. तीक्ष्णैर्बाणैः ।।९. प्रलयकालीनमेघस्य विद्युल्लेखामिव ॥१०. सैनिकाः ॥११. सुस्थिता अपि दुःस्थिता खं.२॥१२. अतिथिः ॥१३. ममाऽग्रत: मो.॥
१४. रामानुजाय ताम् खं.२ ॥ १५. पतद् यदुत्पातोल्का-तत्तुल्याम् ॥ १६. उनिल: मु.वडवानलः ॥ १७. रामः ॥१८. भक्षणेच्छुः ।। १९. जगति Jain Education अद्वितीयपराक्रमः ।। २०. योधितेनाऽधुनाऽमुना मु. ॥ २१. सौमित्रिसमीपम् ॥ २२. शीघ्रम् ॥ २३. मृत्युपथे॥
www.jainelibrary.org