________________
१९४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व देव! देवी नृशंसेन सती सीता दुरात्मना। हृतालकापुरीशेन विद्या च मम'कुप्यतः॥२०२।। हा राम! वत्स सौमित्रे! भ्रातर्भामण्डलेति च। देव्यां रुदत्यां सीतायामकुप्यं दशमौलये ॥२०३॥ सीतोदन्तेन तेनाऽथ मुदितो रघुपुङ्गवः । सुरसङ्गीतपुरेशं रत्नजटिनमाश्लिषत् ॥२०४।। भूयो भूयोऽपि पप्रच्छ सीतोदन्तं रघूद्वहः । भूयो भूयोऽपि सोऽप्याख्यत् तन्मन:प्रीतिहेतवे ।।२०५।। अपृच्छद् रामभद्रस्तान् सुग्रीवादिमहाभटान् । इत: कियति दूरे सा लङ्कापूस्तस्य रक्षसः ॥२०६।। तेऽप्यूचुः किं तया पुर्याऽऽसन्नयाऽथ दविष्ठया । रावणस्य जगज्जिष्णोर्यत् सर्वे तृणवद् वयम् ॥२०७॥ रामोऽप्यूचे कृतं तस्य जय्याजय्यविचिन्तया। दर्शनप्रतिभूवन्नस्तं दर्शयत केवलम् ॥२०८॥ तस्य दर्शितमात्रस्य सामर्थ्य ज्ञास्यथाऽचिरात् । सौमित्रिमुक्तनाराचपीयमानगलासृजः ।।२०९।। बभाषे लक्ष्मणोऽप्येवं क एष ननु रावण: ? । सारमेय इवाऽसारच्छलेनैव चकार यः ॥२१०॥ क्षत्राचारेण तस्याऽहं छेत्स्यामि च्छलिन: शिरः। सङ्ग्रामनाटकं यूयं सभ्यीभूयैव पश्यत॥२११॥ जाम्बवान् व्याजहाराऽथ सर्वं वो युज्यते परम् । यो हि कोटिशिलोत्पाटी स हनिष्यति रावणम् ।।२१२।। साधुनाऽनन्तवीर्येणाऽऽख्यातं ज्ञानवता ह्यदः । अस्मत्प्रत्ययहेतोस्तत् समुत्पाटय तां शिलाम् ॥२१३।। एवमस्त्वित्युक्तवन्तं ते नयन्ति स्म लक्ष्मणम् । सपदि व्योमयानेन यत्र कोटिशिलाऽस्ति सा ॥२१४।। उच्चिक्षेप शिलां दोष्णा लक्ष्मणस्तां लतामिव । साधु साध्वित्युच्यमानस्त्रिदशैः पुष्पवर्षिभिः ॥२१५॥ सञ्जातप्रत्ययास्तेऽपि व्योमयानेन पूर्ववत्। किष्किन्धायां समानिन्युर्लक्ष्मणं रामसन्निधौ॥२१६॥ कपिवृद्धास्तत: प्रोचुर्युष्मत्तोरावणक्षयः । आदौ प्रेष्यो द्विषां दूत इति नीतिमतां स्थितिः॥२१७॥ सन्देशहारकेणाऽपि यदि सिध्येत् प्रयोजनम् । पर्याप्तं स्वयमुद्योगकर्मणा भूभुजां तदा ॥२१८।। समर्थः प्रेष्यतां तत्र कोऽपि दूतो महाभुजः । सा दुष्प्रवेशनिष्काशा लङ्का हि श्रयते क्षितौ ॥२१९।। गत्वा दूत: स लङ्कायां भणिष्यति बिभीषणम् । सीतार्पणकृते रक्ष:कुले स खलु नीतिवा(मा)न् ।।२२०॥ सीतां मोचयितुं सोऽपि रावणं बोधयिष्यति । रावणेन त्ववज्ञातस्त्वामेष्यति तदैव हि ॥२२१।। एवं वचसि तेषां तु रामेणाऽनुमते सति । श्रीभूतिं प्रेष्य सुग्रीवो हनूमन्तमथाऽऽह्वत ॥२२२॥
