________________
दशमः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
मृतां जानासि मे भार्यामुह्यमानां मया यदि । निजस्कन्धस्थितं किं न मृतकं वेत्सि 'बुद्धिमन्! ? ।।१७२॥ तेनैवं दर्शितैस्तैस्तैर्हेतुभिर्जातचेतनः । रामो दध्यौ किं नु सत्यं न जीवति ममाऽनुजः ? ॥१७३॥ ततस्तौ लब्धबोधाय रामाय स्वमशंसताम् । देवौ जटायुः कृतान्तौ निजस्थानं च जग्मतुः ॥१७४॥ " मृतकार्यं ततो रामश्चकार स्वानुजन्मनः । दीक्षां प्रपित्सुः शत्रुघ्नं राज्यदानाय चाऽऽदिशत् ।। १७५ ।। अहमप्यनुयास्यामि भवत्पादानिति ब्रुवन् । प्रत्यादिदेश शत्रुघ्नो राज्यं भवपराङ्मुखः ॥१७६।। ततो लवणपुत्रायाऽनङ्गदेवाय राघवः । ददौ राज्यं स्वयं तुर्यपुरुषार्थाय सत्वरः ॥१७७॥ मुनिसुव्रतवंशस्य सुव्रतस्य महामुनेः । अर्हद्दासश्रावकेणोपदिष्टस्याऽन्तिकं ययौ ॥ १७८ ॥ तत्र शत्रुघ्न-सुग्रीव-बिभीषण-विराधितैः । अन्यैश्च राजभिः सार्धं रामो व्रतमुपाददे || १७९|| रामभद्रे तु निष्क्रान्ते निष्क्रान्तान्यथ षोडश । महीभुजां सहस्राणि भववैराग्ययोगतः ॥ १८० ॥ सप्तत्रिंशत् सहस्राणि प्राव्रजन् वरयोषितः । श्रीमत्याः श्रमणायाश्च ता बभूवुः परिच्छदे ॥ १८९ ॥ षष्ठ्यब्दीं गुरुपादान्ते विविधाभिग्रहोद्यतः । तेपे तपांसि रामर्षि: पूर्वाङ्गश्रुतभावितः ॥१८२॥ ॥ अथ रामः प्रेपन्नैकविहारो गुर्वनुज्ञया । एकाकी प्रययौ निर्भीरटव्यां गिरिकन्दरे ॥ १८३॥ तस्यामेव विभावर्यां तत्र ध्यानजुषः सतः । उदभूदवधिज्ञानं रामभद्रमहामुनेः ॥ १८४ ॥ पश्यंश्चतुर्दशरज्जुंप्रमं विश्वं करस्थवत् । देवाभ्यां हतमज्ञासीद् गतं च नरकेऽनुजम् ॥१८५॥ इदं च चिन्तयामास रामभट्टारकस्तदा । धनदत्ताभिधोऽभूवमहं पूर्वत्र जन्मनि ॥ १८६ || वसुदत्तोऽभिधानेन लक्ष्मणोऽभून्ममाऽनुजः । तत्राऽप्यकृतकृत्योऽसावेवमेव व्यपद्यत ॥ १८७॥ भवेऽस्मिन् मे वसुदत्तजीवोऽभूल्लक्ष्मणोऽनुजः । तत्राऽप्यमुष्य कौमारे मुधाऽगाच्छरदां शतम् ॥ १८८॥ शतत्रयं मण्डलित्वे चत्वारिंशत् तु दिग्जये । वर्षैकादशसहस्राः सार्धा राज्येऽब्दषष्टि च ॥ १८९॥ द्वादशाब्दसहस्राणि सर्वमायुरिति क्रमात् । ययावविरतस्यैव केवलं नरकावहम् ॥ १९०॥ न दोषो देवयोः कोऽपि मायावधकयोस्तयोः । विपाकः कर्मणामीदृग् भवत्येव शरीरिणः ॥