________________
सप्तमः सर्गः) त्रिषष्टिशलाकापुरुषचरितम्।
२०३ अस्त्राण्यस्त्रैर्वादयन्त: करास्फोटपुर:सरम्। राम-रावणयो: 'सैन्या: मिमिलु: कांस्यतालवत्॥६४॥युग्मम्।। गच्छ गच्छ तिष्ठ तिष्ठ मा भैषीरुत्सृजाऽऽयुधम् । कुरुष्वाऽऽयुधमित्याजौ भटानां तत्र वागभूत् ॥६५।। शल्यानि शङ्कवो बाणाश्चक्राणि परिघा गदाः । समुत्पेतुर्द्वयोश्चम्वोर्वनान्तर्विहगा इव ॥६६॥ खड्गैर्मिथो घातभग्नैर्वेगात् कृत्तैश्च मौलिभिः । उच्छलद्भिरभून्नानाकेतु-राह्विव खं तदा ॥६७।। सुभटा मुद्गराघातैर्लोठयन्तो द्विपान् मुहुः । दण्ड-कन्दुकिनी क्रीडां तन्वाना इव रेजिरे ॥६८॥ कुठारघातैराच्छिन्ना भटानामपरैर्भटैः । पञ्चशाखा: पतन्ति स्म शाखा: शाखावतामिव ॥६९॥ वीरा: शिरांसि वीराणां छित्त्वा भूमौ प्रचिक्षिपः । बुभुक्षिताय कीनाशायोचितान कवलानिव ॥७०॥ रक्षसां वानराणां च युद्धे तस्मिन् महौजसाम् । दायादानां धनमिव जय: साध्योऽभवच्चिरम् ॥७१।। चिरं प्रवर्तमाने च समरे तत्र वानरैः । अभञ्जि राक्षसबलं काननवन्महाबलैः ॥७२।। भग्ने रक्षोबले हस्त-प्रहस्तौ योद्धमुद्यतौ । वानरैः सह लकेशजयप्रतिभुवौ तदा ॥७३॥ द्वयोरपि तयोर्युद्धावरदीक्षितयोरथ। सम्मुखीनावुदस्थातां नल-नीलौ महाकपी॥७४।। हस्तो नलश्चाऽऽदितोऽपि सम्मुखीनौ महाभुजौ । रथारूढावमिलतां व॑क्रावक्रग्रहाविव ॥७५।।
आस्फालयामासतुस्तावधिज्यीकृत्य धन्वनी । ज्यानादेन मिथो युद्धनिमन्त्रणपराविव ॥७६।। तथा ववृषतुर्बाणांस्तौ द्वावपि परस्परम् । शरशूलैर्यथाऽभूतां रथौ श्वाविन्निभौ तयोः ॥७७|| क्षणं नले क्षणं हस्तेऽभूतां जयपराजयौ । तद्बलान्तरमज्ञायि न तत्र निपुणैरपि ॥७८।। सभ्यीभूतस्ववीराणामग्रे ह्रीणी नलो बली। अविहस्तो हस्तशिर: क्षुरप्रेणाऽच्छिदत् क्रुधा ॥७९॥ सद्य: प्रहस्तं नीलोऽपि हस्तं नल इवाऽवधीत् । दिवोऽभूत् पुष्पवृष्टिश्चोपरिष्टान्नल-नीलयोः ॥८॥ हस्त-प्रहस्तनिधनाद् दशाननबले क्रुधा। मारीच: सिंहजघन: स्वयम्भूः सारण: शुकः ॥८१।। चन्द्राऽर्कोद्दाम-बीभत्सा: कामाक्षो मकरो ज्वरः । गम्भीर: सिंहरथाश्वरथा अन्येऽप्युपासरन् ।।८२।।युग्मम्।। मदनाङ्कुर-सन्ताप-प्रेथिताक्रोश-नन्दनाः । दुरितानघ-पुष्पास्त्र-विघ्न-प्रीतिकरादयः ।।८३॥ कपयो राक्षसैः सार्धमयुध्यन्त पृथक् पृथक् । उत्पतन्त: पतन्तश्च कुक्कुटैरिव कुक्कुटाः ॥८४॥युग्मम्।। मारीचरक्ष: सन्तापं नन्दनो ज्वरराक्षसम् । उद्दामराक्षसो विघ्नं शुकं दुरितवानरः ॥