________________
१९६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व तया कृतं च प्राकारं लकापुर्यामरुत्सुतः । विद्यासामर्थ्यतोऽभाकीन्मङ्घ कर्परलीलया॥२७१।। तद्वप्रारक्षमप्युच्चैः क्रुद्धं वज्रमुखाभिधम् । सोऽवधीत् सहयुध्वानं युद्धाध्वन्यधुरन्धरः ॥२७२॥ हते वज्रमुखे लङ्कासुन्दरी तस्य कन्यका। विद्याबलवती कोपाद् युद्धायाऽऽह्वास्त मारुतिम् ॥२७३।। व्योमनीव तडिल्लेखा साऽचारीच्चतुरं रणे । प्रहरन्ती मुहुः सानुमतीव सा हनूमति ।।२७४।। तदस्त्राणि निजैरस्वैश्छिन्दान: पावनञ्जयिः । तां निरस्त्रीचकाराऽऽशु निष्पत्रामिव वीरुधम् ॥२७५॥ क एष इति साऽऽश्चर्यादाञ्जनेयमुदीक्षितुम् । सम्प्रवृत्ता च कामेन ताडिता च शिलीमुखैः ॥२७६|| सा हनूमन्तमित्यूचे मया पितृवधोत्थया। अविचार्य क्रधा वीर! योधितोऽसि मधैव हि ॥२७७।। आख्यातं साधुना पूर्वं यस्ते जनकघातकः । भावी भर्तेति तन्नाथ! मामुद्वह वशंवदाम् ॥२७८॥ सकलेऽपि जगत्यस्मिन् कोऽन्यस्तव समो भटः । तत: स्थास्यामि नारीषु त्वया पत्याऽतिगर्विता ॥२७९॥ एवं विनीतां तां कन्यां मुदितो हनुमानपि । गान्धर्वेण विवाहेन सानुरागमुपायत ॥२८०॥ स्नातुकाम इव व्योमाटवीपर्यटनश्रमात् । तदा विर्षांमधिपतिर्ममज्जाऽपरवारिधौ ॥२८॥ प्रतीचीमुपभुज्याऽऽशां गच्छता भानुमालिना । सन्ध्याभ्रच्छद्मना तस्या वासांसीवोपनिन्यिरे ॥२८२।। चकाशे दिशि वारुण्यामरुणाभ्रपरम्परा । अस्तकाले रविं त्यक्त्वा तेज: पृथगिव स्थितम् ।।२८३।। नवरागो नवरागां सिषेवे वारुणीमसौ। मां हित्वेत्यपमानेन म्लानास्या प्राच्यभूदु ध्रुवम् ।।२८४।। क्रीडास्थानभुवां तासां परित्यागभुवा रुजा। खगै: कोलाहलमिषादाक्रन्दस्तत्र निर्ममे ॥२८५।। म्लानिमासादयामास चक्रवाकी वराकिका । दुरीभूतप्रियतमा ललनेव रजस्वला ।।२८६।। पद्मिनी कलयामास मुखसङ्कोचमुच्चकैः । पतिव्रताव्रतेवाऽस्तङ्गते पत्यावहर्पतौ॥२८७॥ तर्णकोत्कण्ठितास्तूर्णं गावो व्याजुघुटुर्वनात् । वायव्यस्नानसम्प्राप्तिमुदितैर्वन्दिता द्विजैः ॥२८८।। अस्तकाले त्विामीशो निजं तेजो हविर्भुजे । राजेव युवराजाय राज्यसम्पदमार्पयत् ।।२८९।। नागरीभिः प्रतिपदमदीप्यन्त प्रदीपंकाः। दिवोऽवतीर्णनक्षत्रश्रेणिश्रीपरिमोषिणः ॥२९०॥