१९१॥ एवं विचिन्तयन् रामः कर्मच्छेदेऽधिकोद्यतः । तपः समाधिनिष्ठोऽभून्निर्ममः सन् विशेषतः ॥ १९२॥ ||अथ षष्ठोपवासान्ते प्राविशत् पारणाय सः । युगमात्रदत्तदृष्टिर्नगरे स्यन्दनस्थले ॥१९३॥ निशाकरमिवाऽवन्यामायान्तं नयनोत्सवम् । सम्मुखीनाः समापेतुः पौराः प्रचुरसम्मदाः || १९४ || पौर्यः स्वस्वगृहद्वारि भिक्षादानाय तस्य च । विचित्रभोज्यपूर्णानि भाजनानि पुरो दधुः ॥ १९५ ॥ पौराणां हर्षतस्तत्र तुमुलोऽभूत् तथा यथा । स्तम्भान् बभञ्जुः करिणो ययुश्चोत्कर्णतां हयाः ॥ १९६॥ रामोऽप्युज्झितधर्माभिरतत्वात् पौरढौकितम् । आहारं नाऽग्रहीत् तेभ्योऽभ्यागात् तु नृपवेश्मनि ॥१९७॥ तत्र चोज्झितधर्मेणाऽऽहारेण प्रत्यलम्भयत् । प्रतिनन्दिनृपो रामं विधिवद् बुभुजे च सः ॥ १९८ ॥ अमरैर्विदधे तत्र वसुधारादिपञ्चकम् । भगवान् रामभद्रोऽपि तदरण्यं ययौ पुनः ॥ १९९॥ [मा भूद् भूयः पुरक्षोभः सङ्घट्टो मे च मा स्म भूत् । इति बुद्ध्या शुद्धबुद्धिः सोऽभिग्रहमिमं व्यधात् ॥२००॥ अरण्येऽत्रैव चेद् भिक्षाकाले भिक्षोपलप्स्यते । तदानीं पारणं कार्यमस्माभिर्नाऽन्यथा पुनः || २०१ || इत्यभिग्रहभृद् रामो निरपेक्षो वपुष्यपि । परं समाधिमापन्नोऽवतस्थे प्रतिमाधरः || २०२ || तत्राऽन्येद्युर्विपर्यस्त शिक्षेणाऽश्वेन वेगिना । आकृष्यमाण आयासीत् प्रतिनन्दिनरेश्वरः || २०३ || पङ्के नन्दनपुण्याख्यसरसोऽश्वो ममज्ज सः । समापपाताऽनुपदं सैन्यं च प्रतिनन्दिनः ||२०४|| पङ्कात् तमश्वमुत्तार्य शिबिरं न्यस्य तत्र च । स्नात्वा च स नृपश्चक्रे भोजनं सपरिच्छदः ॥ २०५ ॥ तदा च पारितध्यानो रामर्षिः पारणेच्छया । तत्राऽऽजगाम भगवानभ्युत्तस्थौ च तं नृपः ॥ २०६ ॥ अवशिष्टैर्भक्त-पानैः स रामं प्रत्यलम्भयत् । कृतपारणके तस्मिन् रत्नवृष्टिरभूद् दिवः ||२०७||
१. बुद्धिमान् पाता. ।। २. निषिषेध ॥ ३. ०न्तिके खं. १ । ४. साध्व्यः ॥ ५. प्रच्छन्नैक० मु. ॥ ६. ०रज्जुमानं पाता. ।। ७. विपद्य सः मो. ॥ ८. वर्षाणाम् ।। ९. ११५६० वर्षाणि ॥ १०. मायया वधकर्त्री ।। ११. ततः समाधि० पाता ।। १२. अश्वैः कर्णा ऊर्ध्वकृताः ॥ १३. अन्त- प्रान्तभिक्षाऽऽदानरूपधर्मेJain Educatios भिरतत्वात् ॥
For Private
Personal Use Only
२३५
www.jainelibrary.org