________________
२०४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व अथरावणहुङ्कारप्रेरितै रजनीचरैः । सर्वैः 'सर्वाभिसारेण कपिसैन्या बभञ्जिरे॥९६॥ क्रद्ध: स्वसैन्यभङ्गेन सग्रीवोऽधिज्यकार्मकः । स्वयं चचाल चलयनचलां प्रबलैर्बलैः ॥१७॥ राजनिहैव तिष्ठ त्वं ममैवेक्षस्व विक्रमम् । एवं निषिध्य सुग्रीवं हनुमानचलद् युधि ।।९८॥ हनुमान् राक्षसानीकमनेकानीकदुर्मदम् । दुर्गाहमप्यगाहिष्ट महाब्धिमिव मन्दरः ॥९९॥ अथ पर्जन्यवद् गर्जनूर्जितं युधि दुर्जयः । अढौकत धनुस्तूणमाली माली हनूमते ॥१०॥ हनुमन्मालिनौ वीरौ धनुष्टङ्कारकारिणौ । पुच्छास्फोटकरौ सिंहाविवोद्दामौ विरेजतुः ।।१०१।। अस्त्रैर्मालि-हनूमन्तौ प्रजह्राते परस्परम् । चिच्छेदाते मिथोऽस्त्राणि मिथोऽतर्जयतां च तौ ।।१०२॥ चिरं च युद्ध्वा हनुमान् मालिनं वीर्यशालिनम् । चक्रे निरस्त्रं निस्तोयं ग्रीष्मार्क इव पल्वलम् ॥१०३।। गच्छ गच्छ जरद्रक्ष:! किं हतेन त्वया ननु ? । इति ब्रुवाणं श्रीशैलमेत्य वज्रोदरोऽवदत् ॥१०४।। अरे रे! म्रियसे पाप! वदन्नेवं हि कद्वद! । एह्येहि युध्यस्व मया न भवस्येष मा स्म गाः ॥१०५।। मारुतिस्तद्वचः श्रुत्वा हक्कामिव मृगाधिप: । बूत्कुर्वन्नुर्वहङ्कारश्छादयामास तं शरैः ॥१०६।। तद्बाणवृष्टिं निधूय शरैर्वज्रोदरोऽपि तम् । तिरयामास मार्तण्डं प्रावृट्काल इवाऽम्बुदैः ॥१०७।। अहो! वज्रोदरो वीरो योऽलमस्मै हनूमते । अहो! वीर: पावनिर्योऽलं वज्रोदररक्षसे ॥१०८॥ एवं गिरो रणक्रीडासदस्यानां दिवौकसाम् । असहिष्णुर्द्विषज्जिष्णुर्हनुमान् मानपर्वतः ।।१०९।। वर्षन् युगपदस्त्राणि चित्राण्युत्पातमेघवत् । वज्रोदरं तमवधीत् पश्यतामपि रक्षसाम् ।।११०||त्रिभिर्विशेषकम्।। पावज्रोदरवधक्रुद्धो रावणिर्जम्बुमाल्यथ । तर्जन् मारुतिमाह्वास्त प्रतिकार इव द्विपम् ।।१११॥ उभावपि महामल्लावन्योऽन्यवधकाङ्क्षिणौ । युयुधाते चिरं बाणैः पन्नगैर्वार्ति काविव ॥११२॥ इषुभ्यः प्रतियच्छन्तौ द्विगुणद्विगुणानिषून् । परस्परं प्रापतुस्तावेधमर्णोत्तमर्णताम् ॥११३॥ क्रुद्धोऽथ कृत्वा हनुमानरथ्यरथसारथिम् । तं द्विषं ताडयामास मुद्गरेण गरीयसा ॥११४॥ मूर्च्छितो जम्बुमाल्युफैं निपपाताऽऽपपात च । रुषा महोदरो रक्षोवीरो वर्षन्छिलीमुखान् ॥११५।। अन्येऽपि राक्षसभटा हनूमन्तं जिघांसवः । जात्यश्वान इव क्रोडं वेष्टयामासुरुच्चकैः ॥