अथ रामं सभासीनं सुग्रीवादिसमावृतम् । नमश्चकार हनुमान् भानुमानिव तेजसा ॥२२३।। ततो रामाय सुग्रीवः शशंसैवमयं हि नः । विधुरे परमो बन्धुर्विनयी पोवनञ्जयिः ॥२२४॥ नाऽस्य तुल्यो द्वितीयोऽस्ति सर्वविद्याधरेष्वपि । सीताप्रवृत्तिलाभार्थं स्वामिन्नेनं तदादिश ॥२२५।। हनुमानप्युवाचैवं कपय: सन्त्यनेकश: । मत्प्राया: स्नेहतस्त्वेतद् वक्ति सुग्रीवभूपतिः ॥२२६॥ गवो गवाक्षो गवयः शरभ: गन्धमादनः । नीलो द्विविद-मैन्दौ च जाम्बवानङ्गदो नलः ॥२२७।। अन्येऽपि बहवः स्वामिन्! सन्तीह कपिपुङ्गवाः । तेषां सङ्ख्यापूरणोऽहमपि त्वत्कार्यसिद्धये ॥२२८।। लङ्कां सराक्षसद्वीपामुत्पाट्येह किमानये ? । बद्ध्वा सबान्धवमथाऽऽनयामि दशकन्धरम् ? ॥२२९।। सकुटुम्बं दशग्रीवं हत्वा तत्रैव वा द्रुतम् । देवीं जनकजामेवाऽऽनयामि निरुपद्रवाम् ? ॥२३०॥ रामोऽपि निजगादैवं सर्वं सम्भवति त्वयि । तद् गच्छ पुर्यां लङ्कायां सीतां तत्र गवेषयेः ।।२३।। मदुर्मिकामिमां देव्या मदभिज्ञानमर्पयेः । तस्याश्चूडामणिं चाऽभिज्ञानमत्र समानयेः ॥२३२॥ इदं मद्वाचिकं शंसेर्देवि! यल्लक्ष्मणाग्रजः । त्वद्वियोगातुरोऽत्यन्तं ध्यायंस्त्वामेव तिष्ठति ॥२३३।। मा त्याक्षीमद्वियोगेन जीवितं जीवितेश्वरि! । लक्ष्मणेन हतं द्रक्ष्यस्यचिरादेव रावणम् ।।२३४।। पहनुमानप्युवाचैवं यावदाज्ञां विधाय ते । लङ्काया: पुनरायामि तिष्ठेस्तावदिह प्रभो! ॥२३५।। १. कुप्यता ला. ॥ २. "तं बान्धवमिवाऽऽश्लिष्यत् , कम्बुद्वीपनरेश्वरम्” पाठां० इति ला.प्रतौ टि.; ता.प्रतावयं पाठश्च ।। ३. सोऽप्यूचे ला. ॥ ४. समीपस्थया दूरस्थया वा॥५. मार्गदर्शक('भोमिया' इति भाषा)वत् ।। ६. सौमित्रिणा मुक्तेन नाराचेन पीयमानं कण्ठशोणितं यस्य, तस्य ।। ७. तुच्छछलेन । ८. केऽपि वृ० ला.।। ९. कष्टेन प्रवेशो निष्काश:-निर्गमनं च यस्यां सा ॥१०. कृता ला., रसंपा. ॥ ११. त्वविज्ञात० ला.॥१२. पवनञ्जयस्याऽपत्यम् ।।
१३. समादिश ता. ॥ १४. मत्तुल्याः ।। १५. द्विविदमेन्दौ ला. ॥१६. च जगादैवं ला.॥ १७. मम अङ्गुलीयकम् ।। १८. मम स्मृतिचिह्नम् ।। १९. मम JainEducation सन्देशम् ।।
For Private & Personal Use Only
www.jainelibrary.org