________________
१९२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व सीते! त्वमेव धन्याऽसि यां'सिसेविषतेऽनिशम्। विश्वसेव्यांहिकमल: पतिर्मम महाबलः॥१३३॥ अद्याऽपि तव रामेण भूचरेण तपस्विना । पत्तिमात्रेण किं पत्या ? प्राप्यते चेद् दशाननः ॥१३४॥ रुषा बभाषेसीतैवं क्व सिंह:? क्व च जम्बुक:? । क्व सुपर्ण:? क्वाऽपि काकः? व राम:? क्व च ते पति:? ॥१३५॥ दम्पतित्वमहो युक्तं तव तस्य च पाप्मनः । रिरंसुरेकोऽन्यस्त्रीषु दूती भवति चाऽपरा ॥१३६।। द्रष्टुमप्युचिता नाऽसि किमु सम्भाषितुं हले! ? । स्थानादितो गच्छ गच्छ त्यज दृष्टिपथं मम ॥१३७॥ रावणोऽपि तदा तत्राऽऽजगाम निजगाद च । कुपिताऽसि कुत: सीते! दासी मन्दोदरी तव ॥१३८॥ दासस्ते स्वयमप्यस्मि प्रसादं कुरु देवि! मे । जानकि!त्वं जनममुं प्रीणासि न दृशाऽपि किम् ? ॥१३९॥ सीता पराङ्मुखीभूयेत्यभाषत महासती । कृतान्तदृष्ट्या दृष्टोऽसि हरन्मां रामगेहिनीम् ॥१४०॥ धिगाशां ते हताशस्याऽप्रार्थितप्रार्थकस्य रे! । जीविष्यसि कियद् रामे सानुजे द्विषदन्तके ॥१४१।। तयेत्याक्रुश्यमानोऽपि भूयो भूयो दशाननः । तथैवोवाच धिगहो! कामावस्था बलीयसी॥१४२॥
अत्राऽन्तरे विपन्मनां सीतां द्रष्टमिवाऽक्षमः । निममज्ज निधिर्धाम्नां पश्चिमे लवणाम्बुधौ ॥१४३|| प्रावर्तत निशा घोरा घोरबुद्धिश्च रावणः । सीतायै क्रोध-कामान्ध उपसर्गान् प्रचक्रमे ॥१४४॥ घूत्कारिणो महाघूका: फेत्कुर्वाणाश्च फेरवः । वृका विचित्रं क्रन्दन्त: ओतवोऽन्योऽन्ययोधिनः ॥१४५।। पुच्छाच्छोटकृतो व्याघ्रा: फूत्कुर्वाणा: फणाभृतः । पिशाच-प्रेत-वेताल-भूताश्चाऽऽकृष्ट कत्रिकाः ॥१४६।। उल्ललन्तो दुर्ललिता: यमस्येव सभासदः । विकृता रावणेनेयुरूंपसीतं भयङ्कराः ॥१४७॥त्रिभिर्विशेषकम्।। ध्यायन्ती मनसा पञ्चपरमेष्ठिनमस्क्रियाम् । सीता तस्थावभीतैव न तु भेजे दशाननम् ॥१४८।। बिभीषण: प्रभाते तु निशावृत्तं निशम्य तत् । आगादुपदशग्रीवं सीतां चैवमवोचत ।।१४९।। भद्रे! का त्वं ? कुत: स्थानात् ? कस्य चाऽसि ? किमत्र च? | मा भैषीः सर्वमाख्याहि परस्त्रीसोदरस्य मे ॥१५०॥ तं मध्यस्थं परिज्ञाय सीताऽप्याख्यदधोमुखी । अहं जनकपुत्र्यस्मि सीता भामण्डलस्वसा ॥१५१॥ गृहिणी रामभद्रस्य स्नुषा दशरथस्य च । समं पत्या सानुजेन दण्डकारयेमागमम् ।।