अस्तमीयुषि चण्डांशौ शशिन्यनुदिते सति । तमो जृम्भितुमारेभे छलँच्छेका: खला: खलु ॥२९१।। किमञ्जनाद्रेश्चूर्णेन पूर्णमेतदथाऽञ्जनैः । रोदसीभाण्डमभितस्तम:पूर्णमलक्ष्यत ॥२९२॥ न हि स्थलं न हि जलं न दिशो न नभो न भूः। तदानीं किं बहूक्तेन ? न स्वहस्तोऽप्यलक्ष्यत ॥२९३।। तारा व्योमन्यसिश्यामे तमोलिप्ते विशेषत: । चिरं व्यडम्बयन् द्यूतकटित्रस्थवराटिकाः ॥२९४।। व्यक्तोडु कलयामास कज्जलश्यामलं नभः । उत्पुण्डरीककालिन्दीह्रदसब्रह्मचारिताम् ।।२९५।। एकाकारकरे विष्वक् तम:पूरे प्रसर्पति । विश्वं विश्वमनालोकमभूत् पातालसन्निभम् ॥२९६।। स्फीतेऽन्धकारे नि:शङ्का: कौमिसङ्घट्टनोत्सुकाः । स्वैरं जजृम्भिरे दूत्यो ह्रदे शंफरिका इव ।।२९७।।
आजानूत्क्षिप्तमञ्जीरास्तमालश्यामलांशुकाः । मुंगनाभिविलिप्ताङ्ग्योऽभिससुरभिसारिकाः ॥२९८।। अथोदयाद्रिप्रासादे सुवर्णकलशोपमः । कराङ्कुरमहाकन्द उदियाय निशाकरः ।।२९९॥ नैसर्गिकेण वैरेण लक्ष्मव्याजात् सहेन्दुना। नियुद्धमिव तन्वानमन्धकारमलक्ष्यत ॥३००।। विपुले गोकुल इव क्रीडन्ति स्म नभस्तले। स्वैरं गोष्विव तारासु गवेन्द्र इव चन्द्रमा: ॥३०१।। व्यक्तमन्तःस्फुरल्लक्ष्मा मृगलक्ष्मा व्यराजत । मुंगनाभिद्रवाधाररौप्यभाजनसन्निभः ॥३०२।। १. मृत्पात्रवत् ।। २. पत्रविहीनां लतामिव ।। ३. बाणैः ।। ४. परिणिनाय ॥५. व्योम एव अटवी, तत्र पर्यटनस्य श्रमात् ।। ६. सूर्यः ।।७.वासांसीवाप० खं.१२, पाता. मु.॥८. “पश्चिमायां" इति ला.टि. ॥९. पीडया॥१०. पतिव्रता व्रतं यस्याः सा इव ॥११. वत्सोत्कण्ठिता: त्वरितम् ।।१२. प्रतिनिवृत्ताः॥ १३. सूर्यः ।। १४. अग्नये ।। १५. प्रदीपिका: पाता. ॥ १६. परिमोषिणः-चौराः ॥१७. छलचतुराः ।। १८. स्वहस्तोऽपि न लक्ष्यते खं.१-२, पाता. ता. विना ।। १९. खड्गवत् श्यामे॥२०. द्यूतपट्टस्थितवराटिका: (तारा: वराटिकासमा: इत्याशयः)।। २१.व्यक्तनक्षत्रम् ।। २२. उद्गतानि पुण्डरीकाणि-कमलानि यस्मिंस्तस्य कालिन्दीनामकहदस्य समानताम् ।। २३. सकलम् ।। २४. व्याप्ते ॥ २५. कामिजनानां संयोजने उत्सुकाः ।। २६. लघुमत्स्या: ।। २७. जानुपर्यन्तमुत्क्षिप्तानि उच्छलन्ति मञ्जीराणि-नूपुराणियासांताः ॥ २८. मुगनाभि:-कस्तुरी।।२९. "चेलः" इति ला.टि.॥३०."या: प्रियं प्रति यान्ति" इति ला.टि.||३१.करा:किरणा:, त एव महाकन्दा यस्य सः ।। ३२. कलङ्कमिषात् ॥ ३३. बाहुयुद्धम् ।। ३४. “स्वैरं तारागवां मध्ये"पाठां० इति ला.प्रतौ टि., खंता.२-ता.प्रत्यो: पाठश्चायमेव ।।३५.वृषभः ॥३६. मृगनाभिद्रवः-कस्तूरीलेपः, तदाधारभूतरजतमयपात्रतुल्य: कलङ्कसहितश्चन्द्रमा व्यराजतेत्याशयः ॥ ३७.०रूप्य० खं.१-२,
For Private & Personal Use Only
Jain Education का हे. ला. मो.॥
www.jainelibrary.org