११६।। दोष्णो: केऽपि मुखे केऽपि केऽप्यंयोर्हदि केऽपि च। कुक्षौ केऽपि शरैस्तीक्ष्णैर्जनिरे ते हनूमता ॥११७।। अन्तर्वणं दव इव मध्येऽम्भोधीव वाडव: । मध्येरक्षोबलं वीरश्चकासामास मारुतिः॥११८।। क्षणादभासीद् रक्षांसि तमांसीव दिवाकरः । महौजसां शिरोरत्नं पवनञ्जयनन्दनः ॥११९।। पारक्षोभङ्गेन संक्रुद्धः कुम्भकर्णोऽथ शूलभृत् । ईशान इव भूमिष्ठः स्वयं योद्धुमधावत ॥१२०॥ कानप्यंह्रिप्रहारेण मुष्टिघातेन कानपि । कांश्चित् कूर्परघातेन तेलघातेन कांश्चन ॥१२१।। कांश्चिन्मुद्रघातेन शूलघातेन कांचन । कानप्यन्योऽन्यघातेन कुम्भकर्णोऽवधीत् कपीन् ।।१२२।।युग्मम्।। कल्पान्तार्णवकल्पं तमापतन्तं तरस्विनम् । रावणानुजमालोक्य सुग्रीव: समधावत ॥१२३।। भामण्डलो दधिमुखो महेन्द्रः कुमुदोऽङ्गदः । अपरेऽप्यन्वधावन्त प्रदीपर्ने इवोद्यते ॥१२४।। दशाननानुजं पञ्चाननं व्याधा इवाऽरुधन् । वर्षन्तोऽस्त्राणि चित्राणि युगपद् वानरोत्तमाः ॥१२५।। प्रस्वापनास्त्रं तेषूच्चैः कालरात्रिमिवाऽपराम् । रात्रिञ्चरवरोऽमुञ्चदमोघं मुनिवाक्यवत् ॥१२६।। निद्रायमाणं स्वं सैन्यं दिवा कुमुदखण्डवत् । दृष्ट्वा सस्मार सुग्रीवो महाविद्यां प्रबोधिनीम् ।।१२७।। अरे! क्व कुम्भकर्णोऽस्तीत्युच्चैस्तुमुलकारिणः । उत्तस्थुर्वानरभटा: खगा इव निशात्यये ।।१२८।। उपाद्रवन् कुम्भकर्णमाकर्णाकृष्टकार्मुका: । सुग्रीवाधिष्ठिता: सुष्ठयोधिन: कपिकुञ्जरा: ॥१२९।। १. सर्वबलेन ॥ २. “चापभस्त्रधारी" इति ला.टि.;(बाणनां भाथांवाळो) ॥३. पुच्छाच्छोट० ता.॥४. कुत्सितं वदति ॥५. हक्कारमिव केसरी खं.२, ता. ।। ६. महागर्विष्ठः।। ७. छादयामास ।। ८. "सभ्यानां" इति ला.टि.॥९. हस्तिपकः; “कुन्तारः" इति ला.टि. ॥१०. गारुडिकौ।।११. “यतः प्रतिनिधिप्रतिदाने प्रतिना(सि.२-२-७२)" इति पञ्चम्यत्र ॥१२. अधमर्ण:-ऋणदाता, उत्तमर्ण:-ऋणग्रहीता ॥ १३. निपपातोत्प० ता. मु. ।। १४. “आगात्" इति ला.टि.।। १५. बाणान् ।।१६. सूकरम् ।। १७. महौजसां पुरुषाणां मूर्धन्य:-हनुमान् ।।१८. ईशानेन्द्रः शङ्करो वा ।।१९. कूर्पर: कोणिः ।। २०. चपेटाघातेन ।। २१. कानपि ता. ॥ २२. "वेगवन्तं" इति ला.टि. ॥ २३. अग्नौ ।। २४. “निद्रास्त्रं" इति ला.टि. ॥ २५. रात्रिञ्चरेषु-निशाचरेषु वर:-कुम्भकर्णः॥२६. प्रबोधनीम् ता.।। २७. अरेरे! ता.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org