१५२।। तत्रैकदा देवरो मे क्रीडयेतस्ततो भ्रमन् । खे महासिं ददर्शकं जग्राह च कुतूहलात् ॥१५३।। अभ्यर्णस्थां वंशजालीं तेन चिच्छेद सोऽसिना। अज्ञानाच्च तदन्त:स्थतत्साधकशिरोऽच्छिदत् ॥१५४॥ अयुध्यमानोऽनोगस्कः कोऽप्ययं हा! हतो मया । सानुताप इव भ्रातुः समीपं स उपागमत् ॥१५५।। तस्याऽसिसाधकस्यैव काचिदुत्तरसाधिका । मद्देवरस्याऽनुपदं तत्र कोपादुपागमत् ॥१५६॥ भर्तारं मम दृष्ट्वा चाऽद्भुतरूपपुरन्दरम् । रेन्तुं ययाचे कामार्ताऽवाज्ञासीत् तां च मत्पतिः ॥१५७॥ साऽगच्छदार्गमदथ रक्षसां बलमुल्बणम् । क्ष्वेडां वैधुर्यसङ्केतीकृत्याऽगाल्लक्ष्मणो युधि ॥१५८॥ मायाक्ष्वेडामथो कृत्वा दूरं नीत्वा च मत्पतिम् । दुराशोऽहत मामेष स्ववधायैव राक्षसः ॥१५९।। तच्छ्रुत्वा रावणं नत्वा बभाषे च बिभीषणः । कुलस्य दूषणमिदं स्वामिन्! कर्म त्वया कृतम् ॥१६०॥ न यावदिह हन्तुं न: काकुत्स्थोऽभ्येति सानुजः । मुच्यतां तावदाश्वेव नीत्वा सीता तदन्तिके ॥१६१।। इत्युक्ते रावण: क्रोधारुणाक्षोऽप्यब्रवीदिति । किमिदं भाषसे भीरो! व्यस्मार्षीर्मम पौरुषम् ? ॥१६२॥ सीताऽनुनीताऽवश्यं हि मम भार्या भविष्यति । तौ चाऽऽयातौ हनिष्यामि वराकौ राम-लक्ष्मणौ ॥१६३।। ऊचे बिभीषणो भ्रात:! सत्यं तज्ज्ञानिनो वचः । यद् रामपत्न्या: सीतायाः कृते न: कुलसङ्क्षयः ।।१६४॥ भक्तस्य बन्धोर्मे वाचं मन्यसे नाऽन्यथा कथम् ? । मया हतो दशरथ: स तावज्जीवित: कथम् ? ||१६५॥ न यद्यप्यन्यथाभावि भावि वस्तु महाभुज! तथाऽपिप्रार्थ्यसे मुञ्चसीतां नः कुलघातिनीम्॥१६६।। १. सेवितुमिच्छति ॥२.शृगालः॥३. गरुडः॥४. कुपिताऽपि ता.॥५. यमदृष्ट्या॥६. शत्रुषु यमोपमे॥७. सूर्यः।। ८.शृगालाः॥९. कर्चिका-छुरिका ।।१०. उच्छलन्तः ॥ ११. दुर्विनीताः ॥ १२. सीतासमीपम् ॥ १३. माश्रिता खं.२ ॥ १४. समीपस्थानम् ॥ १५. निरपराधी ॥ १६. उपाविशत् ता. ॥ १७. उपेयुषी खं.१, ला.; दुपेयिवान् खं.२, ला. हे. ॥ १८. अयाचीत्तं च कामात० ला.; अयाचीद्रन्तुकामार्ता० मु. खं.१, हे.प्रभृतिषु ।। १९. दागमच्चाऽथ ता. ॥ २०."उत्कटं" इति ला.टि. ॥ २१. वैधुर्ये-सङ्कटसमये क्ष्वेडा(सिंहनाद) सङ्केतीकृत्य ॥ २२. दुराशो मां जहारैष खं.२, ता.॥ २३. सीता नीता मयाऽवश्यं पाता. ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org