Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 211
________________ १९४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं (सप्तमं पर्व देव! देवी नृशंसेन सती सीता दुरात्मना। हृतालकापुरीशेन विद्या च मम'कुप्यतः॥२०२।। हा राम! वत्स सौमित्रे! भ्रातर्भामण्डलेति च। देव्यां रुदत्यां सीतायामकुप्यं दशमौलये ॥२०३॥ सीतोदन्तेन तेनाऽथ मुदितो रघुपुङ्गवः । सुरसङ्गीतपुरेशं रत्नजटिनमाश्लिषत् ॥२०४।। भूयो भूयोऽपि पप्रच्छ सीतोदन्तं रघूद्वहः । भूयो भूयोऽपि सोऽप्याख्यत् तन्मन:प्रीतिहेतवे ।।२०५।। अपृच्छद् रामभद्रस्तान् सुग्रीवादिमहाभटान् । इत: कियति दूरे सा लङ्कापूस्तस्य रक्षसः ॥२०६।। तेऽप्यूचुः किं तया पुर्याऽऽसन्नयाऽथ दविष्ठया । रावणस्य जगज्जिष्णोर्यत् सर्वे तृणवद् वयम् ॥२०७॥ रामोऽप्यूचे कृतं तस्य जय्याजय्यविचिन्तया। दर्शनप्रतिभूवन्नस्तं दर्शयत केवलम् ॥२०८॥ तस्य दर्शितमात्रस्य सामर्थ्य ज्ञास्यथाऽचिरात् । सौमित्रिमुक्तनाराचपीयमानगलासृजः ।।२०९।। बभाषे लक्ष्मणोऽप्येवं क एष ननु रावण: ? । सारमेय इवाऽसारच्छलेनैव चकार यः ॥२१०॥ क्षत्राचारेण तस्याऽहं छेत्स्यामि च्छलिन: शिरः। सङ्ग्रामनाटकं यूयं सभ्यीभूयैव पश्यत॥२११॥ जाम्बवान् व्याजहाराऽथ सर्वं वो युज्यते परम् । यो हि कोटिशिलोत्पाटी स हनिष्यति रावणम् ।।२१२।। साधुनाऽनन्तवीर्येणाऽऽख्यातं ज्ञानवता ह्यदः । अस्मत्प्रत्ययहेतोस्तत् समुत्पाटय तां शिलाम् ॥२१३।। एवमस्त्वित्युक्तवन्तं ते नयन्ति स्म लक्ष्मणम् । सपदि व्योमयानेन यत्र कोटिशिलाऽस्ति सा ॥२१४।। उच्चिक्षेप शिलां दोष्णा लक्ष्मणस्तां लतामिव । साधु साध्वित्युच्यमानस्त्रिदशैः पुष्पवर्षिभिः ॥२१५॥ सञ्जातप्रत्ययास्तेऽपि व्योमयानेन पूर्ववत्। किष्किन्धायां समानिन्युर्लक्ष्मणं रामसन्निधौ॥२१६॥ कपिवृद्धास्तत: प्रोचुर्युष्मत्तोरावणक्षयः । आदौ प्रेष्यो द्विषां दूत इति नीतिमतां स्थितिः॥२१७॥ सन्देशहारकेणाऽपि यदि सिध्येत् प्रयोजनम् । पर्याप्तं स्वयमुद्योगकर्मणा भूभुजां तदा ॥२१८।। समर्थः प्रेष्यतां तत्र कोऽपि दूतो महाभुजः । सा दुष्प्रवेशनिष्काशा लङ्का हि श्रयते क्षितौ ॥२१९।। गत्वा दूत: स लङ्कायां भणिष्यति बिभीषणम् । सीतार्पणकृते रक्ष:कुले स खलु नीतिवा(मा)न् ।।२२०॥ सीतां मोचयितुं सोऽपि रावणं बोधयिष्यति । रावणेन त्ववज्ञातस्त्वामेष्यति तदैव हि ॥