________________
षष्ठः सर्गः )
त्रिषष्टिशलाकापुरुषचरितम् ।
प्रचचालाऽथ सुग्रीवोऽश्वानां 'ग्रैवेयकस्वनैः । दिशो मुखरयन् सर्वा वेगाद् 'दूरमदूरयन् ।। ९८ । पाताललङ्कां स प्राप क्षणेनाऽप्युपवेश्मवत् । विराधमुपतस्थे चाऽभ्युत्तस्थौ सोऽपि तं मुदा ॥९९॥ विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तद्दुःखं च व्यजिज्ञपत् ॥१००॥ सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः । क्षुते हि सर्वथा मूँढे शरणं तरणिः खलु ॥ १०१ ॥ स्वयं दुःख्यपि तद्दुःखच्छेदं रामोऽभ्युपागमत् । स्वकार्यादधिको यत्नः परकार्ये महीयसाम् ॥१०२॥ सीताहरणवृत्तान्तं विराधेनाऽवबोधितः । रामं विज्ञापयामास सुग्रीवोऽथ कृताञ्जलिः ॥१०३॥ त्रायमाणस्य ते विश्वं तथा द्योतयतो रवेः । न काऽपि कारणापेक्षा देव! वच्मि तथाऽप्यदः ॥ १०४॥ त्वत्प्रसादात् क्षतारिः सन् ससैन्योऽस्मि तवाऽनुगः । आनेष्यामि प्रवृत्तिं च सीताया नचिरादहम् ॥१०५॥ ससुग्रीवः प्रतस्थे च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तं सम्बोध्य विससर्ज च ॥ १०६ ॥ रामभद्रेऽथ किष्किन्धापुरद्वारमधिष्ठिते । सुग्रीवो विटसुग्रीवमाह्वास्त रणकर्मणे ॥१०७॥ निनदन् विटसुग्रीवोऽप्यागादाह्वानमात्रतः । रणाय नाऽलसाः शूरा भोजनाय द्विजा इव ॥१०८॥ दुर्धरैश्चरणन्यासैः कम्पयन्तौ वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ ॥१०९॥। राम: सरूपौ तौ दृष्ट्वा कोऽस्मदीयः ? परश्च क: ? । इति संशयतस्तस्थावुदासीन इव क्षणम् ॥ ११० ॥ भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वज्रावर्त्ताभिधधनुष्टङ्कारमकरोत् ततः ॥ १११ ॥ धनुष्टङ्कारतस्तस्मात् सा साहसगतेः क्षणात् । रूपान्तरकरी विद्या हरिणीव पलायत ॥ ११२ ॥ विमोह्य मायया सर्वं परदारै रिरंसेंसे ? । पापाऽरोपय रे ! चापमिति रामस्ततर्ज तम् ॥ ११३ ॥ एकेनाऽपीषुणा प्राणांस्तस्याऽहार्षीद् रघूद्वहः । न द्वितीया चपेटा हि 'हरेर्हरिणमारणे ॥११४॥ विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवाऽनमस्यत ॥११५॥ त्रयोदश निजाः कन्या दातुमत्यन्तसुन्दरीः । रामभद्रमयाचिष्ट प्राञ्जलिर्वानरेश्वरः ॥ ११६ ॥ रामोऽप्युवाच सुग्रीवें ! सीतान्वेषणकर्मणे । प्रयतस्व किमेताभिरपरेणाऽपि वस्तुना ॥११७॥ इत्युक्त्वा बहिरुद्याने गत्वा तस्थौ रघूद्वहः । सुग्रीवोऽपि तदादेशात् प्रविवेश निजां पुरीम् ॥ ११८ ॥ "इतश्च पुर्यां लङ्कायां रावणान्तःपुरस्त्रियः । खरादिहननोदन्तान्मन्दोदर्यादयोऽरुदन् ॥ ११९॥
ती सह सुन्देन स्वसा चन्द्रणखाऽपि च । प्राविशद् रावणगृहं पाणिभ्यां कुट्टयन्त्युरः ॥ १२० ॥ दृष्ट्वा च रावणं कण्ठे लगित्वोच्चतरस्वरम् । रुदती निजगादैवं दैवेन निहताऽस्मि हा! ॥१२१॥ हतः पुत्रो हतो भर्ता हतौ च मम देवरौ । चतुर्दश सहस्राणि हताश्च कुलपत्तयः ॥ १२२ ॥ पाताललङ्का चाऽऽच्छिन्ना राजधानी त्वदर्पिता । दर्पवद्भिर्विद्विषद्भिर्बन्धो! जीवत्यपि त्वयि ॥ १२३॥
།
ग्राहं प्रणश्याऽहं सुन्देन सह सूनुना । त्वां शरण्यमिहाऽऽयाता कुत्र तिष्ठामि शाधि ? माम् ॥ १२४॥ अबोधयद् दशास्योऽपि रुदतीं तां ससौष्ठवः । त्वद्भर्तृ-पुत्रहन्तारं हनिष्याम्यचिरादपि ॥ १२५॥ शोकेन तेन वैदेही विप्रलम्भरुजाऽपि च । फालच्युत इव द्वीपी तल्पे तस्थौ निपत्य सः ॥ १२६ ॥ ||अथ मन्दोदरी देवी तमुपेत्याऽभ्यधादिति । कथं प्राकृतवत् स्वामी निश्चेष्ट इव तिष्ठसि ? ॥१२७॥ रावणोऽप्यब्रवीदेवं वैदेहीविरहज्वरात् । न चेष्टितुं न वक्तुं च न चाऽऽलोकयितुं क्षमः ॥१२८॥ मया चेज्जीवता तेऽर्थस्तन्मानं प्रोज्झ्य मानिनि ! । गत्वाऽनुनय वैदेहीं यथा मयि रिरंसते ॥ १२९ ॥ नाऽन्यनारीमनिच्छन्तीं भुञ्जे जातुचिदप्यहम् । अर्गला नियमो ह्यत्र ममाsस्ति गुरुसाक्षिकः ॥ १३० ॥ पीडिता पीडया पत्युः कुलीना साऽपि तत्क्षणम् । जगाम देवरमणोद्याने सीतामुवाच च ॥१३१॥ एषा मन्दोदरी नाम दशाननमहिष्यहम् । प्रत्स्ये त्वयि दासीत्वं भजस्व दशकन्धरम् ॥१३२॥
१९१
१. कण्ठाभरणशब्दैः ॥ २. दूरमपि समीपीकुर्वन् । ३. उपवेश्म अङ्गणम् ॥ ४. मतिः ता. ॥ ५. छिक्कायाम् ॥ ६. नष्टे ।। ७. सूर्यः ।। ८. तं दुःखछेदं हे. कां., तद्दुःखं छेत्तुं मु. ॥ ९. विज्ञपया० ला. ॥ १०. ससैन्योऽपि छा. पा. मु., पाता. ॥। ११. दुर्धरैश्च रणन्यासै: मु. १ ॥ १२. पलायिता कां. ॥ १३. रन्तुमिच्छसि ? ।। १४. सिंहस्य ।। १५. सुग्रीवं सीतान्वेषणहेतवे मु. प्रभृतिषु ।। १६. रुदन्ती खं. १ - २, पाता. ला. ॥ १७. जीवं गृहीत्वा ।। १८. सीताविरहपीडयाऽपि ॥ १९. व्याघ्रः ॥ २०. पामरजनवत् ।। २१. त्यक्त्वा ।। २२. स्वीकरिष्यामि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org