________________
१९८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व मन्ये विस्मृतरामेयं रिरंसुर्मयि सम्प्रति। तद् गत्वा बोध्यतामेवमूचे मन्दोदरी सतु॥३३४।। ततश्च
नर्मन्दोदरी ययौ । प्रलोभनकृते सीतां विनीता सेत्यवोचत ॥३३५।। अद्वैतैश्वर्यसौन्दर्यवर्यस्तावद् दशाननः । त्वमप्यप्रतिरूपैव रूपलावण्यसम्पदा ॥३३६।। यद्यप्यज्ञेन दैवेन युवयोरुभयोरपि । न व्यधाय्युचितो योगस्तथाऽपि ह्यस्तु सम्प्रति ॥३३७।। उपेत्य भजनीयं तं भजन्तं भज जानकि! । अहमन्याश्च तत्पत्न्यस्त्वदाज्ञां सुभ्र! बिभ्रतु ॥३३८।। सीताऽप्यवोचदा: पापे! पतिदूत्यविधायिनि! । त्वद्भर्तुरिव वीक्षेत मुखं दुर्मुखि! कस्तव ? ॥३३९॥ रामस्य पार्श्वे मां विद्धि सौमित्रिमिह चाऽऽगतम् । खरादीनिव हन्तुं द्राग् धवं तव सबान्धवम् ।।३४०।। उत्तिष्ठोत्तिष्ठ पापिष्ठे! वच्मि नाऽतः परं त्वया। सीतया तर्जितैवं सा सकोपा प्रययौ ततः ॥३४१।। पअथाऽऽविर्भूय हनुमान् सीतां नत्वा कृताञ्जलिः । इत्यूचे देवि! जयति दिष्ट्या राम: सलक्ष्मणः ॥३४२।। त्वत्प्रवृत्तिकृते रामेणाऽऽदिष्टोऽहमिहाऽऽगमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे ।।३४३।। बाष्पायितेक्षणा सीताऽपृच्छत् त्वमसि को ननु ? । दुर्लकमर्णवं चैतं कथं लकितवानसि ? ॥३४४।। कच्चित् प्राणिति मे प्राणनाथ: सौमित्रिणा सह ? । क्व वा स्थाने त्वया दृष्टः ? कालं नयति वा कथम् ? ॥३४५।। आख्यच्च हनुमानस्मि पवना-ऽञ्जनयोः सुतः । विद्यया व्योमयानेन लङ्घितो जलधिर्मया ॥३४६।। समस्तवानराधीशं सुग्रीवं विद्विषद्वधात् ।पत्तीकृत्याऽधिकिष्किन्धमस्तिराम: सलक्ष्मणः ॥३४७।। रामोऽस्ति त्वद्वियोगेन तप्यमानो दिवानिशम् । गिरिर्दवानलेनेव तापयन्नपरानपि ॥३४८॥ गवेव वत्सो रहितस्त्वया स्वामिनि! लक्ष्मणः । न जातु लभते सौख्यं शून्याः पश्यन् दिशोऽखिलाः ।।३४९।। क्षणं सशोको सक्रोधौ क्षणं ते पति-देवरौ । सग्रीवेणाऽऽश्वास्यमानावपि न प्राप्नुत: सुखम् ।।३५०।। भामण्डलो विराधश्च महेन्द्राद्याश्च खेचरा: । पत्तीभूयोपासते तौ शक्रेशानाविवाऽमरा: ।।३५१।। तव प्रवृत्तिमानेतुमहं सुग्रीवदर्शित: । रामेण प्रेषितो देवि! समर्प्य स्वाङ्गुलीयकम् ।।३५२।। चूडामणिरभिज्ञानं त्वत्त आनायितो मया। तद्दर्शनेन मामत्राऽऽयातं प्रत्येष्यति प्रभुः ॥३५३।। हनूमदुपरोधेन रामोदन्तमुदा च सा। एकविंशत्यहोरात्रप्रान्ते व्यधित भोजनम् ॥३५४।। प्रोवाचैवमभिज्ञानं चुडामणिमिमं मम । गहीत्वा वत्स! गच्छाऽऽश तिष्ठत: स्यादपद्रवः ॥३५५।।
अत्र त्वामागतं ज्ञात्वा क्रूरकर्मेष राक्षस: । हन्तुमन्तकवन्नूनं समुपस्थास्यते बली ॥३५६॥ स्मित्वा संप्रश्रयं सोऽपि जगादेति कृताञ्जलिः । त्वं मातर्मयि वात्सल्यादेवं वदसि कातरा ॥३५७।। राम-लक्ष्मणयोः पत्तिस्त्रिजगज्जैत्रयोरहम् । तपस्वी रावण: कोऽयं ससैन्योऽपि ममाऽग्रतः ॥३५८।। त्वामपि स्कन्धमारोप्य स्वामिनि! स्वामिनोऽन्तिके । नयामि परिभूयैनं ससैन्यमपि रावणम् ॥३५९॥ स्मित्वा सीताऽप्युवाचैवं न हि हेर्पयसि स्वकम् । रामभद्रं प्रभुं भद्र! वदन्नेवं ससौष्ठवम् ? ॥३६०।। त्वयि सम्भाव्यते सर्वं पदातौ राम-शाङ्गिणोः । परन्तु परपुंस्पर्शो न मेऽर्हति मनागपि ॥३६१॥ तद् गच्छ शीघ्रमेवैवं सति सर्वं कृतं त्वया। गते त्वयि यदद्योगमार्यपुत्र: करिष्यति ॥३६२।। अथेत्थं स्माऽऽह हनुमानेष गच्छाम्यहं परम् । रक्षसां दर्शयिष्यामि किञ्चिद् विक्रमचापलम् ॥३६३।। जितकाशी देशास्योऽयं परवीर्यं न मन्यते । जानातु रामभद्रीयपत्तेरपि पराक्रमम् ।।३६४॥ पआमेत्युक्त्वाऽऽर्पयत् तस्य सीता चूडामणिं निजम् । नत्वा सोऽपि चचालोच्चैः पादन्यासै(वन् धराम् ॥३६५॥ तदेवं देवरमणोद्यानं भतुं प्रचक्रमे । स वनं वनद्विपवत् प्रसरत्करविक्रमः ॥३६६॥ रक्ताशोकेषु निःशूको बकुलद्रुष्वनाकुलः । सहकारेष्वकारुण्यो निष्कम्पश्चम्पकेष्वपि ।।३६७।। अमन्दरोषो मन्दारेष्वदयः कदलीष्वपि । अन्यद्रष्वपि रम्येषु भङ्गलीलां चकार सः ॥३६८/युग्मम्।। १.०दौत्येन मु.॥२. दौत्य० मु.॥३. वरं ता. ॥ ४. अश्रुपूर्णनयना ।।५. दुर्लध्य० खं.१-२, पाता. कां. मु. ।। ६. “इष्टपरिप्रश्ने” इति ला.टि. ॥७. "जीवति" इति ला.टि.॥८. सेवकं कृत्वा॥९.०तोऽस्मि च खं.२,ता.॥१०. विंशतेरुपवासानामन्ते व्य० खं.१, ला. हे. कां.॥११. प्रोवा० खं.१-२, पाता. मु.॥ १२. सविनयम् ।। १३. परिभूयैव ता. ॥१४. लज्जयसे निजम् ।।१५. जितेन-जयेन काशते-शोभते इति जितकाशी ॥ १६. चिरं ह्येष खं.२ ।। १७. तदैव हे. मो, पा, छा. कां. ॥ १८. वनद्विप इव प्रसर्पत्कर० ला.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org