२२१।। एवं वचसि तेषां तु रामेणाऽनुमते सति । श्रीभूतिं प्रेष्य सुग्रीवो हनूमन्तमथाऽऽह्वत ॥२२२॥ अथ रामं सभासीनं सुग्रीवादिसमावृतम् । नमश्चकार हनुमान् भानुमानिव तेजसा ॥२२३।। ततो रामाय सुग्रीवः शशंसैवमयं हि नः । विधुरे परमो बन्धुर्विनयी पोवनञ्जयिः ॥२२४॥ नाऽस्य तुल्यो द्वितीयोऽस्ति सर्वविद्याधरेष्वपि । सीताप्रवृत्तिलाभार्थं स्वामिन्नेनं तदादिश ॥२२५।। हनुमानप्युवाचैवं कपय: सन्त्यनेकश: । मत्प्राया: स्नेहतस्त्वेतद् वक्ति सुग्रीवभूपतिः ॥२२६॥ गवो गवाक्षो गवयः शरभ: गन्धमादनः । नीलो द्विविद-मैन्दौ च जाम्बवानङ्गदो नलः ॥२२७।। अन्येऽपि बहवः स्वामिन्! सन्तीह कपिपुङ्गवाः । तेषां सङ्ख्यापूरणोऽहमपि त्वत्कार्यसिद्धये ॥२२८।। लङ्कां सराक्षसद्वीपामुत्पाट्येह किमानये ? । बद्ध्वा सबान्धवमथाऽऽनयामि दशकन्धरम् ? ॥२२९।। सकुटुम्बं दशग्रीवं हत्वा तत्रैव वा द्रुतम् । देवीं जनकजामेवाऽऽनयामि निरुपद्रवाम् ? ॥२३०॥ रामोऽपि निजगादैवं सर्वं सम्भवति त्वयि । तद् गच्छ पुर्यां लङ्कायां सीतां तत्र गवेषयेः ।।२३।। मदुर्मिकामिमां देव्या मदभिज्ञानमर्पयेः । तस्याश्चूडामणिं चाऽभिज्ञानमत्र समानयेः ॥२३२॥ इदं मद्वाचिकं शंसेर्देवि! यल्लक्ष्मणाग्रजः । त्वद्वियोगातुरोऽत्यन्तं ध्यायंस्त्वामेव तिष्ठति ॥२३३।। मा त्याक्षीमद्वियोगेन जीवितं जीवितेश्वरि! । लक्ष्मणेन हतं द्रक्ष्यस्यचिरादेव रावणम् ।।२३४।। पहनुमानप्युवाचैवं यावदाज्ञां विधाय ते । लङ्काया: पुनरायामि तिष्ठेस्तावदिह प्रभो! ॥२३५।। १. कुप्यता ला. ॥ २. "तं बान्धवमिवाऽऽश्लिष्यत् , कम्बुद्वीपनरेश्वरम्” पाठां० इति ला.प्रतौ टि.; ता.प्रतावयं पाठश्च ।। ३. सोऽप्यूचे ला. ॥ ४. समीपस्थया दूरस्थया वा॥५. मार्गदर्शक('भोमिया' इति भाषा)वत् ।। ६. सौमित्रिणा मुक्तेन नाराचेन पीयमानं कण्ठशोणितं यस्य, तस्य ।। ७. तुच्छछलेन । ८. केऽपि वृ० ला.।। ९. कष्टेन प्रवेशो निष्काश:-निर्गमनं च यस्यां सा ॥१०. कृता ला., रसंपा. ॥ ११. त्वविज्ञात० ला.॥१२. पवनञ्जयस्याऽपत्यम् ।। १३. समादिश ता. ॥ १४. मत्तुल्याः ।। १५. द्विविदमेन्दौ ला. ॥१६. च जगादैवं ला.॥ १७. मम अङ्गुलीयकम् ।। १८. मम स्मृतिचिह्नम् ।। १९. मम JainEducation सन्देशम् ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338