________________
२०६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
अनेन तातकल्पेन योद्धव्यं कथमद्य हा! । इतोऽपसरणं युक्तं न 'हीः पूज्याद्धि बिभ्यताम् ॥१६४॥ पाशबद्धाविमौ चाsरी निश्चितं हि मरिष्यतः । इहैव हि तदासातां तातो नाऽन्वेति नौ यथा ॥ १६५॥ विचिन्त्यैवं नेशतुस्तौ धीमन्तौ रावणी रणात् । पश्यन् बिभीषणश्चाऽस्थाद् भामण्डल - कपीश्वरौ ॥ १६६ ॥ चिन्ताम्लानाननौ तत्र तस्थतू राम-लक्ष्मणौ । हिमानीच्छन्नवपुषौ सूर्याचन्द्रमसाविव ॥१६७॥ रामभद्रस्ततः पूर्वप्रतिपन्नवरं सुरम् । महालोचनमस्मार्षीत् सुपर्णामरपुङ्गवम् ॥ १६८ ॥ ज्ञात्वा चाऽवधिनाऽभ्येत्य ददौ पैद्याय सोऽमरः । विद्यां सिंहनिनादाख्यां मुशलं स्यन्दनं हलम् ॥१६९॥ लक्ष्मणाय ददौ विद्यां गारुडीं स्यन्दनं तथा । गदां च विद्युद्वर्देनां समरे रिपुंनाशिनीम् ॥ १७० ॥ वरुणा-ऽऽग्नेय-वायव्यप्रमुखाण्यपराण्यपि । दिव्यान्यस्त्राणि छत्रे च स ददावुभयोरपि || १७१ || सौमित्रेर्वाहनीभूतं गरुडं प्रेक्ष्य तत्क्षणम् । सुग्रीव - भामण्डलयोः प्रणेशुः पाशपन्नगाः ॥ १७२ ॥ जज्ञे जयजयाराव रामसैन्ये समन्ततः । रक्षोबलमिवाऽस्तं च ययौ देवोऽब्जिनीपतिः || १७३ || प्रातर्भूयोऽपि सैन्यानि रघूद्वह - दशास्ययोः । सर्वाभिसारसाराणि रणाङ्गणमुपासरन् ॥१७४॥ तेषां कृतान्तदन्ताभस्फुरदस्त्रभयङ्करः । अकाण्डारब्धसंवर्तः प्रावर्तत महारणः ॥ १७५ ॥ क्रुद्धैरक्षोभि रक्षोभिर्वानराणां वरूथिनी । मध्याह्रतापसन्तप्तैः सरसी सूकरैरिव ॥ १७६॥ भग्नप्रायां चमूं प्रेक्ष्य सुग्रीवाद्या महौजसः । रक्षोऽनीकेषु विविशुर्योगिनोऽन्यवपुः ष्विव ॥ १७७॥ विदुद्रुवू राक्षसास्तेऽप्याक्रान्तास्तैः कपीश्वरैः । नागा इव गरुत्मद्भिरद्भिरामघटा इव ॥ १७८॥ रक्षोभङ्गेन संक्रुद्धो दधावे रावणः स्वयम् । महारथप्रचारेण दारयन्निव मेदिनीम् ॥ १७९ ॥ तस्य प्रसरतो दाववह्नेरिव तैरस्विनः । मुहूर्तमपि नाऽग्रेऽस्थात् कपिवीरेषु कश्चन ॥१८०॥ तद्युद्धे चलितं रामं निषिध्य प्रश्रयादथ । बिभीषणः क्षणादेत्य रुरोध दशकन्धरम् ॥ १८९॥ तं रावणवद् रे! कंश्रितोऽसि बिभीषण! । क्रुद्धस्य मम येनाऽऽजौ क्षिप्त: कवलवन्मुखे ॥१८२॥ व्याधेनेव किरौ श्वानं मयि त्वां रे! प्रतिर्वैता । रामेण मन्त्रितं साधु साध्विदं ह्यात्मरक्षिणा ॥ १८३।। अद्याऽपि मम वात्सल्यं त्वयि वत्साऽस्ति गच्छ तत् । एतौ ह्यद्य हनिष्यामि ससैन्यौ राम-लक्ष्मणौ ॥ १८४ ॥ अमीषां वध्यमानानां मा सङ्ख्यापूरणः स्म भूः । एहि स्वस्थानमेव त्वं पृष्ठे हस्तोऽयमद्य ते ॥ १८५ ॥ बिभीषणोऽप्युवाचैवं रामोऽन्तक इव स्वयम् । अचालीत् त्वां प्रति क्रुद्धो निषिद्धश्च मया च्छ्लात् ॥ १८६॥ त्वां बोधयितुकामोऽहं युद्धव्याजादिहाऽऽगतः । अद्याऽपि मुच्यतां सीतां प्रसीद कुरु मद्वचः ॥ १८७॥ हन्त! मृत्युभयान्नाऽहं राज्यलोभेन नाऽपि वा । गतोऽस्मि रामं निर्वेदभयात् किं तु दशानन ! ॥१८८॥ सीतार्पणेन निर्वादं प्रणाशय यथा ह्यहम्। पुनरेव श्रयामि त्वां विहाय रघुपुङ्गवम् ॥ १८९ ॥ क्रुद्धोऽथ रावणः प्रोचे किमद्याऽपि बिभीषिकाम् । रे बिभीषण! दुर्बुद्धे! प्रदर्शयसि कातर! ? ॥१९०॥ भ्रातृहत्याभयादुक्तोऽस्येवं नाऽन्येन हेतुना । इत्युक्त्वाऽस्फालयामास कौर्मुकं दशकन्धरः ॥१९१॥ भ्रातृहत्याभयादुक्तोऽस्येवं नाऽन्येन हेतुना । इत्युक्त्वाऽस्फालयामास धनुः सोऽपि बिभीषणः ॥ १९२॥ ततः प्रववृताते तौ भ्रातरौ योद्धुमुद्यतौ । चित्राण्यस्त्राणि कर्षन्तौ वर्षन्तौ च निरन्तरम् ॥१९३॥ ॥ अथेन्द्रजित्कुम्भकर्णौ राक्षसा अपरेऽपि च । स्वामिभक्त्याऽभ्यधावन्त कृतान्तस्येव किङ्कराः ॥ १९४॥ रामोऽरौत्सीत् कुम्भकर्णं लक्ष्मणो रावणिं पुनः । नीलस्तु सिंहजघनं दुर्मर्षश्च घटोदरम् ॥ १९५॥ स्वयम्भूर्दुर्मतिं शम्भुं नलवीरोऽङ्गदो मयम् । स्कन्दः पुनश्चन्द्रणखं विघ्नं चन्द्रोदरात्मजः ॥ १९६॥ केतुं भामण्डलनृपः श्रीदत्तो जम्बुमालिनम् । कुम्भकर्ण सुतं कुम्भं पवनञ्जयनन्दनः ॥१९७॥ किष्किन्धेशः सुमालाख्यं कुन्दो धूम्राक्षराक्षसम् । वालिसूश्चन्द्ररश्मिश्च भटं सारणराक्षसम् ॥ १९८॥
१. लज्जा ।। २. महद् हिमं हिमानी, तया छन्नं वपुर्ययोस्तौ ॥। ३. रामाय ॥ ४. विद्युद्गमनां ता ॥ ५. ० नाशनीम् ता ।। ६. “दिन २" इति टि.ला. ।। ७. सर्वौघसाराणि ॥ ८. अकाण्डे आरब्धः संवर्तः क्षयः यत्र ॥ ९. अक्षोभि क्षुब्धा ।। १०. सेना ॥। ११. गरुडैः ।। १२. जलैरपक्वघटा इव ।। १३. वेगवतः ।। १४. प्रणयात् ।। १५. "शूकरे" इति टि.ला. ।। १६. प्रेषयता ।। १७. ह्यात्मरक्षणम् मु.; ह्यात्मरक्षणात् मो. ॥। १८. पृष्ठौ ला. ।। १९. बलात् मु. ॥। २०. सीतां खं.१-२, पाता. ॥ २१. अपवादभयात् ॥ २२. भीतिम् ॥ २३. धनुः ।। २४. ०ऽप्येवं ला. ।। २५. दुर्मुखस्तु पाता. ला ॥ २६. ०स्तु खं. १-२ ॥ २७. Jain Education धूमाक्ष० खं. १ २, पाता.; धूमाख्य० ला. ॥
For Private & Personal Use Only
(सप्तमं पर्व
www.jainelibrary.org