________________
षष्ठः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। इत्युक्त्वा राघवं नत्वा मारुति: सपरिच्छदः । लङ्कापुरीं प्रत्यचालीद् विमानेनाऽतिरंहसा॥२३६।। स गच्छन् नभसाऽपश्यन्महेन्द्रगिरिसानुनि । मातामहमहेन्द्रस्य महेन्द्रपुरपत्तनम् ।।२३७॥ एवं च दध्यौ हनुमान् महेन्द्रस्य पुरं ह्यदः । येन मेऽनपराधाऽपि माता निर्वासिता तदा ॥२३८॥ इति संस्मृत्य स क्रुद्धो रणतूर्यमवादयत् । ब्रह्माण्डं स्फोटयदिव दिमुखप्रतिशब्दितैः ।।२३९।। दृष्ट्वा परबलं राजा महेन्द्रोऽपीन्द्रविक्रमः । समं सैन्यैर्निरगमत् सपुत्रो रणकर्मणे ।।२४०।। महेन्द्र-हनुमच्चम्वोरजायत महारण: । व्योमन्युत्पातजीमूत इवाऽसृग्वृष्टिभीषणः ॥२४१।। प्राभञ्जनिर्बभञ्जाऽथ प्रभञ्जन इव द्रुमान् । परसैन्यान् क्षणेनाऽपि भ्रमन् वेगेन सङ्गरे ॥२४२।। प्रसन्नकीर्ति हेन्द्रिरयुध्यत हनूमता । निघ्नन्नशकं जामेयसम्बन्धमविदन्नथ ॥२४३॥ उभावपि महाबाहू उभावप्यत्यमर्षणौ । अन्योऽन्यं दृढयुद्धेन जनयामासतुः श्रमम् ॥२४४।। अथैव चिन्तयामास युध्यमानोऽपि पावनिः । आरम्भि धिग् मया युद्धं स्वामिकार्यविलम्बकृत् ॥२४५।। ये जीयन्ते क्षणात् तेऽन्ये मम मातृकुलं ह्यदः । तथाऽप्यारब्धनिर्वाहकृते जेतव्यमेव हि ॥२४६।। ध्यात्वेति हनुमान् क्रुद्धः प्रहारैर्मोहयन् क्षणात् । प्रसन्नकीर्ति जग्राह भग्नास्त्र-रथ-सारथिम् ॥२४७।। अग्रहीद् भृशमायोध्य महेन्द्रमपि मारुतिः । नत्वा चैवं समाचख्यौ नप्ता तेऽस्म्यञ्जनासुतः ।।२४८॥ रामाज्ञया च वैदेहीशुद्ध्यै लङ्कां व्रजन्नहम् । अत्राऽऽयात: समस्मार्षं मातृनिर्वासनं चिरात् ॥२४९।। जातामर्षेण तत् तात! योधितोऽसि सहस्व मे । स्वामिकार्याय यास्यामि याहि मत्स्वामिसन्निधौ ।।२५०।। महेन्द्रोऽपि समालिङग्य तमित्यचे महाभजम । प्राकच्छतोऽसि जनश्रुत्या दिष्ट्या दृष्टोऽद्य विक्रमी ॥२५।। गच्छ स्वस्वामिकार्याय पन्थान: सन्तु ते शिवाः । इत्युदित्वा महेन्द्रोऽगातु ससैन्यो राघवान्तिके ॥२५२।। पाव्योम्नाऽथ हनुमान् गच्छन् द्वीपे दधिमुखाभिधे । कायोत्सर्गे तस्थिवांसौ प्रेक्षाञ्चक्रे महामुनी ।।२५३।। तयोरनतिदरे चाऽपश्यत् तिम्र: कुमारिकाः। ध्यानस्था निरवद्याङ्गीविद्यासाधनतत्पराः ।।