________________
षष्ठः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। तदुद्याने चतुर्कीरि द्वारपाला: 'क्षपाचरा:। अधावन्त निहन्तुं तं तदा मुद्गरपाणयः॥३६९॥ हनूमति स्खलन्ति स्म तेषां प्रहरणानि तु । महाम्भोनिधिकल्लोला इव तीरंमहीधरे ॥३७०॥ पावनि: कुपितस्तेभ्यस्तैरेवोद्यानपादपैः । प्रजहार निरायास: सर्वमस्त्रं बलीयसाम् ।।३७१।। मङ्गु वृक्षानिवाऽभावीत् तानारक्षक्षपाचरान् । क्षुद्रानैक्ष्वाकुपत्तिः स समीरण इवाऽस्खलन् ॥३७२।। हनूमता क्रियमाणमुद्यानरक्षसङ्क्षयम् । गत्वाऽऽचचक्षिरे केचित् क्षेपाचरपतेस्तदा ॥३७३।। तत: सह बलैरेक्षकुमारं राक्षसेश्वरः । समादिक्षद्धनुमतो घातनायाऽरिघातनम् ॥३७४।।
आक्षिपन्तं रणायाऽक्षं बभाषे पावनञ्जयिः । भोजनादौ फलमिव रणादौ मे त्वमापतः ॥३७५।। मुधा कपे! गर्जसीति तर्जयन् रावणात्मजः । ववर्ष विशिखैस्तीक्ष्णैरक्ष्णोः प्रसररोधिभिः ॥३७६।। श्रीशैलोऽपीषुवर्षेण सप्रकर्षेण रोवणिम् । पिदधे वारिभिर्दीपमुद्वेल इव वारिधिः ।।३७७।। शस्त्राशस्त्रि चिरं कृत्वा कौतुकादञ्जनासुतः । रणपारं परिप्रेप्सुरक्षं पशुमिवाऽवधीत् ।।३७८॥ ततो भ्रातृवधामर्षादाययौ द्रुतमिन्द्रजित् । मारुते! तिष्ठ तिष्ठेति ससौष्ठवमुदीरयन् ।।३७९।। द्वयोरपि महाबाह्वो: कल्पान्त इव दारुणः। विश्वविक्षोभकरणश्चिरं प्रववृते रण: ॥३८०॥ वर्षन्तौ वारिधारावन्नीरन्ध्राः शस्त्रधोरणी: । व्योमस्थौ तावलक्ष्येतां पुष्करावर्तकाविव ॥३८१।। अन्तरीक्षं तयोरस्त्रैरास्फलद्भिर्निरन्तरैः । क्षणादजनि दुष्प्रेक्षं यादोभिरिव वारिधिः ॥३८२॥ मुमोच यावन्त्यत्राणि दुर्वारो रावणात्मजः । तदनेकगुणैरस्त्रैस्तानि चिच्छेद मारुतिः ॥३८३।। हनुमदस्त्रक्षुण्णाङ्गा: सर्वेऽपीन्द्रजितो भटाः । अनश्यन रक्तह्रदिनीपर्वता इव जङ्गमाः ॥३८४॥ दृष्ट्वा नष्टं निजं सैन्यं स्वं च मोघीकृतायुधम् । अमुञ्चन्नागपाशास्त्रं श्रीशैलाय दशास्यसूः ॥३८५।। नागपाशैर्द्रढीयोभिस्तदैवाऽऽपादमस्तकम् । अबन्धि चन्दन इवाऽभित: पवननन्दनः ॥३८६।। स नागपाशबन्धोऽपि समसाहि हनूमता । कौतुकाद्धि क्षणं दत्ते शक्तो जयमपि द्विषाम् ॥३८७।। हृष्टेनेन्द्रजिता निन्ये हनुमानपरावणम। निरीक्ष्यमाण: फला: राक्षसैर्जयसाक्षिभिः ॥३८॥ मारुतिं रावण: स्माऽऽह दुर तं त्वया ? । आजन्म मामकीनेनाऽऽश्रितौ यत् तौ तपस्विनौ ॥३८९।। वनेवासौ फलाहारौ मलिनौ मलिनांशुकौ। किराताविव तौ तुष्टौ तुभ्यं कां दास्यत: श्रियम् ? ॥३९०॥ तत्राऽपि मन्दबुद्धे! त्वं तद्वाचा किमिहाऽऽगम: ? । येनेहाऽऽयातमात्रोऽपि प्राप्तोऽसि प्राणसंशयम् ॥३९१।। दक्षौ भूचारिणौ तौ तु येत् ताभ्यां कारितोऽस्यदः । अङ्गारान् परहस्तेन कर्षयन्ति हि धूर्तकाः ।।३९२।। यत् सेवकवरो मे त्वमद्य दूत: परस्य च । तदवध्योऽसि रे! शिक्षामात्राय तु विडम्ब्यसे ॥३९३।। हनुमानप्युवाचैवं कदाऽहं तव सेवकः ? । कदा ममाऽभूस्त्वं स्वामी ? वदन्नेवं न लज्जसे? ॥३९४।। एकदा युधि सामन्तो बहुम्मन्य: खर: स ते । त्वन्मैत्र्या वरुणबन्धान्मत्पित्रा मोचित: पुरा ॥३९५।। साहाय्यार्थं त्वयाऽऽहूतोऽहमप्यभ्यागमं पुरा । रणे वरुणपुत्रेभ्यस्त्वामरक्षं च सङ्कटे ॥३९६॥ साहाय्यस्य न योग्योऽसि साम्प्रतं पापतत्परः । सम्भाषोऽपि हि पापाय परस्त्रीहारिणस्तव ॥३९७।। त्वदीये तं न पश्यामि यो हि त्वां त्राँस्यतेऽधुना । एकस्मादपि सौमित्रेर्दूरे रामस्तदग्रजः ॥३९८।। तद्गिरा कुपितो भालाहित कुटिभीषणः । दशाननो दशन्नोष्ठं दशनैरिदमभ्यधात् ॥३९९।। मैदरी यच्छ्रितोऽसि त्वं मां चाऽरीकृतवानसि । तन्नूनं मर्तुकामोऽसि वैराग्यं तत्र किं तव ? ॥४००॥ यथा कुष्ठविशीर्णाङ्गं मुमूर्षुमपि कोऽपि न । हत्याभयान्निहन्त्येवं हन्यात् को दूतमप्यरे! ॥४०१।। आरोप्य रासभे पैञ्चशिखीकृत्य च सम्प्रति । अन्तर्लङ्क प्रतिपथं भ्राम्यसे लोकवेष्टितः ॥४०२।। १. निशाचराः॥२. तीरस्थितपर्वते ॥३. क्षणेनैश्वाकु० ता.; रामसैनिको हनुमान् ॥४. पवनः॥५. रावणस्य॥६. रक्ष:कुमारं ला.; तत्र "रक्षःकुमारनाम" इति ला.टि. च ।। ७. शत्रुनाशकम् ।। ८. रणायोक्षं ला.; रणायोत्कं हे. कां.; अक्षनामक राक्षसकुमारं हनुमान् बभाषे इत्यर्थः ।। ९. बाणैः ।। १०. नेत्रयोः॥ ११. हनुमान् ।। १२. रावणस्याऽपत्यम् ।। १३. अमर्यादः ।। १४. परिप्रेप्सू रक्ष: ला.; युद्धस्य पारं प्राप्नुमिच्छुः ।। १५. निरन्तरा: शस्त्रपरम्पराः ।। १६. तौहनुमदिन्द्रजितौ पुष्करावत्तर्काविवाऽलक्ष्येताम् ।। १७. दुष्प्रेक्ष्यं खं.१, मु. रस्वीपा. ॥१८. यादांसि जलजन्तवस्तैः ।। १९. रुधिरनदीनां पर्वताः ॥ २०. विफलीकृतानि आयुधानि यस्य तम् ॥२१. असह्यत ॥ २२. जयकाक्षिभि: ला. छा. ।। २३. त्वया कृतं ता. ॥ २४. वनवासौ ला.; वनेचरौ ॥ २५.
यकाभ्यां रसंपा. ॥ २६. संलापोऽपि ।। २७. तव परिजने ॥ २८. रक्षिष्यति ।। २९. प्रकुटि० ला. ॥ ३०. मम अरी-शत्रू ।। ३१. मां शत्रु कृतवान् ।। ३२. Jain Education मुण्डीकृत्य।। ३३. भ्रम्यसे हे. मो. ला. ता. छा. ।।
For Private & Personal Use Only
www.jainelibrary.org