८५।। राक्षस: सिंहजघन: प्रथितं नाम वानरम् । योधयित्वा दृढं जघ्नुर्ययावस्तं च भास्करः ॥८६॥युग्मम्।। द्वयोरपि हि सैन्यानि राम-रावणयोस्ततः । निवृत्त्याऽस्थुः शोधयन्त: स्वान् हतानहतानपि ॥८७|| विभातायां विभावर्यां प्रत्यर्कं दानवा इव। प्रतिरामबलं रक्षोयोधा योद्धं डुढौकिरे ॥८८|| मध्येसैन्यं दशास्यो भूमध्ये मेरुरिवाऽचल: । गजरथ्यरथारूढश्चचाल रणकर्मणे ॥८९।। बिभ्राणो विविधान्यस्त्राण्यन्तकादपि भीषण: । तत्कालारुणया शत्रून् दृशाऽपि हि दहन्निव ॥९०॥ पश्यन् प्रत्येकमप्यात्मसेनान्यं शैतमन्युवत् । मन्यमानस्तृणायाऽरीन् रावणोऽगाद् रणावनिम् ॥९१॥युग्मम्।। तेऽपि राघवसेनान्यः सैन्यैः सह महौजसः । वीक्ष्यमाणा दिव्यमरैः समरायोपतस्थिरे ॥१२॥ सनदीकमिव क्वाऽपि रक्तवारिभिरुद्धतैः। उत्पर्वतमिव क्वाऽपि पतितैर्गुरुकुञ्जरैः ।।९३॥ क्वचिच्चोन्मकरमिव मकैरास्यै रथच्युतैः । उद्दन्तमिव च क्वाऽपि सॉमिभग्नैर्महारथैः॥१४॥ उत्ताण्डवैः कर्बन्धैश्च नृत्तस्थानमिव क्वचित् । अजायत क्षणेनाऽपि सैमराजिरभूतलम् ।।९५||त्रिभिर्विशेषकम्।। १. सैनिकाः ।। २. त्यज ।। ३. युद्धभूमौ ।। ४. तोमराणि,कीलकाः ।। ५.०वनयो० रसंपा. ॥ ६. छिन्नमस्तकैः ।। ७. अनेके केतवो राहवश्च यस्मिन् तद्आकाशम् ।। ८. "गेडीदडानी" इति ला.टि.॥९. "हस्ताः " इति ला.टि.; “पञ्चशाख: शयः पाणि: (अमर:)" ॥१०. वृक्षाणाम् ॥११. यमाय ।।१२. भागग्राहकाणाम् ।। १३. “वायुभिः" इति ला.टि.; "मातरिश्वा जगत्प्राणः, पृषदश्वो महाबल:(अ.चिं.)" || १४. लकेशजये छा. पा. ॥१५. "पटू" इति ला.टि. ॥१६. सदा ता. विना ।। १७. युद्धयज्ञे दीक्षितयोः ॥१८. वक्रोऽवक्रश्च द्वौ ग्रहौ, तयोमिलनवत् ॥१९. श्वावित्-"शाहुडी" ||२०. सभ्यीभूय० पाता.॥२१. लज्जितः।।२२. “अनाकुल:" इति ला.टि.॥२३. सिंहरथ्याश्वरथ्या० खं.१-२, पाता.॥२४. "ढौकिताः" इति ला.टि. ॥२५. रामपक्षीयसुभटनामानि ।। २६.०प्रतापा० ला. ।। २७. उत्पतन्तो निपतन्त: कुर्कुटै० ता. ॥२८. "दिन: प्रथमः" इति ला.टि. ॥२९. प्रभातसमये जाते ।।३०. सूर्य प्रति दानवा योद्धमायान्तीति लौकिकशास्त्रप्रसिद्धिः ॥ ३१. गजा रथ्या-रथवोढारो यस्यैतादृशं रथमारूढः ।। ३२. ०कर्मणि पाता. ।। ३३. इन्द्रवत् ।। ३४. दिवि
अमरैः ।। ३५. पतितैः कपि० खं.१-२, पाता. मु.; पतितैः करि० ला. पा. छा. ता. ॥ ३६. मकरमुखैः, काष्ठमयमकराकृतयो रथे निक्षिप्यन्ते स्म ॥ ३७. Jain Education | अर्धभौः ॥ ३८. छिन्नमस्तकै: कलेवरैः ॥३९. “सङ्ग्रामाङ्गणभूमितलं" इति ला.टि. only
www.jainelibrary.org