________________
षष्ठः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। 'अनाकर्णितकेनेव बिभीषणगिरामथ'। आरोप्य पुष्पके सीतां भ्रमन्नेवमदर्शयत्॥१६७॥ अमी क्रीडाद्रयो रत्नसानव: स्वादुनिर्झरा: । नन्दनोद्यानसोदर्याण्यमून्युपवनानि च ॥१६८॥ यथाकामीनवृष्टीनि धारावेश्मान्यमूनि च । अमूश्च केलिकूलिन्य: सहंसा हंसगामिनि! ॥१६९।। एतानि रतिवेश्मानि स्वर्गखण्डोपमानि च । मया स
। मया सह रमस्वैषु सुभ्र! यत्र रतिस्तव ॥१७०॥ ध्यायन्ती रामपादाब्जे हंसीव जनकात्मजा। वसुन्धरेव धैर्येण चुक्षोभ न हि तद्गिरा ॥१७१॥ सर्वेषु रम्यस्थानेषु भ्रान्त्वा भ्रान्त्वा दशाननः । मुमोचाऽशोकवनिकामध्ये भूयोऽपि जानकीम् ।।१७२।। प्रेक्ष्योन्मत्तमिव ज्येष्ठं वाचोयुक्तेरगोचरम् । बिभीषणो मन्त्रयितुं कुलामात्यानथाऽऽह्वयत् ।।१७३।। ऊचे च भो: कुलामात्या:! कामाद्या ह्यान्तरद्विषः । भूता इवैते तेष्वेकोऽप्युन्मथ्नाति प्रमादिनम् ।।१७४।। कामं कामातुर: स्वामी कामस्त्वेकोऽपि दुर्जयः । किं पुन: कृतसाहाय्य: परनारीरिरंसया ? ॥१७५।। तदत: परमत्यन्तं महति व्यसनार्णवे। पतिष्यति पतिर्लङ्कापुर्या दोष्मानपि द्रुतम् ।।१७६॥ अथ ते मन्त्रिण: प्रोचुर्वयं नाम्नैव मन्त्रिण: । त्वमेव मन्त्री मन्त्रात् तु यस्येदृग्दूरदर्शिता ॥१७७॥ किं करोति परं मन्त्रः प्रभौ कामवशंवदे ? । मिथ्यादृष्टौ जने जैनधर्मस्येवोपदेशनम् ॥१७८॥ सुग्रीव-हनुमन्मुख्या मिलिता राघवस्य ते। महात्मनां न्यायभाजां कः पक्षं नाऽवलम्बते ? ॥१७९।। सीतानिमित्तो क्ष्विाकाज्ज्ञान्युक्तो न: कुलक्षयः । तथाऽपि पुरुषाधीनं कर्तव्यं समयोचितम् ॥१८०।। ततो बिभीषणश्चक्रे वगै यन्त्रादिरोपणम् । अनागतं हि पश्यन्ति मन्त्रिणो मन्त्रचक्षुषा ॥१८१।। पाइतश्च कालं कमपि कथमप्यत्यवाहयत् । सौमित्रिणाऽश्वास्यमानो रामो विरहपीडितः ॥१८२॥ अनुशिष्याऽथ रामेण प्रेषितो लक्ष्मण: स्वयम् । प्रतस्थे प्रति सुग्रीवं तूण-चाप-कृपाणभृत् ॥१८३।। दलयन मां पदन्यासै: कम्पयंस्तं च पर्वतम् । वेगान्दोलितदो:स्पर्शान्मार्गवृक्षांश्च पातयन् ॥१८४॥ उत्कटभृकुटीभीमललाटोऽरुणलोचनः । भीतैःस्थैर्मुक्तमार्ग: प्राप सुग्रीववेश्म सः॥१८५।युग्मम्।। आयातं लक्ष्मणं श्रुत्वा निर्गत्याऽन्तःपुराद् द्रुतम् । उपतस्थे कपिराज: कम्पमानवपुर्भयात् ॥