________________
२३४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व इत्युक्त्वा राममानम्याऽमृतघोषमुनेः पुरः। उभौ जगृहतुर्दीक्षांक्रमाच्च शिवमीयतुः॥१३८॥ बारामो भ्रातृविपत्त्या च वियोगेन च पुत्रयोः । मुमूर्छ भूयो भूयोऽपि मोहादेवं जगाद च ॥१३९।। मयाऽपमानना काचित् क्वचिच्चक्रेऽद्य बान्धव! ? । कस्मादकस्मादालम्बि भवता मौनमीदृशम् ? ॥१४॥ त्वयि ह्येवं स्थिते भ्रात:! पुत्राभ्यामपि चोज्झितः । प्रविशन्ति च्छिद्रशते नृणां भूतशतानि हि ॥१४१।। उन्मत्तभाषिणं चैवं राममेत्य कथञ्चन । बिभीषणाद्या: सम्भूय जगदुर्गद्गदस्वरम् ।।१४२॥ धीरेष्वपि हि धीरस्त्वं वीरो वीरेष्विव प्रभो! । लज्जाकरमिदं तस्मादधैर्यं मुञ्च सम्प्रति ॥१४३।। लोकप्रसिद्धमधुना सौमित्रेरौदैहिकम् । अङ्गसंस्कारपूर्वं हि कर्तव्यं समयोचितम् ॥१४४॥ इत्युक्त्या कुपितो रामस्तानूचे विधुताधरः । जीवत्येष हि मे भ्राता किमिदं वो वच: खला:! ? ॥१४५।। सर्वेषां व: सबन्धूनां ज्वलने दाहपूर्वकम् । मृतकार्यं विधातव्यं दीर्घायु: स्तान्ममाऽनुजः ॥१४६।। भ्रातर्धातब्रूहि शीघ्रं वत्स! लक्ष्मण! नन्वयम् । दुर्जनानां प्रवेशोऽस्ति किं खेदयसि मां चिरम् ? ॥१४७।। यद् वा खलसमक्षं न वत्स! कोपस्तवोचितः । इत्युक्त्वांऽसे तमारोप्य ययावन्यत्र राघवः ॥१४८।। नीत्वा स्नानगहे रामः कदाऽप्यस्नपयत स्वयम् । ततश्च तं स्वहस्तेन विलिलेप विलेपनैः ॥१४९॥ आनाय्य दिव्यभोज्यानि पूरयित्वा च भाजनम् । कदाचित् तस्य पुरतो मुमोच स्वयमेव च ॥१५०॥ कदाऽप्यारोपयदङ्के निजेऽचुम्बच्छिरो मुहुः । कदाऽप्यस्वापयत् तल्पे वाससाऽऽच्छादिते स्वयम् ॥१५१॥ कदाऽपि स्वयमाभाष्य स्वयं स्म प्रतिभाषते। स्वयं संवाहकीभूय ममर्द च कदाचन ॥१५२।। इत्यादि चेष्टा विकला: स्नेहोन्मत्तस्य कुर्वत: । ययू रामस्य षण्मासा विस्मृताशेषकर्मणः ॥१५३॥ पाश्रुत्वा च तं तथोन्मत्तमिन्द्रजित्सुन्दसूनवः । खेचरा विद्विषोऽन्येऽपि राममेयुर्जिघांसवः ॥१५४॥ अयोध्यां रुरुधुः सैन्यैरुन्मत्तरघुपुङ्गवाम् । सुप्तसिंहां गिरिगुहामिव व्याधाश्छलौजसः ॥१५५।। रामोऽपि लक्ष्मणं स्वाङ्के निधायाऽऽस्फालयद् धनुः । वज्रावर्तमकालेऽपि संवर्तस्य प्रवर्तकम् ।।१५६।। तदा चाऽऽसनकम्पेन माहेन्द्रान्नाकिभिः समम् । जटायुराययौ रामं दृढात् प्राग्जन्मसौहृदात् ॥१५७।। अद्याऽपि नाकिनो रामगृह्या इति विभाषिणः । इन्द्रजित्पुत्रमुख्यास्ते दुद्रुवुः खेचरा द्रुतम् ॥