________________
२३१
दशम: सर्ग:)
त्रिषष्टिशलाकापुरुषचरितम्। चक्रवर्तिश्रियं भुक्त्वा परिव्रज्य क्रमेण च । स तीर्थनाथो भविता निर्वाणं च प्रपत्स्यते ॥२४४॥ गएवमाकर्ण्य सीतेन्द्रो रामभद्रं प्रणम्य च । ययौ प्राक्स्नेहवशतो दु:खभाग् यत्र लक्ष्मणः ॥२४५।। सिंहादिरूपैर्विकृतैस्तत्र शम्बूक-रावणौ । लक्ष्मणेन समं क्रुद्धौ युध्यमानौ ददर्श सः ॥२४६॥ नैवं वो युध्यमानानां दु:खं भावीति वादिनः । परमाधार्मिका: क्रुद्धा अग्निकुण्डेषु तान् न्यधुः ॥२४७॥ दह्यमानास्त्रयोऽप्युच्चै रटन्तो गलिताङ्गकाः । तत: कृष्ट्वा तप्ततैलकुम्भ्यां निदधिरे बलात् ॥२४८॥ विलीनदेहास्तत्राऽपि भ्राष्ट्रे चिक्षिपिरे पुन: । तडत्तडिति शब्देन स्फुटन्तो दुद्रुवुः पुन: ॥२४९॥ इत्यादि दुःखं तेषां स प्रेक्ष्योवाचाऽसुरानिति । किं रे न वित्थ यदमी आसन् पुरुषपुङ्गवा: ? ॥२५०।। अपयाताऽसुरा! दूरं मुञ्चतैतान् महात्मनः । निषिध्येत्यसुरानूचे सोऽथ शम्बूक-रावणौ ॥२५१।। यवाभ्यां तत कतं पर्वं येनेमं नरकं गतौ । पूर्ववैरं किमद्याऽपि दृष्टोदकं न मञ्चितम ? ॥२५॥ तावप्येवं निषिध्येन्द्र: सौमित्रे रावणस्य च । रामकेवलिनाख्यातमाचख्यौ बोधहेतवे ॥२५३।। तावप्यथ बभाषाते साध्वकार्षीः कृपानिधे! । भवच्छुभोपदेशेन जाता नो दुःखविस्मृतिः ॥२५४।। प्राग्जन्मोपार्जितैस्तै: क्रूरैः कर्मभिरर्पितः । दीर्घो नो नरकावासस्तद् द:खं कोऽपनेष्यति ? ||२५५|| इत्युक्त्या करुणापूर्ण: सीतेन्द्रः प्रत्यवोचत । नेष्यामि सुरलोके त्रीनपि वो नरकादितः ॥२५६।। इत्युक्त्वा पाणिनोद्दधे स तांस्त्रीनपि ते पुनः । विशीर्य कणश: पेतुः पाणे: पारदवत् क्षणात् ॥२५७|| भूयोऽपि मिलिताङ्गांस्तानुद्दधे स यथा यथा । पुनरेव पतन्ति स्म पूर्ववत् ते तथा तथा ॥२५८॥ तत: सीतेन्द्रमूचुस्ते भवत्यधिकमेव नः । दुःखमुद्धियमाणानां तन्मुञ्चाऽस्मान् दिवं व्रज ॥२५९| तान् मुक्त्वेयाय सीतेन्द्रो रामं नत्वा ततोऽगमत् । शाश्वतार्हत्तीर्थयात्राकृते नन्दीश्वरादिषु ॥२६०॥
गच्छन्नथो देवकुरुप्रदेशे निरीक्ष्य भामण्डलराजजीवम्। प्राक्स्नेहयोगात् प्रतिबोध्य सम्यग् निजं ससीतेन्द्र इयाय कल्पम् ॥२६१॥ उत्पन्ने सति केवलेस शरदां पञ्चाधिकां विंशतिं मेदिन्यांभविकानप्रबोध्य भगवाञ्च्छीरामभट्टारकः। आयुश्च व्यतिलय पञ्चदश चाऽब्दानांसहस्रान् कृती शैलेशींप्रतिपद्य शाश्वतसुखानन्दं प्रपेदे पदम्॥२६२॥
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
सप्तमे पर्वणि सीताशुद्धि-व्रतग्रहणो नाम
दशम: सर्ग:समाप्तः।।
१. वेत्थ पाता. ।। २. दृष्टदृक्षं ला.; दृष्ट उदर्क:-परिणामो यस्य तत् ॥ ३. नौ रसंपा. ॥४. इत्युक्त्वा खं.१, पाता. ॥५.०लोकेऽमूनपि० पाता.॥६. दुःखं विलीयमानानां कां.॥७. सप्तम० खं.१-२, ता. ॥ ८. 'समाप्त:' इति नाऽस्ति ता.खं.१-२ प्रतिषु; 'दशम: सर्ग:' इत्यतः परं समाप्तं चेदंरामायणम्
इति खं.१-२, पाता. प्रतिषु ॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org