२५४।। दवानलस्तदा द्वीपे प्रजज्वालाऽखिलेऽपि हि । तौ साधू ता: कुमार्यश्च निपेतुर्दवसङ्कटे ॥२५५।। तद्वात्सल्येन हनुमान् विद्ययाऽऽदाय सागरात् । तं दवाग्निं मेघ इव शमयामास वारिभिः ॥२५६।। तदैव सिद्धविद्यास्ता: कन्या ध्यानस्थितौ तु तौ। मुनी प्रदक्षिणीकृत्य हनूमन्तं बभाषिरे ॥२५७|| साधूपसर्ग साधूनामरक्ष: परमार्हत! । त्वत्साहाय्येन विद्या न: सिद्धा: कालं विनाऽपि हि ॥२५८।। का यूयमिति तेनोक्ता: कन्यास्ता एवमब्रुवन् । अस्मिन् गन्धर्वराजोऽस्ति राजा दधिमुखे पुरे ॥२५९।। स्मस्तस्य कन्या: कुसुममालाकुक्षिभवा वयम् । तातं ययाचिरेऽस्मांस्तु बहवः खेचरेश्वराः ॥२६०॥ खेचरोऽङ्गारको नामोन्मत्तश्चाऽस्मत्कृतेऽभवत् । ननस्तस्मै न चाऽन्यस्मै ददौ तातस्त्वंरोचकी॥२६१।। मत्पुत्रीणां पतिः कः स्यादित्यपृच्छत् पिता मुनिम् । य: साहसगतेर्हन्ता स स्यादिति च सोऽवदत् ।।२६२।। तगिराऽन्वेषयंस्तातो नोपलेभे तु तं क्वचित् । विद्यासाधनमस्माभिस्तं ज्ञातुं च प्रचक्रमे ।।२६३।। विद्याभ्रंशनिमित्तं चाऽङ्गारकेण कृतो दवः । त्वया च शमित: साधु भो! निष्कारणबन्धुना ॥२६४॥ मासैः सिध्यति या षड्भिस्त्वत्साहाय्यात् क्षणादपि । सा मनोगामिनी नाम विद्या न: सिद्धिमाययौ ॥२६५।। आमूलात् साहसगतेर्वधं रामेण निर्मितम् । शशंस हनुमांस्तासां लङ्कायां चाऽऽत्मनो गतिम् ॥२६६॥ मुदितास्ता: पितुर्गत्वा शशंसुस्तदशेषत: । सोऽपि ताभि: समं सद्य: ससैन्योऽगाद् रघूद्वहम् ॥२६७।।
उत्पपाताऽथ हनुमानुपलक्षं गतश्च सन् । ददर्शाऽऽशालिकां विद्यां घोरां कालनिशामिव ।।२६८॥ अरे कपे! क्व याताऽसि ? यातोऽसि मम भोज्यताम् । इति ब्रुवाणा साक्षेपं व्याददाति स्म सा मुखम् ।।२६९।। हनूमांश्च गदापाणि: प्रविवेश तदाननम् । अभ्रमध्यमिवाऽऽदित्यस्तां विदार्य च निर्ययौ ॥२७॥ १. सकृद्धो ला.विना ।। २. दिइखानां प्रतिध्वानैः।। ३. महेन्द्रराट्-हनुमतोरजायत का.ला.॥४. उत्पातमेघ इव रुधिरवृष्टिभीषणः॥५. महेन्द्रस्याऽपत्यम् ।।
५. निघ्ननिःशङ्क कां.॥७. अयं मे भगिनीसुत इतिरूपं सम्बन्धम् ।। ८. पवनपुत्रः ॥ ९. आरेभे हे. मो. ता.,ला.॥१०. दौहित्रः ॥११. न: स्वामि० मु.॥ ___Jain Educa/१२. ततस्तस्मै मु.॥१३. अरुचिमान् ।। १४. सिद्धिमागमत् पाता.॥१५. गमनम् ॥ १६. मुखमुद्घाटयति-प्रसारयति ।।
www.jainelibrary.org