________________
षष्ठः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। स्खल्यमाना विरहिभिरन्तरा दत्तपाणिभिः। प्रसनुः 'शीतगुकरा: शरा इव मनोभुवः॥३०३।। चिरभुक्तामपि प्रोज्झ्य पद्मिनीं प्राप्तदुर्दशाम् । भृङ्गा: कुमुद्वतीं भेजुर्धिगहो! नीचसौहृदम् ॥३०४॥ शेफाल्या: कुसुमानीन्दुः करपातैरपातयत् । प्रियमित्रस्य पुष्पेषोः सज्जीकर्तुमिषूनिव ॥३०५।। प्रवर्षयन्निन्दुकान्तान् कुर्वाण: सरसीनवाः । स्वानि शीतरुचि: पूर्तकीर्तनानीव निर्ममे ॥३०६।। कुलटानामटन्तीनां पद्मिनीनामिवोच्चकैः । विततान मुखम्लानिं सं ज्योत्स्नाधौतदिङ्मुखः ॥३०७।। समं च लङ्कासुन्दर्या पवनञ्जयनन्दनः । रममाणो निराशङ्कस्तामतीयाय यामिनीम् ॥३०८।। अथोदियाय किरणैः स्वर्णसूत्रसहोदरैः । मार्तण्डो मण्डयन्नाशां प्रियां प्राचीनबर्हिषः ॥३०९।। अव्याहतं निष्पतन्त्यो रुचयश्चण्डरोचिष: । कुमुद्वतीषु स्मेरासु ययुः प्रस्वापनास्त्रताम् ।।३१०।। त्यक्तानि मौलिमाल्यानि प्रबुद्धाभिः पुरन्ध्रिभिः । केशपाशवियोगेनाऽलिनादैररुदन्निव ॥३११।। रात्रिजागरणायासकषायितविलोचना: । निवर्तन्ते स्म गणिका: कामुकानां निकेतनात् ॥३१२॥ स्मेरपङ्कजकोशेभ्यो निर्ययुभृङ्गराजयः । खण्डितामुखपद्मभ्य इव नि:श्वासवल्लयः ॥३१३॥ उदितादित्यतेजोभिर्युण्टितद्युतिवैभवः । अभवद् रजनीजानितातन्तुपुटोपमः ॥३१४।। यद् ब्रह्माण्डेऽपि मातं न तत् तमश्चण्डरोचिषा । मेघश्चण्डानिलेनेव निधूय क्वाऽप्यनीयत ॥३१५।। रात्रेरिवाऽनुबद्धाया निद्राया अपसर्पणात् । स्वस्वकर्माणि निर्मातुं प्रावर्तत पुरीजनः ॥३१६।। तदा च हनुमाल्लँङ्कासुन्दरी सुन्दरोक्तिभिः । आपृच्छ्य प्राविशल्लकानगरी गुरुविक्रमः ॥३१७।। बिभीषणस्य सदनं द्विषद्भटबिभीषण: । जगाम स्थामधामाऽथ पवनञ्जयनन्दनः ॥३१८॥ बिभीषणेन सत्कृत्य पृष्टश्चाऽऽगमकारणम् । अवोचदञ्जनासूः सारगम्भीरगीरिदम् ।।३१९॥ यद् भ्राता रावणस्याऽसि शुभोदकं विचिन्त्य तत् । रामपत्नी हृतां सीतां सती मोचय रावणात् ॥३२०।। दु:खाकृदिहलोकेऽपि परलोके न केवलम् । काकुत्स्थपत्नीहरणं त्वद्भातुर्बलिनोऽपि हि ।।३२१।। बिभीषणोऽप्यभाषिष्ट साधूक्तं हनुमंस्त्वया । सीतां मोचयितुं पूर्वमप्युक्तः स्वाग्रजो मया ॥३२२।। भूयोऽपि हि संनिर्बन्धं प्रार्थयिष्ये स्वबान्धवम् । सीतां यदि पुनर्मुञ्चत्येष सम्प्रति मद्गिरा ॥३२३।। पाएवं बिभीषणेनोक्ते समुत्पत्याऽञ्जनासुतः । जगाम देवरमणोद्याने वैदेह्यधिष्ठिते ॥३२४॥ तत्राऽशोकतरोर्मूले केपोललुलितालकाम् । सन्तताश्रुपयोधारापैल्वलीकृतभूतलाम् ।।३२५।। प्रम्लानवदनाम्भोजां हिमा" पद्मिनीमिव । अत्यन्तक्षामवपुषं प्रथमेन्दुकलामिव ॥३२६।। उष्णनिःश्वाससन्तापविधुराधरपल्लवाम्। ध्यायन्ती राम रामेति नि:स्पन्दां योगिनीमिव॥३२७।। मलिनीभूतवसनां निरपेक्षां वपुष्यपि । ददर्श देवीं वैदेहीं पवनञ्जयनन्दनः ॥३२८॥चतुर्भिः कलापकम्॥ एवं च दध्यौ हनुमानहो! सीता महासती । अस्या दर्शनमात्रेण पवित्रीभूयते जनैः ।।३२९।। अस्याश्च विरहे राम: स्थाने स खलु खिद्यते । रूपवच्छीलवच्चेदृक् कलत्रं यस्य पावनम् ॥३३०॥ द्विधाऽपि हि वराकोऽयं पतिष्यत्येव रावणः । रघूद्वहप्रतापेन स्वपापेन च भूयसा ॥३३१।। ततो विद्यौतिरोभूतः सीतोत्सङ्गेऽङ्गुलीयकम् । हनुमान् पातयामास तद् दृष्ट्वा मुमुदे च सा ॥३३२।। मतदैव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषण्णाऽऽसीत् सानन्दा त्वद्य जानकी ॥३३३॥ १. चन्द्रकिरणाः ।। २. नलिनीम् ॥ ३. 'नगोड'इति भाषायाम् ॥ ४. किरणवर्षणैः ।। ५. कामदेवस्य ॥६. “चन्द्रकान्तान्” इति ला.टि. ।। ७. चन्द्रः ।। ८. "तटाकादीनि” इति ला.टि.; वापीकूपतडागानि,देवतायतनानि च । अन्नप्रदानमेतत्तु , पूर्तं तत्त्वविदो विदुः।" (योगदृष्टिसमुच्चये) ॥ ९. “सूर्यविकासिनी" इति ला.टि. ॥१०. सा ज्योत्स्नी धौतदिङ्मुखा खं.१-२; सा ज्योत्स्ना धौतदिङ्मुखा पाता. मु. रस्वीपा.; स-चन्द्रः, ज्योत्स्नया निर्मलीकृतदिङ्मुख इत्यर्थः ।। ११. रात्रिम् ।। १२. सुवर्णरज्जुसदृशैः ॥ १३. इन्द्रस्य; प्राचीनबर्हिण: खं.१ ॥१४. निद्रास्त्रताम् ॥ १५. कुटुम्बिनीभिः स्त्रीभिः ।। १६. भ्रमरनादैः ।। १७. ०राशय: कां. ला.॥१८. "रात्रौ पतिरहिता" इति ला.टि. ॥ १९. "चन्द्रः" इति ला.टि. ॥२०. लूता-ऊर्णनाभ: (करोळियो) तन्मुखनिर्गतानां तन्तूनां पुटः-जालं तत्सदृशः ।। २१. “सम्बद्धायाः" इति ला.टि.॥ २२. अपसर्पणे रसंपा. ॥ २३. शत्रुभटभयङ्करः ।। २४.०गीरदः कां. मु. ॥ २५. रावणस्याऽऽशु ता. ॥ २६. "शुभागामिकालफलं" इति ला.टि. ।। २७. दुःखकृ० हे. मो.; दु:खकरम् ।। २८. साग्रहम् ।। २९. कपोलयोर्खलिता:-सस्ता अलका:-केशा यस्याः सा, ताम् ।। ३०. पल्वलं-लघुसरः 'खाबोचियु' इति भाषायाम् ।।३१. युक्तम् ।।३२. खिद्यति ला.॥ ३३. कस्य खं.१-२, ता.ला.; तस्य पाता. ॥ ३४. पतिष्यति च ता. ॥ ३५. विद्याबलेन तिरोभूत:-अदृश्यः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org