१८६।। ऊचे च लक्ष्मण: क्रुद्धः कृतकृत्योऽसि वानर! | सुखं तिष्ठसि निःशङ्क: स्वान्तःपुरसमावृतः ? ||१८७। स्वामी तरुतलासीनो दिवसानब्दसन्निभान् । यथाऽत्येति न तद् वेत्सि प्रतिपन्नं च विस्मृतम् ? ॥१८८॥ सीताप्रवृत्तिमानेतुमुत्तिष्ठस्वाऽधुनाऽपि हि। मा साहसगतेर्मार्गं गम: सङ्कुचितो न सः॥१८९॥ पतित्वा पादयोस्तस्य सुग्रीवोऽथाऽब्रवीदिति । प्रसीदैकं प्रमादं मे सहस्वाऽसि प्रभुर्यतः ॥१९०॥ एवमाराध्य सौमित्रिमग्रे कृत्वा कपीश्वरः । द्रुतं ययौ रामभद्रं नमश्चक्रे च भक्तितः ॥१९१।। इत्यादिशच्च स्वान् सैन्यान् भो भोः! सर्वेऽपि दोर्भूतः! । सर्वत्राऽस्खलिता यूयं गवेषयत मैथिलीम् ॥१९२।। इत्युक्तास्तेन ते सैन्या द्वीपेष्वद्रिषु सिन्धुषु । भूमिरन्ध्रेष्वथाऽन्यत्र त्वरितत्वरितं ययुः ।।१९३।।
सीताहरणमाकर्ण्य तदा भामण्डलोऽपि हि। आगमद् राममस्थाच्च से इवाऽत्यन्तदःखितः ॥१९४॥ विराधोऽपि समं सैन्यैः स्वामिव्यसनपीडितः । एत्य शुश्रूषमाणोऽस्थात् तत्रैव चिरपत्तिवत् ॥१९५।। सुग्रीवोऽपि स्वयं गच्छन् कम्बुद्वीपमुपाययौ । तं च रत्नजटी दृष्ट्वा दूरादेवमचिन्तयत् ॥१९६।। संस्मृत्य किं ममाऽऽगस्तत् प्रेष्ययं दशमौलिना । मद्वधाय महाबाहुः सुग्रीवो वानरेश्वर: ? ॥१९७।। हृता विद्या दशास्येन पुरा तावन्महौजसा । इदानीमेष मे प्राणान् हरिष्यति हरीश्वरः ॥१९८।। इति चिन्तापरं तं द्राक् सुग्रीवोऽगादुवाच च । नाऽभ्युदस्था: कथं मां त्वं ? व्योमयानेऽलसोऽसि किम् ? ॥१९९।। सोऽप्यभ्यधाद् दशास्येन विद्या मे सर्वतो हृता । जानकी हरतस्तस्य युद्धे ह्यहमुपस्थितः ॥२००।। ततश्च रामपादान्ते स नीतः कपिकेतुना। तेन विज्ञापित: सीतोदन्तमेवं व्यजिज्ञपत् ॥२०१।। १. अश्रुत्वा इव ।।२.०कथामथ पाता. ॥३. रत्नशिखरा: स्वादुजला निर्झरा येषु ते॥४. नन्दनवनसदृशानि॥ ५. यथेच्छवृष्टीनि॥६. क्रीडानद्यः ।।७. रमैतेषु पाता. ।। ८. ०मात्यानजूहवत् ता. ।। ९. ०स्त्वेको हि ता.विना ।। १०. परनारीरिरंसया साहाय्यं प्राप्त: काम: सुतरां दुर्जय इत्यर्थः ।। ११. प्रेरितो० हे. ॥ १२. वेश्मनि खं.२॥१३. सुग्रीवः ।। १४. तोऽथ स: ला.; स: - मृत्योर्मार्ग: न सङ्कुचितोऽपि तु विशाल एव, अत: साहसगतिरिव त्वमपि तन्मार्ग एव गमिष्यसि ।।१५. सह स्वामि प्र० खं.१-२, पाता.; सह स्वामिन्! प्र० ला.॥१६. राम इव ।। १७. कपीश्वर: खं.१, पाता.॥१८. नाऽभ्युत्थितवान् ।। १९.
सुग्रीवेण||
For Private & Personal Use Only
www.jainelibrary.org