१५८।। अत्र देवसखोरामो हन्ता नोऽग्रे बिभीषणः। ईति भीता लज्जिताश्च ते संवेगं परमं दधुः ॥१५९।। ते मुनेरतिवेगस्य पार्श्वे संवेगधारिणः । उपेत्य दीक्षां जगृहुर्गृहवासपराङ्मुखाः ॥१६०॥ पाततो जटायुरमरो बोधार्थं राघवस्य सः । पुरःस्थाय तरुं शुष्कं सिषेच मुहुरम्भसा ॥१६१॥ क्षिप्त्वा कीषं दृषदि रोपयामास पद्मिनीम् । बीजान्युवापाऽकालेऽपि मृतोक्ष्णा लाङ्गलेन चे॥१६२।। यन्त्रे च वालुका: क्षिप्त्वा तैलार्थं पर्यपीलयत् । इत्याद्यसाधकं रामस्याऽन्यदप्युदभावयत् ॥१६३॥ रामस्तमूचे किं शुष्कं तरुं सिञ्चसि भो! मुधा ? । फलं दूरेऽस्तु किं नाम मुसलं क्वाऽपि पुष्पति ? ॥१६४॥ शिलायां पद्मिनीखण्डमारोपयसि मुग्ध! किम् ? । किं वा वपसि बीजानि निर्जलेऽपि मृतैर्वृषैः ? ॥१६५।। न वालुकाभ्यस्तैलं स्यात् किं पीलयसि मूर्ख! ता: ? । अनुपायविदस्तेऽसौ प्रयास: सर्वथा वृथा ॥१६६।। स्मित्वा जटायुरप्यूचे यदीयदपि वेत्सि भो:! । अज्ञानचिह्न मृतकं स्कन्धे वहसि तर्हि किम् ? ॥१६७।। सौमित्रिवपुरालिङ्ग्य रामस्तं प्रत्यभाषत । अमङ्गलं भाषसे किं ? त्यज दृष्टिपथं मम ॥१६८॥
एवं जटायुषं रामे भाषमाणेऽवधेर्विदन् । कृतान्तवदनो देवस्तद्बोधार्थं समाययौ ॥१६९।। स्कन्धे स्त्रीमृतकं न्यस्योपरामं विचचार स: । रामोऽप्यूचे किमुन्मत्तोऽस्येवं स्त्रीमृतकं वहन् ? ॥१७०॥ प्रत्युवाच कृतान्तोऽपि भाषसे किममङ्गलम् ? । ममैषा प्रेयसी त्वं तु किं शवं वहसि स्वयम् ? ॥१७१।। १. मयाऽपमानता मु. रस्वीपा. ।। २. ० रूर्ध्व० खं.१॥ ३. ०देहिकम् खं.१-२, ला. ॥ ४. कम्पितौष्ठः ।। ५. भ्रातस्त्वं तद् ब्रूहि ला. ।। ६. स्कन्धे ।। ७. शय्यायाम् ।। ८. तैलमर्दको भूत्वा ।। ९. ययौ रामस्य षण्मासी मु.॥१०. विद्विषो (प) एते राम० ला. ॥११. रामस्येयु० कां. मो. मु. ॥१२. छलमेव ओजो येषां ते॥१३. देवा रामस्य पक्षपातिनः ।।१४. देवसखा ला.विना ॥१५. नाऽने ला. ॥१६. इति ते लज्जिताश्चित्ते संवेगं परमं दधुः ला. ।। १७.
पुर: स्थित्वा ।।१८. गोमयम् ।।१९. पधिनी: खं.२, पाता. ता. ।। २०. मृतौ वृषभौ योजितौ यस्मिन् लागले-हले-तेन ।। २१. वा ता. ॥ २२. वालुकां ला.।। Jain EducaR३.पुष्यति ता.; पुष्यति मु.॥२४. निर्जले मृतकैर्वृषः ता. ।। २५. मुग्ध पाता ॥ २६.भोः कां. मु. ॥ २७. जटायुषा पाता. ।। २८. रामसमीपम् ।ww.jainelibrary.org