________________
सप्तमः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। सुग्रीवो दलयामास कुम्भकर्णस्य सारथिम् । रथं रथ्यांश्च गदयाऽगदङ्कारो गदानिव॥१३०॥ भूमिष्ठः कुम्भकर्णोऽथ हस्तेनोदस्तमुद्गरः । एकशृङ्गो गिरिरिव सुग्रीवायाऽभ्यधावत ॥१३१।। युद्धार्थं धावतस्तस्याऽङ्गवातेन गरीयसा। भूयांस: कपय: पेतुः करिस्पर्शन वृक्षवत् ।।१३२॥ प्लवङ्गमैरस्खलित: स्थलैरिव नेदीरयः । सग्रीवरथमाहत्याऽचूर्णयन्मुद्रेण सः ॥१३३।। खे समुत्पत्य सुग्रीव: शिलामेकां महीयसीम् । मुमोच कुम्भकर्णाय वज्री वज्रमिवाऽद्रये ॥१३४॥ कुम्भकर्णो मुद्गरेण तां शिलां कणशोऽकरोत् । औत्पातिकी रजोवृष्टिं कपीनां दर्शयन्निव ।।१३५।। तडत्तडिति कुर्वाण तडिद्दण्डास्त्रमुत्कटम् । रावणावरजायाऽथ वालिनोऽवरजोऽमुचत् ॥१३६।। तडिद्दण्डाय चण्डाय तस्मै शस्त्राण्यनेकश: । कुम्भकर्णः प्रचिक्षेप मोघीभूतानि तानि तु ॥१३७॥ कुम्भकर्ण: पपातोल् तडिद्दण्डेन ताडितः । जगद्भयङ्कराकार: कल्पान्त इव पर्वतः ॥१३८।। मूर्च्छिते भ्रातरि क्रुद्धः स्वयमेव दशाननः । साक्षादिवाऽन्तकोऽचालीद् भ्रुकुटीभीषणाननः ॥१३९।। नत्वेन्द्रजित तमित्यूचे स्वामिंस्तव पुरो रणे । न यमो वरुणो नाऽपिन कुबेरोन वा हरिः ॥१४०॥ तिष्ठन्ति किं तु प्लवगा एवैते देव! तिष्ठ तत् । गत्वैष तान् हनिष्यामि रुष्टो मशकमुष्टिवत् ॥१४१॥ निषिध्यैवं दशग्रीवं मानोद्ग्रीवः स शक्रजित् । आघ्नानः प्रविवेशाऽन्त:कपिसैन्यं महाभुजः ॥१४२।। कासार: कासरस्येव भेकैरापतत: सत: । कपिभिर्मुमुचे तस्य समरोर्वी महौजसः ॥१४३।। स त्रस्यत: कपीनूचे रे रे! तिष्ठत वानरा:! । अयुध्यमानान्नो हन्मि रावणस्याऽस्मि नन्दनः ॥१४४।। क्व मारुति:? क्व सुग्रीवस्ताभ्यामप्यथवा कृतम् । क्व नु तौ राम-सौमित्री अभ्यमित्रीयमानिनौ ॥१४५।। इति ब्रुवाणं दोर्दादमर्षारुणितेक्षण: । रणायाऽऽह्वत सुग्रीवस्तं दशग्रीवनन्दनम् ॥१४६॥ भामण्डलोऽपीन्द्रजितोऽवरजं मेघवाहनम् । आयोधयितुमारेभे शरभं शरभो यथा ॥१४७।। दिग्गजा इव चत्वारश्चत्वार सागरा इव । आस्फालन्त: शुशुभिरे ते त्रिलोकीभयङ्कराः ॥१४८।। गतागतैस्तद्रथानामकम्पत वसुन्धरा । चकम्पिरे सानुमन्तश्चक्षोभ च महोदधिः ॥१४९।। बुबुधे नाऽन्तरं तेषां बाणाकर्षण-मोक्षयोः । अत्यन्तलघुहस्तानामविहस्तत्वशालिनाम्॥१५०॥ आयसैर्दैवतैरेस्त्रैरयुध्यन्त चिरायते । परं न कोऽपि केनाऽपि तेषां मध्यादजीयत॥१५१॥ अथो मुमुचतुः क्रुद्धाविन्द्रजिन्मेघवाहनौ । सुग्रीव-भामण्डलयो गपाशास्त्रमुद्धतम् ॥१५२।। नागपाशैस्तथा बद्धौ भामण्डल-कपीश्वरौ । अनीश्वरौ नि:श्वसितुमप्यभूतां यथा हि तौ ॥१५३।। पाइतश्च लब्धसज्ञेन कुम्भकर्णेन रोषतः । गदया ताडित: पृथ्व्यां मारुतिर्मुर्छितोऽपतत् ॥१५४॥ दोष्णा तक्षककल्पेन तं करीव करेण सः । सर्मुद्दधे वलयितेनाऽन्तःकक्षं न्यधत्त च ॥१५५॥ ऊचे बिभीषणो रामं स्वामिन्नेतौ हि ते बले । बलीयसौ सारभूतावानने नयने इव ॥१५६।। बद्धौ वैदेहि-सुग्रीवौ राँवणिभ्यां महोरगैः । यावल्लकां न नीयेते तावत् तौ मोचयाम्यहम् ॥१५७।। हनुमान् कुम्भकर्णेन बद्धो दोष्णा महौजसा । लङ्कामप्राप्त एवाऽयं मोचनीयो रघूद्वह! ॥१५८।। स्वामिन्! विना हि सुग्रीव-भामण्डल-हनूमत: । अवीरमिव न: सैन्यमनुजानीहि यामि तत् ॥१५९।। एवं तत्र ब्रुवत्येव वेगाद् गत्वाऽङ्गदो भटः । आक्षिप्य कुम्भकर्णेन युयुधे युद्धकोविदः ॥१६०॥ क्रोधान्ध्यात् कुम्भकर्णेन प्रोत्क्षिप्तभुजपाशत: । ययौ मारुतिरुत्पत्य विहङ्ग इव पञ्जरात् ॥१६१।। बिभीषणो मोचयितुं भामण्डल-कपीश्वरौ । रावणिभ्यां समं योद्धुमधावत रथस्थितः ॥१६२।। दध्यतुश्चेन्द्रजिन्मेघवाहनावेष न: पितुः । अनुजः स्वयमभ्येति कर्तुमस्माभिराहवम्॥१६३॥ १. अश्वान् ॥ २. वैद्यो रोगानिव ॥३. उदस्त:-ऊ/कृतः मुद्गरो येन सः ।। ४. वानरैः ।। ५. नदीवेगः।। ६. उत्पातिकी मु.।। ७. कुम्भकर्णाय ॥ ८. सुग्रीवः ।। ९. विफलीभूतानि ।।१०. भानुकर्णः खं.१-२, ला. हे. का. पा. छा. ॥११. भ्रकुटी० ला. ॥१२. किं नु मु.॥१३. 'मच्छर' इति भाषा ।। १४. मानेनोलग्रीवः ।। १५. घ्नन् ।।१६. तडागो महिषस्य इव ।। १७. आभिमुख्येन अमित्रान् शत्रून् अलङ्गामी अभ्यमित्रीयः, आत्मानं अभ्यमित्रीयं मन्यमानौ, वीरमानिनौ इत्यर्थः; "वैरिभूतौ" इति टि.ला. ॥ १८. लघुभ्रातरम् ।। १९. “अव्याकुलितत्व" इति टि. ला. ॥ २०. लोहमयैः ।। २१. श्वास्त्रै० ता. ॥ २२. असमर्थौ ।। २३. तक्षको नागः ।। २४. समुद्दधे ला. ॥२५. कक्षायाम् ॥२६. बद्ध्वा का. ला. पा. छा. ।। २७. भामण्डल: ।। २८. रावणपुत्राभ्याम् ।। २९. युद्धम् ॥
Jain Education Mernational
For Private & Personal Use Only
www.jainelibrary.org