________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व रामर्षिर्देशनां चक्रे प्रतिनन्द्यादयोऽथ ते। बभूवुः श्रावका: सम्यग्द्वादशव्रतधारिणः॥२०८॥ तत: प्रभृति तत्रैव रामस्तस्थौ चिरं वने। देवीभिर्वनवासाभि: पूज्यमानो महातपाः॥२०९॥ मासेनैकेन मासाभ्यां मासैस्त्रिचतुरैरपि । रामर्षिः पारयामास भवपारयियासया ।।२१०॥ पर्यङ्कस्थ: कदाऽप्यस्थात् प्रलम्बितभुजोऽन्यदा । कदाऽप्युत्कटिकासीन ऊर्ध्वबाहुः कदाचन ॥२११।। अङ्गुष्ठस्थोऽन्यदा तस्थौ पाणिस्थश्च कदाऽपि हि । इति नानासनो ध्यानी स तेपे दुस्तपं तपः ॥२१२॥ पाविहरन्नन्यदा रामो ययौ कोटिशिलां शिलाम् । विद्याधरसमक्षं या लक्ष्मणेन पुरोद्दधे ॥२१३।। तामध्यास्य शिलां रामः क्षपकश्रेणिमास्थितः । शुक्लध्यानान्तरं भेजे निशायां प्रतिमाधरः ॥२१४॥ तदा चाऽवधिना ज्ञात्वा सीतेन्द्र पर्यचिन्तयत् । अयं भवी भवति चेद् रामो युज्येऽमुना पुन: ॥२१५।। अनुकूलैरुपसर्गः क्षपकश्रेणिवर्तिनः । उपद्रवं करोम्यस्य यथा स्यान्मत्सुहृत् सुरः ॥२१६॥ इति सञ्चिन्त्य सीतेन्द्र उपरामं समाययौ । विचक्रे च महोद्यानं वसन्तर्तुविभूषितम् ॥२१७।। चुकूज कोकिलाकुलं ववौ च मलयानिलः । रणन्तो भ्रमरा भ्रमुः कुसुमामोदमोदिनः ॥२१८॥ चूत-चम्पक-कङ्केल्लि-पाटला-बकुलादयः । दधुः सद्योऽपि पुष्पाणि नव्यास्त्राणि मनोभुवः ॥२१९।। सीतारूपं च सीतेन्द्रो विकृत्य स्त्रीजनानपि । ऊचे प्रिय! प्रिया तेऽस्मि सीतेह समुपस्थिता ॥२२०।। रक्तं त्यक्त्वा तदानीं त्वामहं पण्डितमानिनी। प्राव्र नाथ! पश्चाच्च पश्चात्तापो ममाऽत्यभूत् ।।२२।। विद्याधरकुमारीभिराभिरद्याऽहमर्थिता । प्रसीद नाथ! स्वं नाथं रामं नाथीकुरुष्व नः ॥२२२॥ त्वं च मुञ्च परिव्रज्यां रामस्य महिषी भव। त्वदादेशात् तस्य पत्न्यो भविष्यामोऽधुना वयम् ॥२२३।। अमूर्विद्याधरवधूस्तदुद्वह रघूद्वह! । प्राग्वत् सह त्वया रंस्ये तां सहस्वाऽवमाननाम् ।।२२४।। इति ब्रुवाणे सीतेन्द्रे वैक्रिय्य: खेचरस्त्रियः । सङ्गीतं विविधं चक्रुः स्मरोज्जीवनभेषजम् ।।२२५॥ सीतेन्द्रवचनैस्तैश्च तेन सङ्गीतकेन च । वसन्तेन च नाऽक्षुभ्यद् रामभद्रमहामुनिः ॥२२६।। माघस्य शुक्लद्वादश्यां तदा यामेऽन्तिमे निशि । उदपद्यत रामर्षे: केवलज्ञानमुज्ज्वलम् ॥२२७।। रामस्य केवलज्ञानमहिमानं सभक्तिकः । सीतेन्द्रो नाकिनोऽन्ये च विदधुर्विधिपूर्वकम् ॥२२८॥ दिव्यस्वर्णाम्बुजासीनो दिव्यचामरराजित: । दिव्यातपत्रवान् रामो विदधे धर्मदेशनाम् ।।२२९।। देशनान्ते क्षमयित्वा सीतेन्द्रेण प्रणम्य च । सौमित्रि-रावणगतिं पृष्टो रामर्षिरभ्यधात् ॥२३०।। पाअधुना नरके तुर्ये सशम्बूको दशाननः । लक्ष्मणश्चाऽस्ति गतय: कर्माधीना हि देहिनाम् ॥२३१॥ नरकायुश्चाऽनुभूय तौ दशानन-लक्ष्मणौ । नगर्यां विजयावत्यां प्राग्विदेहविभूषणे ॥२३२।। सुनन्द-रोहिणीपुत्रौ जिनदास-सुदर्शनौ । भविष्यतोऽर्हद्धर्मं च सततं पालयिष्यतः ॥२३३॥युग्मम्।। ततो विपद्य सौधर्मे त्रिदशौ तौ भविष्यतः । च्युत्वा च विजयापुर्यां श्रावको भाविनौ पुनः ॥२३४।। ततोऽपि मत्वा परुषौ हरिवर्षे भविष्यतः। तौ चाऽवसानमासाद्य देवलोकंगमिष्यतः ॥२३५।। च्युत्वा च विजयापुर्यां जयकान्त-जयप्रभौ । कुमारवार्तराड्-लक्ष्म्योस्तौ कुमारौ भविष्यतः ॥२३६।। जिनोक्तं संयमं तत्र पालयित्वा विपद्य च । गीर्वाणौ लान्तके कल्पे भविष्यत उभावपि ॥२३७।। तदा त्वमच्युताच्च्युत्वा क्षेत्रे चाऽत्रैव भारते। सर्वरत्नमति म चक्रवर्ती भविष्यसि ॥२३८।। च्युत्वा तौ भाविनाविन्द्रायुध-मेघरथाभिधौ । सुतौ ते त्वं परिव्रज्य वैजयन्ते व्रजिष्यसि ॥२३९।। इन्द्रायुधः स तु जीवो रावणस्य भवत्रयम् । शुभं भ्रान्त्वा तीर्थकरगोत्रकर्माऽर्जयिष्यति ॥२४०॥ ततो रावणजीव: स तीर्थनाथो भविष्यति।वैजयन्ताच्च्युतस्तस्य भावी गणधरो भवान् ॥२४१।। ततस्तौ यास्यतो मोक्षं स जीवो लक्ष्मणस्य तु । भवत्सूनुर्मेघरथो व्रजिष्यति गती: शुभाः ॥२४२।। ततश्च पुष्करद्वीपे प्राग्विदेहविभूषणे । नगर्यां रत्नचित्रायां चक्रवर्ती भविष्यति ॥२४३।। १. भवपारं यातुमिच्छया॥२. नानासनी पाता.; नानासने खं.१॥ ३. तामध्यासीच्छिलां मु.॥४.०माश्रित: पाता.विना ॥५. संसारी॥६. अहं रामेण
पुनर्योगं प्राप्नुयामिति तच्चिन्ता ।।७. ककिल्लि० पाता.; कढील्लि० मु.॥८. कामदेवस्य ॥९. तत् ता.॥१०. वैक्रियशक्त्या प्रादुर्भूताः ॥११. निश: रसंपा. ।। Jain Education १२सभक्तिकम् ता. ॥ १३. परित्यज्य पाता. ॥१४. व्रजिष्यति खं.१ | Personal use Only
www.jainelibrary.org